Pratyahara

अथ प्रत्याहाराः

वृत्तौ भाष्ये तथा धातुनामपारायणादिषु ।
विप्रकीर्णस्य तन्त्रस्य क्रियते सारसंग्रहः ॥ १ ॥

The essence of the knowledge (तन्त्रस्य) (of vyākaraṇa) that is scattered (विप्रकीर्णस्य) among various glosses (वृत्तौ), commentaries (भाष्ये), and lists of verbs, substantives etc. (तथा धातुनामपारायणादिषु), will now be condensed (सारसंग्रहः क्रियते).

इष्ट्युपसंख्यानवती शुद्धगणा विवृतगूढसूत्रार्था ।
व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम ॥ २ ॥

This vṛtti (इयं वृत्तिः) named Kāśikā (काशिका नाम) is equipped with explanations of concepts not explicit in the sūtras (इष्ट्युपसंख्यानवती), well-edited list of substantives (शुद्धगणा) expositions of the hidden meanings of sūtras (विवृतगूढसूत्रार्था),  and demonstrations of derivations of words (व्युत्पन्नरूपसिद्धिः).

व्याकरणस्य शरीरं परिनिष्ठितशास्त्रकार्यमेतावत् ।
शिष्टः परिकरबन्धः क्रियतेऽस्य ग्रन्थकारेण ॥ ३ ॥

This much (एतावत्) (i.e. what is mentioned in the previous verse) is the body (essence) of vyākaraṇa (व्याकरणस्य शरीरं) and the fulfillment of its objective (परिनिष्ठितशास्त्रकार्यम्).  What remains (शिष्टः), which is the tying up of loose ends (परिकरबन्धः), will now be done (क्रियते) by the author of this work (अस्य ग्रन्थकारेण).

The next paragraph is taken from the Mahābhāṣya.

॥ अथ शब्दानुशासनम् ॥ (म० भा० १.१)

Now begins (अथ) the teaching about the derivation of words (शब्दानुशासनम्).

Note: अनुशासनम् = अनु + शास् + ल्युट् (अन) – अनुशिष्यन्ते संस्क्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेन इति ।

केषां शब्दानाम् । लौकिकानां वैदिकानां च । कथमनुशासनम् । प्रकृत्यादिविभागकल्पनया सामन्यविशेषवता लक्षणेन । अथ किमर्थो वर्णानामुपदेशः ।  प्रत्याहारार्थः । प्रत्याहारो लाघवेन शास्त्रप्रवृत्त्यर्थः ॥

Of what kinds (केषाम्) of words (शब्दानाम्)? Words that are used in common parlance (लौकिकानाम्) as well as words used in the Veda (वैदिकानां च). How is (कथम्) this teaching (अनुशासनम्) given?  It is characterized by (लक्षणेन) the identifying the various parts of a word such as prakṛti etc. (प्रकृत्यादिविभागकल्पनया), and explaining the general as well as special features (सामन्यविशेषवता). Now (अथ) what is the purpose (किम् अर्थम्) of the teaching (उपदेशः) pertaining to the varṇas (वर्णानाम्)? For the making of pratyāhāras (प्रत्याहारार्थः). A pratyāhāra (प्रत्याहारः) makes the exposition of the teaching (शास्त्रप्रवृत्त्यर्थः) efficient (लाघवेन).

Note: प्रत्याह्रियन्ते संक्षिप्यन्ते अस्मिन् वर्णाः – A pratyāhāra is so called because it is a concise representation of a set into which other elements are “brought in”.  For example, अण् = {अ , इ , उ }

अ इ उ ण् ॥ १ ॥

अ इ उ इत्यनेन क्रमेण वर्णानुपदिश्यान्ते णकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भ्वत्येकेन ’उरण् रपरः’ (१.१.५१) इत्यकारेण । ह्रस्वमवर्णं प्रयोगे संवृतम् । दीर्घप्लुतयोस्तु विवृतम् । तेषां सावर्ण्यप्रसिद्ध्यर्थमकार इह शास्त्रे विवृतः प्रतिज्ञापयते । तस्य प्रयोगर्थम् ’अ अ’ (८.४.६६) इति शास्त्रान्ते प्रत्यापत्तिः करिष्यते ॥

By this (अनेन) the varṇas अ, इ and उ are listed (अ इ उ इति क्रमेण वर्णान् उपदिश्यन्ते), and the tag ण् is added (णकारम् इतं करोति) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag ण्) is used (तस्य ग्रहणं भवति) with अ (अकारेण) in a single (एकेन) pratyāhāra, अण् as in (इति) ’उरण् रपरः’  In actual usage (प्रयोगे), the short अ (ह्रस्वम् अवर्णम्) is considered saṃvṛta (संवृतम्), whereas the long and prolated (दीर्घप्लुतयोः तु) are considered vivṛta (विवृतम्). But to consider them all to be savarṇa ( तेषां सावर्ण्यप्रसिद्ध्यर्थम्)अ (अकारः) is considered (प्रतिज्ञापयते) to be vivṛta (विवृतः) in this śāstra (इह शास्त्रे).  For the purpose of actual usage (तस्य प्रयोगर्थम्), the rule ‘अ अ’ at the end of the śāstra ( इति शास्त्रान्ते) will reverse this assumption (प्रत्यापत्तिः करिष्यते) (i.e. will make अ revert back to saṃvṛta  in usage).

