Nirukta1.4

अथ निपाताः । उच्चावचेष्वर्थेषु निपतन्ति । अप्युपमार्थे । अपि कर्मोपसंग्रहार्थे । अपि पदपूरणाः ।

Now the (अथ) Nipātas (निपाताः) (will be explained). (They are so called) because they “fall into” (i.e. express) (निपतन्ति) various meanings (उच्चावचेषु अर्थेषु). They are used in the sense of comparison (उपमार्थे अपि), conjunction (कर्मोपसंग्रहार्थे अपि), and as fillers (पदपूरणाः).

Notes

  • The word कर्म is used in the sense of अर्थः – कर्मशब्दो हि प्रायेणार्थपर्यायवचन एतस्मिञ्शास्त्रे (दुर्गाचार्यः)
  • In Pāṇini‘s grammar, the following terminology should be noted
    • Nipātas are considered to be indeclinables [by स्वरादिनिपातमव्ययम् (१।१।३७)]
    • Nipātas are listed out in the scope of प्राग्रीश्वरान्निपाताः (१।४।५६), which goes up to अधिरीश्वरे (१।४।९७)
    • Two major groups in Nipātas are: च etc. by चादयोऽसत्त्वे (१।४।५७) (consisting of 207 words), and प्र etc. by प्रादयः (१।४।५८) (consisting of 22 words)
    • The group प्र etc. when used with a verb, are also called upasarga and gati
    • A subset of them are also used as karmapravacanīya (कर्मप्रवचनीयाः)

Yāska will now explain the usage of some Nipātas, using quotations from mainly the Ṛgveda.

तेषामेते चत्वार उपमार्थे भवन्ति । इवेति भाषायां च । अन्वध्यायं च ।

Of them (तेषाम्) these four (एते चत्वारः) are used for comparison (उपमार्थे भवन्ति). इव (is used for comparison) in common parlance (भाषायां च) and also in the Veda (अन्वध्यायं च)

अ॒ग्निररि॑व (ऋ० १०.८४.२; १०.१०६,३) । इन्द्र॑ इव (ऋ० १०.८४.५ ; १०.१६६,२; १०.१७३,२) । इति । – like Agni (अग्निः इव), like Indra (इन्द्रः इव)

नेति प्रतिषेधार्थीयो भाषायाम् । उभयमन्वध्यायम् ।

न is used for negation (प्रतिषेधार्थीयः) in common parlance (भाषायाम्), and in both senses (उभयम्) (i.e. comparison and negation) in the Veda (अन्वध्यायम्) .

नेन्द्रं॑ दे॒वम॑मंसत (ऋ० १०.८६.१) । इति प्रतिषेधार्थीयः । पुरस्तादुपाचारस्तस्य यत्प्रतिषेधति ।

They did not consider (न अमंसत) Indra (इन्द्रम्) to be a god (देवम्) – this is in the sense of negation (इति प्रतिषेधार्थीयः). The normal usage (तस्य उपचारः) of that which negates (यत् प्रतिषेधति) is to place it before (पुरस्तात्) (what is negated).

दु॒र्मदा॑सो॒ न सुरा॑याम् (ऋ० ८.२.१२) । इत्युपमार्थीय: । उपरिष्टादुपाचारस्तस्य येनोपमिमीते ।

(They fight) like people inebriated (दुर्मदासः) by drinking wine (सुरायाम्) – this is in the sense of comparison (इति उपमार्थीयः). The normal usage (तस्य उपचारः) is to place it after (उपरिष्टात्) that which it is compared to (येन उपमिमीते).

चिदित्येषोऽनेककर्मा । आचार्यश्चिदिदं ब्रूयात् । इति पूजायाम् । आचार्यः कस्माद् । आचार्य आचारं ग्राहयति । आचिनोत्यर्थान् । आचिनोति बुद्धिमिति वा ।

चित् has many meanings (इति एषः अनेककर्मा). The teacher alone (आचार्यः चित्) can explain this (इदं ब्रूयात्) – this is in the sense of respect (इति पूजायाम्). How is the word ācārya derived (आचार्यः कस्माद् )? He imparts good conduct (आचारं ग्राहयति). Or he organizes topics (आचिनोति अर्थान्) (for instruction). Or he develops the intellectual faculty (आचिनोति बुद्धिम् इति वा).

