Nirukta1.10

नि॒ष्ट्व॒क्त्रास॑श्चि॒दिन्न॒रो भूरि॑तो॒का वृ॒कादि॑व ।
बि॒भ्य॒स्यन्तो व॑वाशिरे॒ शिशि॑रं॒ जीव॑नाय॒ कम् ॥ (untraced quotation)

Some men (नरः चित्) without garments (निष्ट्वक्त्रासः), having many children (भूरितोकाः), afraid of (the snowy winter) as if it was a wolf (वृकात् इव बिभ्यस्यन्तः), long for (ववाशिरे) the śiśira season (शिशिरम्) to live (happily) (जीवनाय कम्) (Here कम् is a meaningless filler).

शिशिरं जीवनाय । शिशिरं शृणातेः शम्नातेर्वा ।

Śiśira (शिशिरम्) for living (happily) (जीवनाय). शिशिरम् is derived from the root शॄ हिंसायाम् (क्र्यादिः) (शृणातेः) (to cut down), or (वा) from शमु हिंसायाम् (क्र्यादिः) (शम्नातेः) (this is the season before spring when trees lose their leaves).

एमे॑नं सृजता सु॒ते (आ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते ।) । (ऋ० १.९.२) । आसृजतैनं सुते ।

(O Adhvaryus) Offer this (आ सृजत) expressed (एनं सुते) (soma to Indra). (Here ईम् is a meaningless filler).

तमिद्वर्ध॑न्तु नो॒ गिरः॑ (तम् । इत् । व॒र्ध॒न्तु॒ । नः॒। गिरः॑ ।) (ऋ० ८.९२.२१; ९.६१.१४) । तं वर्धयन्तु नो गिरः स्तुतयः । गिरो गृणातेः ।

May our praises (नः गिरः स्तुतयः ) make him grow (तं वर्धयन्तु). गिरः is derived from the root गॄ शब्दे (क्र्यादिः) (to speak) (गृणातेः). (Here इत् is a meaningless filler).

अ॒यमु॑ ते॒ सम॑तसि । (ऋ० १.३०.४) । अयं ते समतसि ।

You constantly approach (सम् अतसि) this (soma) prepared for you (अयं ते). (Here उ is a meaningless filler).

इवोऽपि दृश्यते । सु विदुरिव । सु विज्ञायेते इव ।

The use of इव (as a meaningless filler) is also observed (इवः अपि दृश्यते), as in “they all knew it well” (सु विदुः इव) , or “they both understand it well” (सु विज्ञायेते इव). (Here इव is a meaningless filler).

अथापि नेत्येष इदित्येतेन संप्रयुज्यते परिभये ॥ १.१० ॥

Furthermore (अथ अपि) न (न इति एषः) is used with इत् (इत् इति एतेन संप्रयुज्यते) in the sense of apprehension (परिभये).


Nirukta     Nirukta1.9     Nirukta1.11
Advertisements