ऋ लृ क् ॥ २ ॥

ऋ लृ इत्येतौ वर्णापुपदिश्य ककारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः – ’अकः सवर्णे दीर्घः’ (६.१.१०१) इत्यकारेण, ’इको गुणवृद्धी’ (१.१.३) इतीकारेण , ’उगितश्च’ (४.१.५) इत्युकारेण । अकारादयो वर्णाः प्रचुरप्रयोगविषयास्तेषां सुज्ञानमुपदेशे प्रयोजनम् । लृकारस्तु क्लृपिस्थ एव प्रयुज्यते । क्लृपेश्च ’पूर्वत्रासिद्धम्’ (८.२.१) इति लत्वमसिद्धम् तस्यासिद्धत्वाद् ऋकार एव अच्कार्याणि भविष्यन्तीति किमर्थम् लृकार उपदिश्यते । लत्वविधानाद्यानि पराण्यच्कार्याणि तानि लृकारे यथा स्युरिति । कानि पुनस्तानि । प्लुतः स्वरितो द्विर्वचनम् । क्लृ३प्तशिखः प्रक्लृ॑प्तः क्लृप्प्तवान् इति । यच्चाशक्तिजमसाधुशब्दरूपं तदनुकर्णस्यापि सधुत्वमिष्यते । तत्स्थस्यापि लृकारस्याच्कार्यप्रतिपत्त्यर्थम् लृकारोपदेशः क्रियते । ’ऋतक’ इति प्रयोक्तव्ये शक्तिवैकल्यात् कुमारी लृतक इति प्रयुङ्क्ते तदन्योऽनुकरोति – कुमार्य्लृतक इत्याह – इति ॥

By this (अनेन) having listed the varṇas ऋ and लृ (ऋ लृ इत्येतौ वर्णौ उपदिश्य), the tag क् is added (ककारम् इतं करोति) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag क्) is used (तस्य ग्रहणं भवति) with three varṇas (त्रिभिः) – with अ (अकारेण) as in (इति) ’अकः सवर्णे दीर्घः’,  with इ (इकारेण) as in (इति) ’इको गुणवृद्धी’, and with उ (उकारेण) as in (इति) ’उगितश्च’. The varṇas  अ etc. (अकारादयः वर्णाः) are used frequently (प्रचुरप्रयोगविषयाः), therefore their correct knowledge (तेषां संज्ञानम्) is an objective in the teaching (उपदेशे प्रयोजनम्). But लृ (लृकारः तु) is used only in the root क्लृप् (क्लृपिस्थः एव प्रयुज्यते). Furthermore, the replacement by ल् of [the र्] of क्लृप् (क्लृपेः च) is asiddha (इति लत्वमसिद्धम्) by ’पूर्वत्रासिद्धम्’, and by becoming asiddha (तस्य असिद्धत्वात्), the actions pertaining to अच् (अच्कार्याणि) will be performed (भविष्यन्ति) on ऋ alone (ऋकारे एव), so what is the purpose of लृ (किम् अर्थम् लृकारः उपदिश्यते)? So that those actions pertaining to अच् (तानि अच्कार्याणि) based on ल् (लत्वविधानाद् यानि) that come later (पराणि भविष्यन्ति) may be based on लृ (लृकारे यथा स्युः इति). Which are those action (कानि पुनः तानि)? Actions that cause prolation (प्लुतः), svarita (स्वरितः) and reduplication (द्विर्वचनम्), as in क्लृ३प्तशिखः, प्रक्लृ॑प्तः and क्लृप्प्तवान्  respectively. And the quoting of (तदनुकरणस्य अपि) an incorrectly pronounced (यत् च अशक्तिजम्) or ungrammatical word (असाधुशब्दरूपम्) should be considered to be proper usage (सादुत्वम् इष्यते). And the लृ contained in such a usage (तत्स्थस्य अपि लृकारस्य) should also be treated as a vowel (लृकारोपदेशः क्रियते) so that actions pertaining to vowels may be performed on it (अच्कार्यप्रतिपत्त्यर्थम्). For example, a girl uses लृतकः (कुमारी लृतकः इति प्रयुङ्क्ते) due to incorrect pronunciation (शक्तिवैकल्यात्), whereas ऋतकः should be used (ऋतकः इति प्रयोक्तव्ये), then another person quoting her says (तत् अन्यः अनुकरोति इति) “The girl said लृतकः (कुमार्य्लृतकः इति आह)” [Here लृ is considered to be a vowel, hence the ई of कुमारी is replaced by य्].

