AB33.6

तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः पञ्चाशदेव ज्यायांसो मधुच्छन्दसः पञ्चाशत्कनीयांसः।

Viśvāmitra had (तस्य विश्वामित्रस्य) one hundred and one sons (एकशतम् पुत्राः आसुः ह), fifty older (पञ्चाशत् एव) than Madhucchandas (मधुच्छन्दसः ज्यायांसः), and fifty younger than him (पञ्चाशत् कनीयांसः).

तद्ये ज्यायांसो न ते कुशलं मेनिरे ताननु व्याजहारान्तान्वः प्रजा भक्षीष्टेति । त एतेऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो वैश्वामित्रा दस्यूनां भूयिष्ठाः।

Those who were older (तद् ये ज्यायांसः) (to Madhucchandas) did not accept him (ते न कुशलम् मेनिरे). (Viśvāmitra) cursed them (तान् अनु व्याजहार) thus (इति), “May your progeny (वः प्रजाः) attain the lowest status (of candālas etc.) (अन्तान् भक्षीष्ट)! They, the Andhras, Śabaras, Puṇḍras, Pulindas, Mūtibas (ते एते अन्ध्राः पुण्ड्राः शबराः पुलिन्दाः मूतिबाः इति) became the lowest (उदन्त्याः) . This progeny of Viśvāmitra (वैश्वामित्राः), multiplied among the dasyus in various ways (दस्यूनाम् बहवः भूयिष्ठाः).

स होवाच मधुच्छन्दाः पञ्चाशता सार्धं – यन्नः पिता संजानीते तस्मिंस्तिष्ठामहे वयम् । पुरस्त्वा सर्वे कुर्महे त्वामन्वञ्चो वयं स्मसीति।

Then Madhucchandas (सः मधुच्छन्दाः), along with the fifty (younger to him) said (पञ्चाशता सार्धंम् इति उवाच ह), “(Śunaḥśepa)! We stand by (तस्मिन् वयम् तिष्ठामहे) whatever our father has decided (यत् नः पिता संजानीते). We all place you in front (सर्वे त्वा पुरः कुर्महे), and we will follow you (वयम् अन्वञ्चः स्मसि).”

अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव।

Then Viśvāmitra (अथ विश्वामित्रः), being pleased (प्रतीतः) praised his sons (पुत्रान् तुष्टाव ह) (through the following verses).

ते वै पुत्राः पशुमन्तो वीरवन्तो भविष्यथ । ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त मा॥

O sons (पुत्राः)! Those who (ये) have accepted (अनुगृह्णन्तः) my decision (मे मानम्) and made me equipped with heroes (मा वीरवन्तम् अकर्त) – may you be (ते वै भविष्यथ) (prosperous) with cattle (पशुमन्तः) and brave sons (वीरवन्तः)!

पुर एत्रा वीरवन्तो देवरातेन गाथिनाः । सर्वे राध्याः स्थ पुत्रा एष वः सद्विवाचनम् ॥

O grandsons of Gāthin (गाथिनाः)! Led by Devarāta (पुरः एत्रा देवरातेन), may you all (सर्वे) have brave sons (वीरवन्तः) and become honored (राध्याः स्थ)! O sons (पुत्राः)! This (Devarāta) (एषः) (will impart to you) the right guidance (सद्विवाचनम्)!

Notes

  • Viśvāmitra was the son of Gāthin (गाथिनः विश्वामित्रः)
  • Śunaḥśepa is henceforth referred to only as Devarāta, the name given to him by Viśvāmitra

एष वः कुशिका वीरो देवरातस्तमन्वित। युष्मांश्च दायं म उपेता विद्यां यामु च विद्मसि ॥

O descendants of Kuśika (कुशिकाः)! Here is the valiant Devarāta (एषः वीरः देवरातः) – follow him (वः अन्वित)! You, along with him (युष्मान् च), will obtain my wealth (मे दायं उपेताः) as well as all that we know (उ च याम् विद्याम् विद्मसि).

NoteViśvāmitra was the grandson of Kuśika, therefore also known as कौशिकः

ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः। देवराताय तस्थिरे धृत्यै श्रैष्ठ्याय गाथिनाः ॥

O descendants of Viśvāmitra and Gāthin (वैश्वामित्राः गाथिनाः)! You, being prosperous (सरातयः), and being united (सम्यञ्चः) with (साकम्) (Devarāta), have stood (तस्थिरे) for (i.e. accepted) the exceptional nurturing of Devarāta (देवराताय श्रैष्ठ्याय धृत्यै)!

अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः। जह्नूनांचाधिपत्ये दैवे वेदे च गाथिनाम् ॥

The ṛṣi Devarāta (देवरातः ऋषिः) is fit for (अधीयत) the wealth of both (उभयोः रिक्थयोः) (Viśvāmitra and Ajīgarta), as well as lordship over the descendants of Jahnu (जह्नूनाम् च अधिपत्ये), and the knowledge and rituals of the descendants of Gāthin (वेदे दैव च गाथिनाम्).

Note: Jahnu was an ancestor of Viśvāmitra.

तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानम्।

Thus this story (तत् एतत्) of Śunaḥśepa (शौनःशेपमाख्यानम्) (has been narrated) through more than a hundred ṛks and verses (परः ऋक्शतगाथं).

Notes

  • The number of ṛks in the Ṛgvedasaṃhitā composed by or pertaining to Śunaḥśepa exceeds one hundred
  • गाथा – a śloka used in the Brāhmaṇa is called gāthā
  • परः – more than
  • ऋक्शतगाथं – ऋक्शतं च गाथाश्च (समाहारद्वन्द्वः)

तद्धोता राज्ञेऽभिषिक्तायाऽऽचष्टे।

The Hotṛ (होता) narrates this (story) (तत् आचष्टे) to the anointed King (अभिषिक्ते राज्ञाय) (during the Rājasūya sacrifice).

हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति । यशो वै हिरण्यं । यशसैवैनं तत्समर्धयति।

(The Hotṛ) seated on a golden throne (हिरण्यकशिपौ आसीनः) narrates the story (आचष्टे), and the king, also seated on a golden throne (हिरण्यकशिपौ आसीनः) gives his assent (प्रतिगृणाति). Gold (हिरण्यम्) is indeed (the source of) fame (वै यशः). By fame alone(तत् यशसा एव) does he make (the king) (एनम्) become prosperous (समर्धयति).

Note

  • हिरण्यकशिपुः – कशिपुः आसनम् , हिरण्यस्य कशिपुः हिरण्यकशिपुः ।
  • प्रतिगृणाति – ritual acceptance or acknowledgement

ओमित्यृचः प्रतिगर एवं तथेति गाथायाः । ओमिति वै दैवं तथेति मानुषं । दैवेन चैवैनं तन्मानुषेण च पापादेनसः प्रमुञ्चति।

Om (ओम्) is used (by the Adhvaryu) as an acknowledgement (प्रतिगरः) for each ṛk (ऋचः) (recited by the Hotṛ), and tathā (एवम् तथा इति) for each gāthā (गाथायाः). Om pertains to the gods (ओम् इति वै दैवम्), and tathā to humans (तथा इति मानुषम्). By using the divine as well has human (दैवेन च एव एवम् तत् मानुषेण च) (acknowledgements) he (the Hotṛ) frees (प्रमुञ्चति) (the king) from transgressions committed against humans (पापात्) and the gods (एनसः).

तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानं । न हास्मिन्नल्पं चनैनः परिशिष्यते।

Therefore the king who is victorious (तस्माद् यः राजा विजिती स्यात्), even though may not be the patron (अयजमानः अपि) (of a Rājasūya sacrifice) should have someone narrate to him this story of Śunaḥśepa (एतत् शौनःशेपमाख्यानम् अख्यापयेत एव) . (And if he does so), even a speck of sin (अल्पम् एनः चन) does not remain in him (अस्मिन् न परिशिष्यते ह) .

सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्र एते चैवाऽऽसने श्वेतश्चाश्वतरीरथो होतुः।

(The king) should give (दद्यात्) a thousand (cows) (सहस्रम्) to the narrator (आख्यात्रे) (Hotṛ), and a hundred (शतम्) to the one gives assent (प्रतिगरित्रे) (Adhvaryu), the two (golden) thrones (एते आसने) should also be given to them (च एव) , and for the Hotṛ (होतुः) a white (श्वेतः च) (i.e. adorned with silver) chariot drawn by mules (अश्वतरीरथः)

पुत्रकामा हाप्याख्यापयेरँल्लभन्ते ह पुत्राँल्लभन्ते ह पुत्रान्॥

Those who desire sons (पुत्रकामाः) should also have this story (of Śunaḥśepa) narrated (आख्यापयेरन् ह), and they will obtain sons (पुत्रान् लभन्ते ह).

Note: The repetition of the last phrase signifies the end of this chapter.


AB33.5
Advertisements