Note: Yāska often explain other words that appear in the example that he uses to illustrate a particular word

दधिचित् । इित्युपमार्थे । कुल्माषांश्चिदाहर । इत्यवकुत्सिते । कुल्माषाः कुलेषु सीदन्ति ।

(White) like curds (दधि चित्) – in the sense of comparison (इति उपमार्थे). Bring (आहर) the half-cooked grain (कुल्माषान् चित्). कुल्माषाः are so called because they dwell in homes (कुलेषु सीदन्ति).

Note: The meaning of कुल्माषाः is explained by the following verse: अर्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः । कुल्माषा इति ख्यायन्ते शब्दशास्त्रेषु पण्डितैः ॥

नु इत्येषोऽनेककर्मा । इदं नु करिष्यति । इति हेत्वोपदेशे । कथं नु करिष्यति । इत्यनुपृष्टे । नन्वेतदकार्षीत् । इति च ।

नु has many meanings (इति एषः अनेककर्मा). Examples are:

  • इदं नु करिष्यति – Therefore, he will do it – in the sense of reason (इति हेत्वोपदेशे)
  • कथं नु करिष्यति – How will he do it? – in the sense of asking a question (इति अनुपृष्टे)
  • न नु एतदकार्षीत् – Has he not done it? – in this sense also

अथाप्युपमार्थे भवति । It is also (अथ अपि) used in the sense of comparison (उपमार्थे भवति)

वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒याः (ऋ० ६.२४.३) – O one invoked by many (पुरुहूत)! (Indra) Your (ते) (protective powers grow) like branches (वयाः नु) of a tree (वृक्षस्य)

वृक्षस्येव ते पुरुहूत शाखा: । वयाः शाखा वेतेः । वातायना भवन्ति । शाखाः खशयाः । शक्नोतेर्वा ।

(Note that नु here means इव). वयाः (meaning शाखाः – branches) is derived from the root वी (वेतेः). They move in the wind (वातायनाः भवन्ति). Branches (शाखाः) are so called because they rest in the sky (खशयाः). Or (वा) they may be derived from the root शक् (शक्नोतेः – to be able)

Notes

  • वातायनाः from वातः (wind) and अयनम् (movement)
  • खम् आकाशम् , तस्मिन् खे शेते इति खशयः
  • शक्नोतेः – because the trees are able to derive nourishment (from the roots etc.)

अथ यस्य आगमादर्थपृथक्त्वमह विज्ञायते न त्वौद्देशिकमिव विग्रहेण पृथक्त्वात् स कर्मोपसंग्रहः ।

A word expressing conjunction (कर्मोपसंग्रहः) is one (सः), by whose presence (यस्य आगमत्) the presence of separate objects is known (अर्थपृथक्त्वम् अह विज्ञायते), though not explicitly indicated in a compound (न तु औद्देशिकम् इव), but indicated by the resolution of the compound (विग्रहेण पृथक्त्वात्).

Example: The compound देवदत्तयज्ञदत्तौ indicates a conjunction between देवदत्तः and यज्ञदत्तः although the conjunctive term is not visible. When resolved it becomes देवदत्तश्च यज्ञदत्तश्च ।

चेति समुच्चयार्थ उभाभ्यां सम्प्रयुज्यते ।

The word च (च इति) , when indicating conjunction (समुच्चयार्थे) is used with (सम्प्रयुज्यते) both terms of the compound (उभाभ्याम्):

अ॒हं च॒ त्वं च॑ वृत्रहन् (ऋ० ८.६२.११) । इति । – “O slayer of Vṛtra (वृत्रहन्) (Indra)! You (त्वं च) and I (अहं च)”

एतस्मिन्नेवार्थे । दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ (ऋ० १०.१६.११) । इत्याकारः ।

In the same sense (एतस्मिन् एव अर्थे) (i.e. conjunction), as in “For gods (देवेभ्यः) and (च) ancestors (पितृभ्यः आ)”, the term आ is used (इति आकारः). [i.e. आ is used in the same sense as च].

वेति विचारणार्थे । – वा (वा इति) is used in the sens of deliberation (इति विचारणार्थे)

हन्ता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा॑ (ऋ० १०.११९.९) । इति ।

Tell me (हन्त)! Should I place (अहं नि दधानि) this earth (इमां पृथिवीं) here (इह वा) or there (इह वा)?

अथापि समुच्चयार्थे भवति ॥ १.४ ॥

Furthermore (अथ) (the particle वा) is also used to express aggregation (समुच्चयार्थे अपि भवति).


Nirukta     Nirukta1.3     Nirukta1.5
Advertisements