Nirukta2.5

अथातोऽनुक्रमिष्यामः ।

We will now (अथ अतः) explain (the words of the Nighaṇṭu) in order (अनुक्रमिष्यामः).

गौरिति पृथिव्या नामधेयम् । यद्दूरम् गता भवति । यच्चास्यां भूतानि गच्छन्ति । गातेर्वौकारो नामकरणः ।

गौः is a name for “earth” (इति पृथिव्याः नामधेयम्). Because it is spread far (यत् दूरं गता भवति). Or because living beings walk on it (यत् च अस्यां भूतानि गच्छन्ति). Or it may be derived by modifying the root गाङ् गतौ (to go) (गातेः नामकरणः) (substituting आ with) औ (औकारः).

अथापि पशुनामेह भवत्येएतस्मादेव । अथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति ।

Furthermore (अथ अपि) the name of the animal (पशुनाम इह) is derived from the same root (एतस्मात् एव भवति). Furthermore (अथ अपि) there are Vedic passages (निगमाः भवन्ति) in which the entire word used as if it is a taddhita derivative (अस्यां ताद्धितेन कृत्स्नवत्). (For example),

गोभिः॑ श्रीणीत मत्स॒रम् (ऋ० ९.४६.४) – Blend (श्रीणीत) the soma (मत्सरम्) with milk (गोभिः)

इति पयसः । मत्सरः सोमः । मन्दतेस्तृप्तिकर्मणः । मत्सर इति लोभनाम । अभिमत्त एनेन धनं भवति । पयः पिबतेर्वा प्यायतेर्वा । क्षीरं क्षरतेः । घसेर्वेरो नामकरणः । उशीरमिति यथा ।

Here the substantive गो is used as a name for a derivative of the cow (i.e milk) (इति पयसः). मत्सरः means soma (सोमः). मत्सरः means soma (सोमः), and comes from the root मदि meaning “to delight” (मन्दतेः तृप्तिकर्मणः). मत्सरः also means greed (इति लोभनाम). By this (एनेन) one becomes mad after wealth (धनम् अभिमत्तः भवति). पयः comes from the root पा (to drink) (पिबतेः वा) or from प्याय् (to swell) (प्यायतेः वा). क्षीरम् comes from the root क्षर् (to flow) (क्षरतेः), or from घस् (to consume) घसेः वा derived by (नामकरणः) adding the suffix ईर्, just as in उशीरम् ।

Note: घस्लृ अदने + ईर = क् ष् + ईर [by घसेः किश्च (उ० ४७६)] = क्षीरः । वश् + ईर = उशीरम् [by वशेः कित् (उ० ४७३)]

अं॒शुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ (ऋ० १०.९२.९) – They sit on a bull-hide (गवि अध्यासते) while extracting soma (अशुं दुहन्तः)

इत्यधिषवणचर्णमः । अंशुः शमष्ट मात्रो भवति । अननाय शं भवतीति वा । चर्म चरतेर्वा । उच्चृतं भवतीति वा । अथापि चर्म च श्लेष्मा च ।

Here the substantive गो is used as a name for a derivative of the bull (i.e. hide) (इति अधिषवणचर्मणः). अंशुः is so called because it confers happiness when it is consumed (शं अष्टमात्रः भवति), or it is conducive to (long) life (अननाय शं भवति). चर्म comes from the root चर् (to move) (चरतेः वा) (i.e. it moves all over the body), or because it is stripped off (उच्चृतं भवति इति वा) (the body). Furthermore (अथ अपि) (the substantive गो can be used to mean) skin/hide (चर्म) and phlegm (श्लेष्मा च) (representing derivative words).

गोभिः॒ सन्न॑द्धो असि वी॒ळय॑स्व (ऋ० ६.४७.२६) – (O chariot!) You are fastened (सन्नद्धः असि) with leather straps (गोभिः), make us firm (वीळयस्व)!

इति रथस्तुतौ । अथापि स्नाव च श्लेष्मा च ।

As in the praise of a chariot (इति रथस्तुतौ). Furthermore (अथ अपि) (the substantive गो can be used to mean) tendons ( स्नाव च) and phlegm (श्लेष्मा च) .

गोभिः॒ सन्न॑द्धा पतति॒ प्रसू॑ता (ऋ० ६.७५.११) – Fastened with tendons (गोभिः सन्नद्धा) if flies (पतति) when released (प्रसूता).

इतीषु स्तुतौ – as in the praise of an arrow.

ज्यापि गौररुउच्यते । गव्या चेत् ताद्धितम् । अथ चेन्न । गव्या गमयतीषूनिति ॥ २.५ ॥

A bow-string (ज्या) is also called गौः (अपि गौः उच्यते). If as a taddhita derivative (चेत् ताद्धितम्) , then (it is called ). And if it is not make (अथ चत् न) (of cow-hide), even then it can be called गव्या because it propels the arrow (गमयति इषून् इति) (in which case it will be derived as गम् + डो).


Nirukta     Nirukta2.4     Nirukta2.6
Advertisements