Note: The root कृपू सामर्थ्ये (भ्वादिः) is changed to क्लृप् by कृपो रो लः (८।२।१८).

ए ओ ङ् ॥ ३ ॥

’ए ओ’ इत्येतौ वर्णावुपदिश्य अन्ते  ङकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन ’एङि पररूपम्’ (६.१.९४) इत्येकारेण ॥

Having listed (उपदिश्य) the varṇas  ए and ओ (’ए औ’ इति एतौ वर्णौ) the tag ङ् is added (ङकारम् इतं करोति) at the end (अन्ते) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag ङ्) is used (तस्य ग्रहणं भवति) with ए (एकारेण) in a single (एकेन) pratyāhāra एङ् as in ’एङि पररूपम्’ ।

ऐ औ च् ॥ ४ ॥

’ऐ औ’ इत्येतौ वर्णावुपदिश्य पूर्वश्चान्ते चकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति चतुर्भिः – ’अचः परस्मिन्पूर्वविधौ’ (१.१.५७) इत्यकारेण, ’इच एकाचोऽम्प्रत्ययवच्च’ (६.३.३८) इतीकारेण , ’एचोऽयवायावः’ (६.१.७८) इति एकारेण ,  ’वृद्धिरादैच्’ (१.१.१) इति ऐकारेण ।

Having listed (उपदिश्य) the varṇas  ऐ and औ (’ऐ औ’ इति एतौ वर्णौ) the tag च् is added (चकारम् इतं करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag च्) is used (तस्य ग्रहणं भवति) with four varṇas (चतुर्भिः) – with अ (अकारेण) as in (इति) ’अचः परस्मिन्पूर्वविधौ’, with इ (इकारेण) as in (इति) ’इच एकाचोऽम्प्रत्ययवच्च’,  with ए (एकारेण) as in (इति)  ’एचोऽयवायावः’, and with ऐ (ऐकारेण) as in (इति) ’वृद्धिरादैच्’ ।

प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न । आचारादप्रधानत्वाल्लोपश्च बलवत्तरः ॥

Why (कथम्) are the tags (अनुबन्धानाम्) in a pratyāhāra (प्रत्याहारे) not included in अच् etc. (अज्ग्रहणेषु न)?  Because of tradition (आचारात्), secondary importance (अप्रधानात्) (of the tags while giving instructions on अच् etc.) and the fact that elision takes precedence (लोपः च बलवत्तरः).

वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयस्तेषु तत्कार्यं न भवति । तच्छायानुकारिणो हि ते न पुनस्त एव । पृथक् प्रयत्ननिर्वर्त्यं हि वर्णमिच्छन्त्याचार्याः । ’नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम् (म० भा० माहेश्वरसूत्रं १ वा० ५) । नुड्विधौ (७.४.७१) ॠकारग्रहणम् – आनृधतुः , आनॄधुः । लादेशे (८.२.१८) ऋकारग्रहणम् – क्लृप्तः क्लृप्तवान् । विनामे (८.४.१) ऋकारग्रहणम् – कर्तॄणाम् ॥

The varṇas (ये वर्णाः) of a different type that are similar (वर्णान्तरसमानाकृतयः) to other varṇa  and part of them (वर्णैकदेशाः) are not subject to operations targeting them (तेषु तत्कार्यं न भवति). [For example, आ can be considered to contain अ, ए to contain अ and इ, and so on.  But the operations targeting अ and इ will not apply to ए]. That is because there are mere shadow imitations of them ( तच्छायानुकारिणः हि ते), and should not be identified with them (न पुनः ते एव). The masters (आचार्याः) desire (हि इच्छन्ति) that each varṇa should originate from a different  level of effort (वर्णम् पृथक् प्रयत्ननिर्वर्त्यम्) (such as place of pronunciation etc.).  In the context of नुट्, substitutions for ल् , and cerebralization (नुड्विधिलादेशविनामेषु), the vowel ऋ should be considered to contain र् (ऋकारे प्रतिविधातव्यम्).  For example,

  • Context of नुट् (नुड्विधौ) – आनृधतुः , आनृधुः।  ऋध् + लिट् (अतुस्) = आ + ऋध् + अतुः ।  To apply तस्मान्नुड् द्विहलः (पा. ७.४.७१), ऋध् has to be considered to be द्विहल् which is possible only if ऋ is considered to contain र् । Applying this rule, we get आनृधतुः । Similarly आनृधुः ।
  • Substitutes for ल् (लादेशे) – The rule कृपो रो लः (पा. ८।२।१८) implies that ऋ contains र् । This allows र् to be replaced by ल् giving क्लृप्तः and क्लृप्तवान्
  • Cerebralization (विनामे) – कर्तृ + नाम् । Here ऋ is considered to contain र् thus allowing न् to be replaced by ण् giving कर्तॄणाम्

