Nirukta1.20

उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु ।
अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शूश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पाम् ॥ ऋ० १०.७१.५ ॥

This has been translated here.

अप्येकं वाक्सख्ये स्थिरपीतमाहुः । रममाणं विपीतार्थम् । देवसख्ये रमणीये स्थान इति वा । विज्ञातार्थम् यं नाप्नुवन्ति वाग्ज्ञेयेषु बलवत्स्वपि ।

They say (आहुः) that one (अपि एकम्) is steadfast (स्थिरपीतम्) in the company of speech (वाक्सख्ये) (i.e. wise people). One who revels (रममाणम्) in the thoroughly understood meaning (विपीतार्थम्). Or (इति वा) in the company of gods (देवसखे) in a delightful place (रमणीये स्थाने). Whom (यम्), the knowing one (विज्ञातार्थम्), they cannot defeat (न अप्नुवन्ति) even in the most acerbic debates (बलवत्सु वाग्ज्ञेयेषु अपि).

अधेन्वा ह्येष चरति मायया वाक्प्रतिरूपया । न अस्मै कामान् दुग्धे वाग्दोह्यान् देवमनुष्यस्थानेषु । यो वाचं श्रुतवान् भवत्यफलामपुष्पामिति । अफलाऽस्मा अपुष्पा वाग् भवतीति वा । किंचित् पुष्पफलेति वा । अर्थम् वाचः पुष्पफलमाह । याज्ञदैवते पुष्पफले । देवताध्यात्मे वा ।

But the one (एषः) (who does not understand the Veda) wanders in delusion (मायया चरति हि) with only the semblance of speech (वाक्प्रतिरूपया) which is like a barren cow (अधेन्वा) (i.e. does not provide nourishing milk). (Speech) does not grant him desires (न अस्मै कामान् दुग्धे) obtained through (the mastery of) speech (वाग्दोह्यान्) either in the company of gods or men (देवमनुष्यस्थानेषु). Who merely listens to the speech (यः वाचं श्रुतवान्) devoid of fruit or flower (अफलाम् अपुष्पाम्), speech becomes (वाक् भवति) devoid of fruit (अफला) and fruit (अपुष्पा) for him (अस्मै), or (वा) with little fruit and flower (किंचित् पुष्पफला). The meaning of speech (Veda) (वाचः अर्थम्) is called its fruit and flower (पुष्पफलम् आह). Or the knowledge pertaining to the sacrifice and deities (याज्ञदैवते) are the fruit and flower (पुष्पफले). Or the knowledge of the deities and inner self (देवताध्यात्मे वा).

साक्षात्कृतधर्माण ऋषयो बभूवुः । ते अवरेभ्यो असाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान् सम्प्रादुः । उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहनाय इमं ग्रन्थं समाम्नासिषुर्वेदंश्च वेदाङ्गानि च । बिल्मं भिल्मं भासनमिति वा ।

The ṛṣis (ऋषयः) had a direct perception of the nature of reality (साक्षात्कृतधर्माणः बभूवुः). They, through instruction (ते उपदेशेन) transmitted the mantras (मन्त्रान् सम्प्रादुः) to later generations (अवरेभ्यः) who did not have this direct perception (असाक्षात्कृतधर्मभ्यः). When the later generations (अवरे) found the teachings difficult to understand (उपदेशाय ग्लायन्तः), they, for the sake of easy comprehension (बिल्मग्रहनाय), compiled (समाम्नासिषुः) this work (इमं ग्रन्थं) (i.e the Nighaṇṭu) as well as the Vedas and Vedāṅgas (वेदं च वेदाङ्गानि च). बिल्मम् means division (भिल्मम्) or elaboration (भासनम् इति वा).

एतावन्तः समानकर्माणो धातवः । धातुर्दधातेः । एतावन्त्यस्य सत्त्वस्य नामधेयानि । एतावतामर्थानामिदमभिधानम् । नैघण्टुकमिदं देवतानाम प्राधान्येनेदमिति । तद्यदन्यदैवते मन्त्रे निपतति नैघण्टुकं तत् ।

This many verbal roots (एतावन्तः धातवः) have the same meaning (समानकर्माणः). धातुः is derived from the root धा (दधातेः). Also a thing has this many names (एतावन्ति अस्य सत्त्वस्य नामधेयानि). And a name (इदम् अभिधानम्) applies to many things (एतावताम् अर्थानाम्). The name of a deity (देवतानाम) is either primary (प्राधान्येन इदम्) or secondary (नैघण्टुकम् इदम्). When the name of a devatā (तद् यद्) comes (निपतति) in a mantra addressed to another devatā (अन्यदैवते मन्त्रे) , it is called Naighaṇṭuka (नैघण्टुकं तत्).

Note: This is a reference to the divisions of the Nighaṇṭu, which has three kāṇḍas – the Naighaṇṭuka (containing collections of synonyms), the Naigama (consisting of words with multiple meanings), and the Daivata (consisting of names of devatās).

