Nirukta1.8

ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु ।
ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥ (ऋ० १०.७१.११)

One (Hotṛ) (त्वः), well versed in the praise (पुपुष्वान्), recites the ṛks (ऋचाम् पोषम् आस्ते), another (Udgātṛ) (त्वः), sings (गायति) the sāman (गायत्रम्) in the śakvarī metres (शक्वरीषु), yet another (त्वः), the Brahmā (ब्रह्मा), directs the activities (जातविद्यां वदति) (of the sacrifice), while another (त्वः) (Adhvaryu) measures out (वि मिमीते) the activities (मात्राम्) (i.e. performs them in the correct order) of the sacrifice (यज्ञस्य).

इत्यृत्विक्कर्मणां विनियोगमाचष्टे । ऋचामेकः पोषमास्ते पुपुष्वान् होता । ऋगर्चनी । गायत्रमेको गायति शक्वरीषु । उद्गाता । गायत्रं गायतेः स्तुतिकर्मणः । शक्वर्य ऋचः । शक्नोतेः । तद्यदाभिर्वृत्रमशकद्धन्तुं तच्छक्वरीणां शक्वरीत्वम् (कौ० ब्रा० २३.२; आ० ब्रा० ५.७.३) । इति विज्ञायते ।

By this verse is explained (आचष्टे) the different duties of the ṛtviks (ऋत्विक्कर्माणां विनियोगम्). One (एकः), the well versed in the praise (पुपुष्वान्), sits (आस्ते), reciting the ṛks (ऋचाम् पोषम्) – the Hotṛ (होता) . A ṛk (ऋक्) is one used for praise (अर्चनी). One (एकः) sings the Gāyatra (गायत्रम्) in the śakvarī metres (शक्वरीषु) – the Udgātṛ (उद्गाता). गायत्रं is derived from the root गै (गायतेः) meaning “to praise” (स्तुतिकर्मणः). Śakvarīs are ṛks (शक्वर्यः ऋचः), derived from the root शक् (शक्नोतेः) (to be able). By which (तद् याभिः) he (Indra) was able (अशकत्) to slay Vṛtra (वृत्रं हन्तुम्) – hence they are called शक्वरी – thus it is known (इति विज्ञायते).

ब्रह्मैको जाते जाते विद्यां वदति । ब्रह्मा सर्वविद्यः सर्वं वेदितुमर्हति । ब्रह्मा परिवृळ्हः श्रुततः । ब्रह्मा परिवृळ्हं सर्वतः । यज्ञस्य मात्रां विमिमीत एकः अध्वर्युः । अध्वर्युरध्वरयुः । अध्वरं युनक्ति ।अध्वरस्य नेता ।अध्वरं कामयत इति वा । अपि वाधीयाने युरुपबन्धः । अध्वर इति यज्ञनाम । ध्वरतिर्हिंसाकर्मा । तत्प्रतिषेधः ।

One, the Brahmā (एकः ब्रह्मा) gives instructions (विद्यां वदति) at each step (जाते जाते). The Brahmā is omniscient (सर्वविद्यः), i.e. he knows everything (सर्वं वेदितुं अर्हति) (pertaining to the performance of the yajña). Brahmā is fully grown (परिवृळ्हः) (in understanding) by the knowledge (श्रुततः) or all around (सर्वतः). One (एकः) measures out (वि मिमीते) the activities (मात्राम्) of the sacrifice (यज्ञस्य) – the Adhvaryu (अध्वर्युः). अध्वर्युः is a variation of अध्वरयुः meaning “one who engages in the sacrifice” (अध्वरं युनक्ति), or “the leader of the sacrifice” (अध्वरस्य नेता), or “one who desires the sacrifice” (अध्वरं कामयते). Or (अपि वा) it can be derived by adding यु (युः उपबन्धः) to अधीयान (the one who studies). Adhvara is a synonym for yajña (अध्वरः इति यज्ञनाम). The root ध्वृ (ध्वरतिः) means “to kill” (हिंसाकर्मा), and it negates that (तत्प्रतिषेधः). (i.e. where there is no violence).

निपात इत्येके । तत्कथमनुदात्तप्रकृति नाम स्यात् । दृष्टव्ययं तु भवति ।

According to some (इति एके), (त्व is a) Nipāta. (According to them) how can something that is anudātta (अनुदात्तप्रकृति) be a substantive (कथं नाम् स्यात्)? (The reason being that if it is a substantive then it will be antodātta by फिषोऽन्त उदात्तः). (The reply is that) it is seen in inflected forms (दृष्टव्ययं तु भवति) [i.e. modified forms (व्यय) are observed (दृष्ट) which means that it is inflected, therefore it cannot be a Nipāta which is indeclinable]. For example:

उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहुः (ऋ० १०.७१.५) । इति द्वितीयायाम् ।

In a gathering of learned people (सख्ये), they consider (आहुः) one (उत त्वं) to be firm in understanding (स्थिरपीतम्) – here त्व is used in the accusative (द्वितीयायाम्) (having the form त्वम्).

उ॒तो त्व॑स्मै त॒न्वं १ वि स॑स्रे (ऋ० १०.७१.४) । इति चतुर्थ्याम् ।

And (she) reveals her form (तन्वं वि सस्रे) to (a rare) one (उतो त्वस्मै) – here त्व is used in the dative (चतुर्थ्याम्) (having the form त्वस्मै).

अथापि प्रथमाबहुवचने ॥ १.८ ॥

Furthermore (अथ अपि) it is used in the nominative plural (प्रथमाबहुवचने).


Nirukta     Nirukta1.7     Nirukta1.9
Advertisements