ह य व र ट् ॥ ५ ॥

’ह य व र’ इत्येतान्वर्णानुपदिश्य पूर्वाश्चान्ते टकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन – ’शश्छोऽटि’ (८.४.६३) इत्यकारेण ।

Having listed (उपदिश्य) the varṇas  ह, य, व, and र (’ह य व र’ इति एतान् वर्णान्) the tag ट् is added (टकारम् इतं करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag ट्) is used (तस्य ग्रहणं भवति) with अ (अकारेण) in a single (एकेन) pratyāhāra अट् as in ’शश्छोऽटि’ ।

अयं रेफो यकारात् पर उपदिश्यते । तस्य यर्ग्रहणेन यय्ग्रहणेन च ग्रहणे सति स्वर्नयति प्रातर्नयतीत्यत्र ’यरोऽनुनासिकेऽनुनासिको वा’ (८.४.४५) इति अनुनासिकः प्राप्नोति । मद्रह्रदो भद्रह्रद इत्यत्र द्विर्वचनं प्राप्नोति ’अचो रहाभ्यां द्वे’ (८.४.४६) इति । कुण्डं रथेन वनं रथेनेत्यत्र ’अनुस्वारस्य ययि परसवर्णः’ (८.४.५८) इति परसवर्णः प्राप्नोति ।

This र् (अयं रेफः) comes after य् (यकारात् परः उपदिश्यते). Because of it being part of यर् as well as यय् (तस्य यर्ग्रहणेन यय्ग्रहणेन च ग्रहणे सति) it can be replaced by a nasal (अनुनासिकः प्राप्नोति) (ण्) by ’यरोऽनुनासिकेऽनुनासिको वा’ । And it can also duplicated (द्विर्वचनं प्राप्नोति) by ’अचो रहाभ्यां द्वे’ as in मद्रह्रदः and भद्रह्रदः ।  In the case of कुण्डं रथेन and वनं रथेन anusvāra is replaced by savarṇa (of र्) by ’अनुस्वारस्य ययि परसवर्णः’.  (All these create a problem – see the next paragraph for the solution)

नैष दोषः । आकृतौ पदार्थे समुदाये ’सकृल्लक्ष्ये लक्षणं प्रवर्तते’ – इत्येतस्मिन् दर्शने ’यरोऽनुनासिकेऽनुनासिको वा’ (८.४.४५) अन्तरतमो भवतीत्येवमेतत्प्रवर्तते ।  तदनेन गकारादीनां ङकारादयो ये यथा स्वं स्थानतो गुणतश्चान्तरतमा ते सर्वे विहिताः । ये तु न स्थानतः नापि गुणतः स्थानमात्रेण गुणमात्रेण वा अन्तरतमास्ते सर्वे निवर्तिता इति स्थानमात्रान्तरतमो रेफस्य णकारो न भवति ।

Actually there is no problem (न एषः दोषः).  When a class is treated as a substance (with attributes) (आकृतौ पदार्थे समुदाये), by the maxim (इति एतस्मिन् दर्शने) “the rule for choice for the target should be applied only once” (लक्षणे लक्षणं सकृत् प्रवर्तते),  the rule to choose the object that most closely resembles the one to be replaced applies (अन्तरतमः भवति – इति एवम् एतत् प्रवर्तते).  Then by this rule (तद् अनेन) the choice for the replacement includes all of those (ते सर्वे विहिताः) ङ् etc. which are among ग् etc. (गकारादीनां ङकारादयः) and whose place of pronunciation (ये यथा स्वं स्थानतः) and attributes (गुणतः च) are the closest (अन्तरतमाः). However those (ये तु) who match (अन्तरतमाः) neither with respect to place nor with attributes (न अपि गुणतः), or those who match only place or only attribute (स्थानमात्रेण गुणमात्रेण वा) , are all eliminated (ते सर्वे निवर्तिताः). (The only candidate, ण् , is eliminated because it is ) closest only with respect to place of pronunciation (स्थानमात्रान्तरतमः), and therefore र् is not replaced by ण् (रेफस्य णकारः न भवति). [ण् is स्पृष्टम् whereas र् is ईषत्स्पृष्टम्].

द्विर्वचनेऽपि रेफस्य यरन्तर्भावे सति यत्कार्यत्वं प्राप्तं तत्साक्षाच्छिष्टेन निमित्तभावेन बाध्यत इति न द्विरुच्यते रेफः ।

In the case of duplication also (द्विर्वचने अपि), because र् is included in यर् (रेफस्य यरन्तर्भावे सति) the action that should be performed (यत्कार्यत्वं प्राप्तं), that is prevented (तत् बाध्यते) because the action must be performed on anything other than र् or ह् , which are the conditions (तत् साक्षात् शिष्टेन निमित्तभावेन), therefore the र् is not duplicated (इति न द्विः उच्यते रेफः).