The following examples illustrate the the occurences of primary and secondary devatās in various mantras.

अश्वम् न त्वा वारवन्तम् । (ऋ० १.२७.१) । अश्वमिव त्वा वालवन्तम् । वाला दंशवारणार्था भवन्ति । दंशो दशतेः ।

(We worship) you (त्वा) (resplendent in all sacrifices) like a horse with a bushy tail (वारवन्तं अश्वं न). (We worship) you (त्वा) having hair (वालवन्तम्) like that of a horse (अश्वम् इव). Hair (वालाः) (on the tail) is for warding off gadflies (दंशवारणार्थाः भवन्ति) (biting insects). दशः (gadfly) is derived from the root दशि दंशने (चुरादिः) (दशतेः) (to bite).

मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । (ऋ० १.१५४.२; १०.१८०.२)

Fierce like a wild animal (मृगः न भीमः), roaming in uninhabitable places (कुचरः), dwelling in mountains (गिरिष्ठाः)

मृग इव भीमः कुचरो गिरिष्ठाः । मृगो मार्ष्टेर्गतिकर्मणः । भीमो बिभ्यत्यस्मात् । भीष्मोऽप्येतस्मादेव । कुचर इति चरतिकर्म कुत्सितम् । अथ चेद्देवताभिधानम् क्वायं न चरतीति । गिरिष्ठा गिरिस्थायी । गिरिः पर्वतः । समुद्गीर्णो भवति । पर्ववान् पर्वतः । पर्व पुनः पृणातेः प्रीणातेर्वा । अर्धमास पर्व देवानस्मिन्प्रीणन्तीति । तत् प्रकृतीतरत्सन्धिसामान्यात् । मेघस्थायी । मेघोऽपि गिरिरेतस्मादेव ।

Fierce like a wild animal (मृगः इव भीमः), roaming in uninhabitable places (कुचरः), dwelling in mountains (गिरिष्ठाः). मृगः is derived from the root मृज् (मार्ष्टेः) meaning “to go” (गतिकर्मणः). Fierce (भीमः) because “they are afraid of him” (बिभ्यति अस्मात्). The word भीष्मः is also derived from the same root (अपि एतस्मात् एव). कुचरः is so called because it is a disgraceful action (चरतिकर्म कुत्सितम्). If (कुचरः) is the name of a devatā (अथ चेत् देवताभिधानम्) then it means “where does he not go?” (क्व अयम् चरति). गिरिष्ठाः means “one who dwells on mountains” (गिरिस्थायी). गिरिः means “mountain” (पर्वतः), because it is raised up (समुद्गीर्णः भवति). पर्वतः is so called because it has joints (of rocks) (पर्ववान्). पर्व again (पुनः) is derived from the root पॄ पालनपूरणयोः (क्र्यादिः) (पृणातेः) of from प्रीञ् तर्पणे कान्तौ च (क्र्यादिः) (प्रीणातेः वा). A fortnight (अर्धमासः) is called पर्व because they propitiate the gods (देवान् प्रीणन्ति) in it (अस्मिन्). The other (इतरत्) (पर्व meaning “mountain”) has the same characteristic (तत्प्रकृति) because of having joints (सन्धिसामान्यात्) (i.e. the joints between rocks are similar to joints between time periods). (The word गिरिष्ठाः) can also mean “dwelling in a cloud” (मेघस्थायी). A cloud (मेघः) is also called गिरिः for the same reason (एतस्मात् एव) (that it is raised).

Notes

  • कुचरः can mean “one who roams in uninhabitable places” or “one who performs disgraceful actions”
  • The root मृजू शुद्धौ (अदादिः) means “to clean, purity”, but also can have the meaning of “to go” according to Yāska
  • भीमः and भीष्मः are derived as ञिभी भये (अदादिः) + (ष्) + मक् [by भियः षुग्वा (उ० १४७)] = भीमः, भीष्मः ।

तद्यानि नामानि प्राधान्यस्तुतीनां देवतानां तद्दैवतमित्याचक्षते । तदुपरिष्टाद् व्याख्यास्यामः । नैघण्टुकानि नैगमानीहेह ॥ १.२० ॥

Those names which (तत् यानि नामानि) are of the gods addressed by primary praises (प्राधान्यस्तुतीनां देवतानाम्) are called the daivata (तत् दैवतम् इति आचक्षते) (i.e. are collected in the Daivata kāṇḍa). We will explain them (तत् व्याख्यास्यामः) later (उपरिष्टात्). (The words in the) Naighaṇṭuka (नैघण्टुकानि) and the Naigama kāṇḍas (नैगमानि) will be explained now (इह).

Note: The repetition of इह signifies the end of the first chapter.


Nirukta     Nirukta1.19     Nirukta2.1
Advertisements