Nirukta1.9

अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यो मनोज॒वेष्वस॑मा बभूवुः ।
आ॒द॑घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ॥(ऋ० १०.७१.७)

Friends (सखायः), equal in sight (अक्षण्वन्तः) and hearing (कर्णवन्तः), are unequal (असमाः बभूवुः) in quickness of mind (मनोजवेषु). Some indeed (उ त्वे) are like (shallow) ponds with water coming up to the mouth (आदघ्नासः) or armpits (उपकक्षासः), whereas others (उ त्वे) appear (ददृश्रे) like lakes (ह्रदाइव), deep and fit for bathing (स्नात्वा).

अक्षिमन्तः कर्णवन्तः सखायः । अक्षि चष्टेः । अनक्तेरित्याग्रायणः । तस्मादेते व्यक्ततरे इव भवतः । इति ह विज्ञायते ।

Friends (सखायः), equal in sight (अक्षिमन्तः) and hearing (कर्णवन्तः). अक्षि is derived from the root चक्षिङ् व्याक्तायां वाचि (to speak articulately) (अदादिः) (चष्टेः). According to Āgrāyaṇa (इति आग्रायणः), from the root अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु (रुधादिः) (to express, manifest, shine, etc.). Therefore (तस्मात्), they (एते) are as if more expressive (व्यक्ततरे इव भवतः) (than the other organs), thus it has been said (इति ह विज्ञायते).

कर्णः कृण्ततेः । निकृत्तद्वारो भवति । ऋच्छतेरित्याग्रायणः । ऋच्छन्तीव खे उदगन्ताम् । इति ह विज्ञायते ।

कर्णः is derived from the root कृती छेदने (रुधादिः) (to cut), because the opening is cut open (निकृत्तद्वारः भवति). According to Āgrāyaṇa (इति आग्रायणः), from the root ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु (तुदादिः) (ऋच्छतेः). They grow upwards (ऋच्छन्ति इव उदगन्तम्) (i.e. protrude) into space (खे), thus it has been said (इति ह विज्ञायते).

मनसां प्रजवेष्वसमा बभूवुः । आस्यदघ्ना अपरे । उपकक्षदघ्ना अपरे । आस्यमस्यतेः । आस्यन्दत एनदन्नमिति वा । दघ्नं दघ्यतेः स्रवतिकर्मणः । दस्यतेर्वा स्यात् । विदस्ततरं भवति । प्रस्नेया ह्रदा इव एके ददृशिरे । प्रस्नेया स्नानार्हाः । ह्रदो ह्रादतेः शब्दकर्मणः । ह्लादतेर्वा स्याच्छीतीभावकर्मणः ।

They are unequal (असमा बभुवुः) in swiftness of mind (मनसा प्रजवेषु). Some (अपरे) (ponds) reach up to the mouth (आस्यदघ्नाः), others (अपरे) to the armpits (उपकक्षदघ्नाः). आस्यम् comes from the root असु क्षेपणे (दिवादिः) (to throw) (अस्यतेः) (because food is thrown into it), or (इति वा) because food (अन्नम्) flows towards it (एनम् आस्यदन्ते). दघ्नं is derived from the root दघ् (दघ्यतेः) meaning “to flow” (स्रवतिकर्मणः) or (वा स्यात्) दसु उपक्षये (दिवादिः) -(to be wasted). It becomes rapidly depleted (विदस्ततरं भवति). Some appear (एके ददृशिरे) like lakes suitable for bathing (प्रस्नेयाः ह्रदाः इव). प्रस्नेया means “suitable for bathing” (स्नानार्हाः). ह्रदः (lake, tank) is derived from the root ह्राद् (ह्रादतेः) meaning “to make a sound” (शब्दकर्मणः) or (वा स्यात्) from ह्लाद् (ह्लादतेः) – “to make cool” (शीतीभावकर्मणः).

Note: आस्यदन्ते – from स्यन्दू प्रस्रवणे (भ्वादिः) – to flow

अथापि समुच्चयार्थे भवति । पर्याया इव त्वदाश्विनम् (कौषीतकीब्राह्मणम् १७.४) । आश्विनं च पर्यायाश्चेति ।

Furthermore (अथा अपि) (the nipāta त्वत्) is used for aggregation (समुच्चयार्थे भवति). पर्याया इव त्वदाश्विनम् means ” āśvina and paryāya” (आश्विनं च पर्यायाः च) – these are names for vessels used in the yajñā.

अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पद पूरणास्ते मिताक्षरेष्वनर्थकाः । कमीमिद्विति ॥ १.९ ॥

Now those words (अथ ये) that are used to fill the sentence (वाक्यपूरणाः आगच्छन्ति) in prose (अमिताक्षरेषु ग्रन्थेषु) when it is complete (प्रवृत्ते अर्थे), they (ते) are meaningless (अनर्थकाः) when used as fillers (पदपूरणाः) in verse (मिताक्षरेषु), such as कम्, ईम्, इत्, and उ ।

Note: अमिताक्षरः – that which is not limited by number of syllables (i.e. prose), मिताक्षरः – that which is regulated by number of syllables (i.e. verse). In prose they are used only for embellishment.


Nirukta     Nirukta1.8     Nirukta1.10
Advertisements