’अनुस्वारस्य ययि परसवर्णः’ (८.४.५८) इत्येदप्यनुस्वारान्तरतमं सकृदेव परसवर्णं विदधाति । न च रेफस्यानुस्वारान्तरतमः सवर्णोऽस्तीति न भविष्यति – कुण्डं रथेन वनं रथेनेत्यत्र ।

The rule ’अनुस्वारस्य ययि परसवर्णः’  also (इति एतद् अपि) ordains the replacement (विदधाति) of anusvāra by the closest  (अनुस्चारान्तरतमं ) varṇa of what follows (परसवर्णं) only once (सकृत् एव).  There is no savarṇa  of र् (न च रेफस्य) that is closest to anusvāra ( अनुस्वारान्तरतमः अस्ति इति), hence the replacement does not happen (न भविष्यति) in the cases of कुण्डं रथेन and वनं रथेन ।

अटां मध्ये विसर्जनीयजिह्वामूलीयोपध्मानीयानामप्युपदेशः कर्तव्यः । किं प्रयोजनम् – उर : केण , उरःकेण , उर ः पेण , उरःपेण – अत्र ’अड्व्यवाये’ (८.४.२) इति णत्वं यथा स्यादिति ॥

Visarjanīya, Jihvāmūlīyā, and Upadhmānīya (विसर्जनीयजिह्वामूलीयोपध्मानीयानाम्) should also be included in अट् (अटां मध्ये उपदेशः कर्तव्यः).  For what purpose (किं प्रयोजनम्)? In the cases of उर : केण , उरःकेण , उर ः पेण , and उरःपेण,  so that न् can be replaced by ण् (णत्वं यथा स्यात्) even if there are intervening members of अट् (अड्व्यवाये).

ल ण् ॥ ६ ॥

ल इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते णकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः । ’अणुदित्सवर्णस्य चाप्रत्ययः’ (१.१.६९) इत्यकारेण । इण्कोः (८.३.५७) इतीकारेण । ’इको यणचि’ (६।१।७७) इति यकारेण । इण्ग्रहणानि सर्वाणि परेण णकारेन । अण्ग्रहणानि तु पूर्वेण ’अणुदित्सवर्णस्य चाप्रत्ययः’ (१.१.६९) इत्येतदेवैकं परेण ।

Having listed (उपदिश्य) the varṇa  ल (’ल’ इति एकं वर्णम्) the tag ण् is added (णकारम् इतं करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag ण्) is used (तस्य ग्रहणं भवति) with three varṇas (त्रिभिः) – with अ (अकारेण) as in (इति) ’अणुदित्सवर्णस्य चाप्रत्ययः’, with इ (इकारेण) as in (इति) ’इण्कोः’,  and with य (यकारेण) as in (इति) ’इको यणचि’ । इण् (इण्ग्रहणानि ) is always with a later ण् (परेण णकारेन).  अण् is always with the earlier ण् (अण्ग्रहणानि तु पूर्वेण), except in the case of  ’अणुदित्सवर्णस्य चाप्रत्ययः’ and only this uses the later ण् (इति एतद् एव एकं परेण).

अथ किमर्थमज्ग्रहणमेवैतन्न क्रियते । नैवं शक्यम् । अन्तःस्थानामपि हि सर्वाणां ग्रहणमिष्यते । सय्यँन्ता । सव्वँवत्सरः । यल्लोँकम् । तल्ल्लोँकमित्यत्रानुस्वारस्यानुनासिके ययि परसवर्णे कृते (८.४.५८) तस्य यर्ग्रहणेन ग्रहणाद् द्विर्वचनं (८.४.४७) यथा स्यादिति ।

Now (अथ) why is it (किम् अर्थम्) not enough to use अच् (अज्ग्रहणम् एव एतन् न क्रियते) [instead of अण् in अणुदित्सवर्णस्य चाप्रत्ययः]? This is not possible (न एवं शक्यम्) because it is required to include the antasthas also (अन्तःस्थानाम् अपि हि सर्वाणां ग्रहणम् इष्यते), as in सय्यँन्ता , सव्वँवत्सरः , and यल्लोँकम् ।  Also, so that (यथा स्यात्) in तल्ँ ल्ँ लोकम् after replacing anusvāra by savarṇa  of ल् (अनुस्वारस्य अनुनासिके ययि परसवर्णे कृते), and that being part of यर् (तस्य यर्ग्रहणेन ग्रहणाद्), there can be a duplication (द्विर्वचनम्) (of ल्ँ).

