Nirukta1.5

वायुर्वा त्वा मनुर्वा त्वा (तै० सं० १.७.७.२; का० सं० १३.१४) । इति ।

(O horse!) Vāyu (वायुः) and Manu (मनुः वा) (yoke)you (त्वा) (to the chariot) [Here वा is used as a conjunction].

अह इति च ह इति च विनिग्रहार्थीयौ । पूर्वेण सम्प्रयुज्येते । अयमहेदं करोत्वयमिदम् । इदं ह करिष्यतीदं न करिष्यतीति ।

अह and ह (अह इति च ह इति च ) are used to indicate distinctiveness (विनिग्रहार्थीयौ) (i.e. mutual opposition) and are used with the former (पूर्वेण सम्प्रयुज्येते). Let this person (अयम् अह) do this (इदं करोतु) and let this (other) person (अयम्) do this (other) thing (इदम्). He will do (करिष्यति) this (alone) (इदं ह) and not that (इदं न करिष्यति).

Note: In these cases, अह and ह are used to separate out (or emphasize) one thing out of two

अथाप्युकार एतस्मिन्नेवार्थ उत्तरेण । मृषेमे वदन्ति सत्यमु ते वदन्तीति ।

उ (उकारः) is also used (अपि) in the same sense (एतस्मिन् एव अर्थे) but with the latter (उत्तरेण). These people tell lies (इमे मृषा वदन्ति) but those people tell the truth (सत्यम् उ ते वदन्ति).

अथापि पदपूरणः । इदमु (ऋ० ४.५१.१) । तदु (ऋ० १.६२.६) ।

It (i.e. उ) is also used (अथ अपि) as a filler (पदपूरणः) (for metrical purposes), as in इदम् उ, तद् उ । [In this case it has no meaning].

हीत्यषोऽनेककर्मा । इदं हि करिष्यति । इति हेत्वपदेशे । कथं हि करिष्यति । इत्यनुपृष्टे । कथं हि व्याकरिष्यति । इत्यसूयायाम् ।

हि has many meanings (इति एषः अनेककर्मा). Examples:

  • इदं हि करिष्यति – Therefore, he will do it – in the sense of reason (इति हेत्वोपदेशे)
  • कथं हि करिष्यति – How will he do it? – in the sense of asking a question (इति अनुपृष्टे)
  • कथं हि व्याकरिष्यति – How will he explain it? – to indicate jealousy (इति असूयायाम्) . [The definition of असूया is: गुणेषु दोषाविष्करणम् – seeing faults in good qualities].

किलेति विद्याप्रकर्षे । एवं किलेति । अथापि न ननु इत्येताभ्यां सम्प्रयुज्यतेऽनुपृष्टे । न किलैवम् । ननु किलैवम् ।

किल is used in the sense of certainty (इति विद्याप्रकर्षे), as in “This truly happened (एवं किल)”. Furthermore (अथ अपि) it is used with नु and ननु (एताभ्याम्) while asking a follow-up question (अनुपृष्टे), as in “Was it not so (न किल एवम्)?”, “Was it indeed so (ननु किल एवम्)?”

मेति प्रतिषेधे । मा कार्षीः । मा हार्षीरिति च ।

मा is used in the sense of prohibition (इति प्रतिषेधे). “Don’t do it (मा कार्षीः )”, or “Don’t take it (मा हार्षीः).”

खल्विति च । खलु कृत्वा । खलु कृतम् । अथापि पदपूरणः । एवं खलु तद् बभूवेति ।

खलु is also used for prohibition (खलु इति च). “Not having done (खलु कृत्वा). Not done (खलु कृतम्). ” It is also used (अथ अपि) as a filler (पदपूरणः), as in “This is how (एवम् खलु) that happened (तद् बभूव)”.

शश्वदिति विचिकित्सार्थीयो भाषायाम् । शश्वदेवम् । इत्यनुपृष्टे । एवं शश्वत् । इत्यस्वयं पृष्टे ।

शश्वत् is used in common parlance (भाषायाम्) to express doubt (विचिकित्सार्थीयः). “Was it so (शश्वत् एवम्)?”, in a follow-up question (इति अनुपृष्टे).” And if asked by another (अस्वयं पृष्टे), “Yes it was so (एवं शश्वत्).”

नूनमिति विचिकित्सार्थीयो भाषायाम् । उभयमन्वध्यायं विचिकित्सार्थीयश्च पदपूरणश्च ।

नूनम् is used in common parlance (भाषायाम्) to express doubt (विचिकित्सार्थीयः). In the Veda (अन्वध्यायं) it is used both (उभयम्) to express doubt and as a filler (विचिकित्सार्थीयः च पदपूरणः च).

अगस्त्य इन्द्राय हविर्निरूप्य मरुद्भ्यः सम्प्रदित्सांचकार । स इन्द्र एत्य परिदेवयांचक्रे ॥ १.५ ॥

Agastya (अगस्त्यः), having prepared (निरूप्य) an offering (हविः) for Indra (इन्द्राय), desired to give it (सम्प्रदित्सांचकार) to the Maruts (मरुद्भ्यः). Indra (सः इन्द्रः) having approached him (एत्य) lamented (परिदेवयांचक्रे).

Note: सम्प्रदित्सांचकार = सम् + प्र + दा + सन् + आम् + कृ + लिट् ।


Nirukta     Nirukta1.4     Nirukta1.6
Advertisements