Nirukta1.13

अथापि य एषां न्यायवान् कार्मनामिकः संस्कारो यथा चापि प्रतीतार्थानि स्युस्तथैनान्याचक्षीरन् । पुरुषं पुरिशय इत्याचक्षीरन् । अष्टेत्यश्वम् । तर्दनमिति तृणम् ।

Furthermore (अथ अपि) (if all substantives are derived from verbs) they should be derived according to proper grammatical rules (यः एषाम् न्यायवान् संस्कारः) applicable to verbs (कार्मनामिकः), so that they may be known by names (तथा एनानि आचक्षीरन्) that reflect the meanings of their constituents (यथा च अपि प्रतीतार्थानि स्युः). The word पुरुषः (पुरुषम्) should have the form पुरिशयः (पुरिशयः इति आचक्षीरन्), अश्वः should have been अष्टा and तृणम् should have been तर्दनम् (see below for derivations).

Notes

  • पुरि शेते इति = पुरि + शी + अण् = पुरि + शे + अ = पुरिशयः (अलुक्समासः)
  • अश्नोति इति = अश् + तृच् = अष् + तृ = अष्टा
  • तृद्यते अनेन इति = तृद् + ल्युट् (अन) = तर्दनम्

अथापि निष्पन्नेऽभिव्याहारेऽभिविचारयन्ति । प्रथनात्पृथिवीत्याहुः । क एनामप्रथयिष्यत् । किमाधारश्चेति ।

Furthermore (अथ अपि), some try to artificially make derivations (अभिविचारयन्ति) of words whose use is already established by convention (अभिव्याहारे निष्पन्ने) . For example, they say (इति आहुः) that the word पृथिवी comes from the root meaning “to spread” (प्रथनात्) (i.e. from the root प्रथ विस्तारे). But who spread it (कः एनाम् अप्रथिष्यत्) and what was its base (किम् आधारः च)?

अथानन्वितेऽर्थे अप्रादेशिके विकारे पदेभ्यः पदेतरार्धान्त्सञ्चस्कार शाकटायनः । एतेः कारितं च यकारादिं चान्तकरणमस्तेः शुद्धं च सकारादिं च ।

And Śākaṭāyana (अथ शाकटायनः) derived words (सञ्चस्कार) by taking parts from words (पदेभ्यः पदेतरार्धान्) and deriving them (from verbs) even when the meanings are irrelevant (अनन्विते अर्थे) and the modifications are not according to rules (अप्रादेशिके विकारे). (For example, to derive the word सत्य) making the य (यकारादिम्) , obtained from the causal form of the root इ (एतेः कारितम्) the last part (च अन्तकरणम्) and using the स (सकाराकिम् च) of the regular form of the root अस् (अस्तेः शुद्धम्) (see below)

Note: This contorted derivation is as follows: सत्य is derived as सन्तम् अर्थम् आययति इति सत्यम् (that which takes you to an existing objective). The first part सत् comes from the root अस् (to be) and the second part य comes from the causal form (आययति) of the root इण् गतौ (to go).

अथापि सत्त्वपूर्वो भाव इत्याहुः । अपरस्माद्भावात् पूर्वस्य प्रदेशो नोपपद्यत इति । तदेतन्नोपपद्यते ॥ १.१३ ॥

Furthermore they say (अथ अपि आहुः) that the existence of an object must precede any action (सत्त्वपूर्वः भावः). Therefore it is not correct (न उपपद्यते) to derive something which came earlier (पूर्वस्य प्रदेशः) (i.e. the name of the object) based on something which comes later (अपरस्मात् भावात्) (i.e. the activity it undertakes). Therefore this theory (तत् एतत्) (that all substantives are derived from verbs) is untenable (न उपपद्यते).


Nirukta     Nirukta1.12     Nirukta1.14
Advertisements