हकारादिष्वकार उच्चारणार्थो नानुबन्धः । लकारे त्वनुनासिकः प्रतिज्ञायते । तेन ’उरण् रपरः’ (१.१.५१) इत्यत्र प्रत्याहारग्रहणाल्लपरत्वमपि भवति ॥

The अ (अकारः) that is part of ह etc. (हकारादिषु) is for ease of pronunciation (उच्चारणार्थः), and not a tag (न अनुबन्धः). But the अ of ल is nasal (लकारे तु अनुनासिकः प्रतिज्ञायते) (thus making it a tag).  By that (तेन), in the rule  ’उरण् रपरः’, which has the र pratyāhāra (प्रत्याहारग्रहणात्) [which includes र् and ल्], it also includes the affixing of ल् (लपरत्वम् अपि भवति)

ञ म ङ ण न म् ॥ ७ ॥

’ञ म ङ ण न’ इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते मकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः । ’पुमः खय्यम्परे’ (८.३.६) इत्यकारेण । ’हलो यमां यमि लोपः’ इति यकारेण । ’ङमो ह्रस्वादचि ङमुण् नित्यम्’ (८.३.३२) इति ङकारेण । ’ञमन्ताड्डः’ (उ० १.१११) इति ञकारेणापि ग्रहणमस्य दृश्यते । केचित्तु सर्वाण्येतानि प्रत्याहारग्रहणानि ञकारेण भवन्त्विति मकारमनुबन्धं प्रत्याचक्षते । तथा च सति ’ङमो ह्रस्वादचि ङमुण् नित्यम्’ (८.३.३२) इत्यत्रागमिनोर्झभोरभावादागमाभावप्रतिपत्तौ प्रतिपत्तिगौरवं भवति ॥

Having listed (उपदिश्य) the varṇas ञ , म , ङ , and ण (’ञ म ङ ण न’ इति एतान् वर्णान्) the tag म् is added (मकारम् इतं करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्).  It (the tag म्) is used (तस्य ग्रहणं भवति) with three varṇas (त्रिभिः) – with अ (अकारेण) as in (इति) ’पुमः खय्यम्परे’, with य (यकारेण) as in (इति) ’हलो यमां यमि लोपः’ , and with ङ (ङकारेण) as in (इति) ’ङमो ह्रस्वादचि ङमुण् नित्यम्’ । It is also used (अस्य ग्रहणं दृश्यते) with ञ (ञकारेण अपि) as in ’ञमन्ताड्डः’ (उ० १.१११).  Some however (त्चेत् तु) repudiate the use of the tag म् (मकारमनुबन्धं प्रत्याचक्षते) and say that this and the previous sūtra (सर्वाणि एतानि प्रत्याहारग्रहणानि्) can be combined with ञ् as the tag (ञकारेण भवन्तु इति) [i.e. instead of ञमङणनम् and झभञ्, why not have ञमङणनझभञ् ?] In that case the sūtra  ’ङमो ह्रस्वादचि ङमुण् नित्यम्’ which should not include झ and भ (इति अत्र आगमिनः झभोः अभावात्), will have to exclude these explicitly (आगमाभावप्रतिपत्तौ) and that will make it difficult (प्रतिपत्तिगौरवं भवति).

झ भ ञ् ॥ ८ ॥

झ भ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते ञकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन ’अतो दीर्घो यञि’ (७.३.१०१) इति यकारेण ।

Having listed (उपदिश्य) the varṇas झ and भ (’झ भ’ इति एतौ वर्णौ) the tag ञ् is added (ञकारम् इतं करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्).  It (the tag ञ्) is used (तस्य ग्रहणं भवति) with य (यकारेण) in a single (एकेन) pratyāhāra यञ् as in ’अतो दीर्घो यञि’ ।

घ ढ ध ष् ॥ ९ ॥

’घ ढ ध’ इत्येतान्वर्णानुपदिश्य पूर्वांश्चान्ते षकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति द्वाभ्याम् । ’एकाचो बशो भष् झषन्तस्य स्ध्वोः’ (८.२.३७) इति भकारझकाराभ्याम् ॥

Having listed (उपदिश्य) the varṇas घ , ढ, and ध (’घ ठ ध’ इति एतान् वर्णान्) the tag ष् is added (षकारम् इतं करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag ष्) is used (तस्य ग्रहणं भवति) with two varṇas (द्वाभ्याम्) – with भ and झ (भकारझकाराभ्याम्) as in (इति) ’एकाचो बशो भष् झषन्तस्य स्ध्वोः’.

ज ब ग ड द श् ॥ १० ॥

’ज ब ग ड द’ इत्येतान्वर्णानुपदिश्य पूर्वांश्चान्ते शकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षड्भिः – ’भो भगो अघो अपूर्वस्य योऽशि’ (८.३.१७) इत्यकारेण । ’हशि च’ (६.१.११४) इति हकारेण । ’नेड्वशि कृति’ (७.२.८) इति वकारेण । ’झलां जश् झशि’ (८.४.५३) इति जकारहकाराभ्याम् । ’एकाचो बशो भष् झषन्तस्य स्ध्वोः’ (८.२.३७) इति बकारेण ॥

Having listed (उपदिश्य) the varṇas ज , ब , ग , ड , and द (’ज ब ग ड द’ इति एतान् वर्णान्) the tag श् is added (शकारम् इतं करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag श्) is used (तस्य ग्रहणं भवति) with six varṇas (षड्भिः) – with अ (अकारेण) as in (इति) ’भो भगो अघो अपूर्वस्य योऽशि’, with ह (हकारेण) as in (इति) ’हशि च’,  with व (वकारेण) as in (इति) ’नेड्वशि कृति’ , with ज and झ (जकारहकाराभ्याम् ) as in (इति) ’झलां जश् झशि’, and with ब (बकारेण) as in (इति)  ’एकाचो बशो भष् झषन्तस्य स्ध्वोः’.

