A8.2.23

संयोगान्तस्य लोपः ॥ ८।२।२३ ॥

पदच्छेदः     संयोगान्तस्य [संयोगान्त, ६, १], लोपः [लोप, १, १]

अधिकारः     पदस्य (८।१।१६)

सूत्रस्थपदानि – संयोगोऽन्ते यस्त तत् संयोगन्तम् [बहुव्रीहिः], तस्य ।

काशिका

संयोगान्तस्य पदस्य लोपो भवति । गोमान् । यवमान् । कृतवान् । हृतवान् ।
There is an elision (of the last varṇa) of a pada that ends in a conjunct.

Examples

  • गो + मतुप् (with नुम्) + सु = गोमन्त् + स् = गोमन्त् (by हल्ङ्यादि०) = गोमन् (by this rule) = गोमान् [by सर्वनामस्थाने चासम्बुद्धौ (६।४।८)]
  • The derivation for the others is similar

इह श्रेयान् , भूयान् – इति रुत्वं परमप्यद्धत्वात् संयोगान्तस्य लोपं न बाधते ।

Here in the case of इह श्रेयान् , भूयान् – even though the rule for रुत्व comes later, it does not obstruct this rule because it is asiddha with respect to it.

श्रेयस् + सु = श्रेयान्‍स् – In this case the रुत्व by applying ससजुषो रुः (८।२।६६) becomes asiddha with respect to this sūtra, which will see the स् as it is. It will therefore be elided giving श्रेयान् ।

जश्त्वे तु नाप्राप्ते तदारभ्यत इति तस्य बाधकं भवति – यशः पय इति ।

Of course, जश्त्व will be obtained [by झलां जशोऽन्ते (८।२।३९)], but रुत्व will take precedence over it (because it comes later in the त्रिपादी). For example, in the case of यशस् and पसस् , रुत्व will override जश्त्व giving यशः and पयः respectively.

दध्यत्र , मध्वत्र – इत्यत्र तु यणादेशस्य बहिरङ्गलक्षणस्यासिद्धत्वात् संयोगान्तलोपो न भवति ॥

In the case of दध्यत्र and मध्वत्र – दधि + अत्र = दध्य् + अत्र , मधु + अत्र = मध्व् + अत्र , this rule will not apply because of the यणादेशः being बहिरङ्गः and therefore asiddha. यणादेशः is based on two padas whereas संयोगान्तस्य लोपः is based on a single pada and is therefore अन्तरङ्गः । (Alternately the elision of य् and व् is prevented by the vārttika यणः प्रतिषेधो वाच्यः )


Ashtadhyayi     8.2.22     8.2.24
Advertisements