ख फ छ ठ थ च ट त व् ॥ ११ ॥

’ख फ छ ठ थ च ट त’ इत्येतान्वर्णानुपदिश्य पूर्वांश्चान्ते वकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन ’नश्छव्यप्रशान्’ (८.३.७) इति छकारेण । खफग्रहणमुत्तरार्थम् ॥

Having listed (उपदिश्य) the varṇas ख , फ , छ , ठ , थ , च , ट , and त (’ख फ छ ठ थ च ट त’ इति एतान् वर्णान्) the tag व् is added (वकारम् इतं करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag व्) is used (तस्य ग्रहणं भवति) with छ (छकारेण) in a single (एकेन) pratyāhāra as in ’नश्छव्यप्रशान्’ । ख and फ are included here (खफग्रहणम्) for subsequent pratyāhāras (उत्तरार्थम्).

क प य् ॥ १२ ॥

’क प’ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते यकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति चतुर्भिः ।  ’अनुस्वारस्य ययि परसवर्णः’ (८.४.५८) इति यकारेण । ’मञ उञो वा वा’ (८.३.३३) इति मकारेण । ’झयो होऽन्यतरस्याम्’ (८.४.६२) इति झकारेण । ’पुमः खय्यम्परे’ (८.३.६) इति खकारेण ।

Having listed (उपदिश्य) the varṇas क and प (’क प’ इति एतान् वर्णान्) the tag य् is added (यकारम् इतं करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag य्) is used (तस्य ग्रहणं भवति) with four varṇas (चतुभिः) – with य (यकारेण) as in (इति) ’अनुस्वारस्य ययि परसवर्णः’, with म (मकारेण) as in (इति) ’मञ उञो वा वा’, with झ (झकारेण) as in (इति) ’झयो होऽन्यतरस्याम्’, and with ख (खकारेण) as in (इति) ’पुमः खय्यम्परे’.

श ष स र् ॥ १३ ॥

’श ष स’ इत्येतान्वर्णानुपदिश्य पूर्वांश्चान्ते रेफमितं करोति प्रत्याहारार्थम् ।  तस्य ग्रहणं भवति पञ्चभिः । ’यरोऽनुनासिकेऽनुनासिको वा’ (८.४.४५) इति यकारेण । ’झरो झरि सवर्णे’ (८.४.६५) इति झकारेण । ’खरि च’ (८.४.५५) इति खकारेण । ’अभ्यासे चर्च’ (८.४.५४) इति चकारेण । ’शर्पूर्वा खयः’ (७.४.६१) इति शकारेण ॥

Having listed (उपदिश्य) the varṇas श, ष and स (’श ष स’ इति एतान् वर्णान्) the tag र् is added (रेफम् इतम्  करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्).  It (the tag र्) is used (तस्य ग्रहणं भवति) with five varṇas (पञ्चभिः) –  with य (यकारेण) as in (इति) ’यरोऽनुनासिकेऽनुनासिको वा’, with झ (झकारेण) as in (इति)  ’झरो झरि सवर्णे’ , with ख (खकारेण) as in (इति) ’खरि च’ , with च (चकारेण) as in (इति) ’अभ्यासे चर्च’ , and with श (शकारेण) as in (इति) ’शर्पूर्वा खयः’.

ह ल् ॥ १४ ॥

’ह’ इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते लकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षड्भिः ।  ’अलोऽन्त्यात् पूर्व उपधा’ (१.१.६५) इति अकारेण । ’हलोऽनन्तराः संयोगः’ (१.१.७) इति हकारेण । ’लोपो व्योर्वलि’ (६.१.६६) इति वकारेण । ’ रलो व्युपधाद्धलादेः संश्च’ (१.२.२६) इति रेफेण । ’झलो झलि’ (८.२.२६) इति झकारेण । ’शल इगुपधादनिटः क्सः’ (३.१.४५) इति शकारेण ॥

Having listed (उपदिश्य) the varṇa  ह (’ह’ इति एकं वर्णम्) the tag ल् is added (लकारम् इतं करोति) at the end (अन्ते) of this as well as the earlier varṇas (पूर्वः च) to form a pratyāhāra  (प्रत्याहारार्थम्). It (the tag ल्) is used (तस्य ग्रहणं भवति) with six varṇas (षड्भिः) – with अ (अकारेण) as in (इति) ’अलोऽन्त्यात् पूर्व उपधा’, with ह् (हकारेण) as in (इति) ’हलोऽनन्तराः संयोगः’, with व् (वकारेण) as in (इति)  ’लोपो व्योर्वलि’, with र् (रेफेण) as in (इति)  ’ रलो व्युपधाद्धलादेः संश्च’, with झ् (झकारेण) as in (इति) ’झलो झलि’, and with श् (शकारेण) as in (इति) ’शल इगुपधादनिटः क्सः’ .

अथ किमर्थमुपदिष्टोऽपि हकारः पुनरुपदिश्यते ।  कित्त्वविकल्प-क्स-इड्विधयो यथा स्युरिति । स्निहित्वा स्नेहित्वेत्यत्र ’ रलो व्युपधाद्धलादेः संश्च’ (१.२.२६) इति कित्त्वं वा यथा स्यात् । लिहेरलिक्षदिति ’शल इगुपधादनिटः क्सः’ (३.१.४५) इति क्सो यथा स्यात् । रुदिहि स्वपिहीति वलादिलक्षण इड् यथा (७.२.७६) स्यात् । अदाग्धाम् । झल्ग्रहणेषु च (८.२.२६) हकारस्य ग्रहणं यथा स्यात् ॥

Now what what purpose (अथ किमर्थम्) is ह्, which was already listed (उपदिष्टः अपि) listed again (पुनः उपदिश्यते)? So that it facilitates the following (इति यथा स्युः): optional कित्, replacement by क्स्, and insertion of इ (कित्त्वविकल्प-क्स-इड्विधयः).  Examples:

  • स्निहित्वा स्नेहित्वा – here considering क्त्वा to be कित् becomes optional by ’ रलो व्युपधाद्धलादेः संश्च’ (i.e. so that the रल् includes ह्)
  • लिह् + लुङ् = अलिक्षत् – here च्लि is replaced by क्स using ’शल इगुपधादनिटः क्सः’ (i.e. so that the set {श् , ष् , स्, ह्} can be formed using शल्)
  • रुदिहि (रुद् + लोट्), स्वपिहि (स्वप् + लोट्) – here there is an insertion of इ by रुदादिभ्यः सार्वधातुके (पा. ७।२।७६) because ह् is part of वल् (वलादिलक्षणः)
  • अदाग्धाम् – अदह् + लुङ् (ताम्) – here the derivation uses the fact that ह् is part of झल् and is therefore elided by झलो झलि (पा. ८।२।२६)

यद्येवं ’ह य व र ट्’ इत्यत्र तर्हि किमर्थमुपदिश्यते । महाँ हि सः देवा हसन्तीत्यत्राड्ग्रहणेषु (८.३.३) चाश्ग्रहणेषु (८.३.२२) च हकारस्य ग्रहणं यथा स्यात् । ’हशि च’ इति ह्कारस्य ग्रहणं यथा स्यात् । ब्राह्मणो हसति । ’हशि च’ (६.१.११४) इत्युत्वं यथा स्यात् ।

If so (यदि एवम्), then for what purpose is ह् listed in ’ह य व र ट्’ (इति अत्र किमर्थं उपदिश्यते)? Examples:

  • महाँ हि सः – महान् हि – here न् is replaced by रु using दीर्घादटि समानपादे (पा. ८।३।९) (i.e. so that अट् includes ह्) (अड्ग्रहणेषु)
  • देवा हसन्ति – देवा रु हसन्ति – here रु is replaced by य् using भोभगोअपूर्वस्य योऽशि (पा. ८।३।२२) (i.e so that अश् includes ह्) (अश्ग्रहणेषु)
  • ब्राह्मणो हसति – ब्राह्मणः हसति – here रु is replaced by उ (इति उत्वं यथा स्यात्) using हशि च (i.e. so that हश् includes ह्) (’हशि च’ इति ह्कारस्य ग्रहणं यथा स्यात्)

The following is a summary of the pratyāhāras listed in ascending order of the number of pratyāhāras that end with a given tag:

एकस्मान् ङञणवाटा द्वाभ्यां षः त्रिभ्य एव कणमाः स्युः । ज्ञेयौ चयौ चतुर्भ्यो रः पञ्चभ्यः शलौ षड्भ्यः ॥ इति ॥

Number of Pratyāhāras  Ending tags Pratyāhāras 
1 ङ्, ञ् , ण् , व् , ट् एङ्, यञ्, अण्, छव्, अट्
2 ष् झष् , भष्
3 क् , ण् , म् अक् , इक् , उक् ; अण्, इण् , यण् ; अम्, यम्, ङम्
4 च् , य् अच् , इच् , एच् , ऐच् ; यय् , मय् , झय् , खय्
5 र् यर् , झर् , खर् , चर् , शर्
6 श् , ल् अश् , हश् , वश् , झश् , जश् , वश् ; अल् , हल्, वल्, रल्, झल्, शल्

॥ इति प्रत्याहारप्रकरणम् ॥

Advertisements