RV1.114

ऋषिः  – कुत्सः आङ्गिरसः । देवता – रुद्रः । छन्दः – जगती (1-9), त्रिष्टुप् (10,11) ।

१.१६.९ – ’इमा रुद्राय’ इति एकादशर्चं नवमं सूक्तं कुत्सस्यार्षम् । दशम्येकादश्यौ त्रिष्टुभौ । शिष्टा नव जगत्यः । रुद्रो देवता । तथा चानुक्रान्तम् – ’इमा एकादश रौद्रं द्वित्रिष्टुबन्तम्’ इति । शूलगवादिषु रुद्रदेवत्येषु कर्मस्वनेन सूक्तेन दिगुपस्थेया । तथा च सूत्रितं – ’कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वने गिर इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम्’ (आश्व. गृ. ४.९.२१) इति ॥

This sūkta by Kutsa of the Aṅgirasa clan is in praise of Rudra.  Several of the ṛks in this sūkta (in a slightly modified form) are also found in the famous Rudram of the Yajurveda.

इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥ १ ॥

इ॒माः । रु॒द्राय॑ । त॒वसे॑ । क॒प॒र्दिने॑ । क्ष॒यत्ऽवी॑राय । प्र । भ॒रा॒म॒हे॒ । म॒तीः । यथा॑ । शम् । अस॑त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे॑ । विश्व॑म् । पु॒ष्टम् । ग्रामे॑ । अ॒स्मिन् । अ॒ना॒तु॒रम् ॥

We earnestly offer (प्र भरामहे) these praises (इमाः मतीः) to the matted-locked Rudra (कपर्दिने रुद्राय), waster of (enemy) warriors (क्षयद्वीराय), so that (यथा) there may be well being (शम् असत्) for bipeds and quadrupeds (द्विपदे चतुष्पते). May all (विश्वम्) in this village (अस्मिन् ग्रामे) be well-nourished (पुष्टम्) and free of disease (अनातुरम्)!

Note: क्षयद्वीराय – क्षयन्तो विनश्यन्तो वीरा यस्मिन् तादृशाय ।

मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ॥ २ ॥

मृ॒ळ । नः॒ । रु॒द्र॒ । उ॒त । नः॒ । मयः॑ । कृ॒धि॒ । क्ष॒यत्ऽवी॑राय । नम॑सा । वि॒धे॒म॒ । ते॒ । यत् । शम् । च॒ । योः । च॒ । मनुः॑ । आ॒ऽये॒जे । पि॒ता । तत् । अ॒श्या॒म॒ । तव॑ । रु॒द्र॒ । प्रऽनी॑तिषु ॥

O Rudra (रुद्र)! Be gracious to us (नः मृळ) and make us happy (उत नः मयः कृधि), we worship (विधेम) with obeisance (नमसा) you, the waster of foes (ते क्षयद्वीराय). Whatever well being (यत् शम् च) and freedom from fear (योः च) our father Manu worshiped (the gods) for (पिता मनुः आयेजे), O Rudra (रुद्र)! May we obtain that (तत् अश्याम) through your leadership (तव प्रणीतिषु)!

NoteYāska, in Nirukta 4.19 explains शम् and योः (often used together) as शमनं च रोगाणां यावनं (पृथक्करणं) च भयानाम् ।

अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः । सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥ ३ ॥

अ॒श्याम॑ । ते॒ । सु॒ऽम॒तिम् । दे॒व॒ऽय॒ज्यया॑ । क्ष॒यत्ऽवी॑रस्य । तव॑ । रु॒द्र॒ । मी॒ढ्वः॒ । सु॒म्न॒ऽयन् । इत् । विशः॑ । अ॒स्माक॑म् । आ । च॒र॒ । अरि॑ष्टऽवीराः । जु॒ह॒वा॒म॒ । ते॒ । ह॒विः ॥

O benevolent Rudra (रुद्र मीढ्वः)! May we attain (अश्याम) the favor of you, the waster of foes (तव क्षयद्वीरस्य सुमतिम्) through your worship (ते देवयज्यया)! Being our well wisher (सुम्नायन् इत्), come towards our people (अस्माकं विशः आ चर) so that, being unharmed (अरिष्टवीराः), we may make offerings to you (ते हविः जुहवाम)!

त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्‍कुं क॒विमव॑से॒ नि ह्व॑यामहे । आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥ ४ ॥

त्वे॒षम् । व॒यम् । रु॒द्रम् । य॒ज्ञ॒ऽसाध॑म् । व॒ङ्‍कुम् । क॒विम् । अव॑से । नि । ह्व॒या॒म॒हे॒ । आ॒रे । अ॒स्मत् । दैव्य॑म् । हेळः॑ । अ॒स्य॒तु॒ । सु॒ऽम॒तिम् । इत् । व॒यम् । अ॒स्य॒ । आ । वृ॒णी॒म॒हे॒ ॥

We constantly call on (वयं नि ह्वयामहे) the wise (कविम्), resplendent (त्वेषम्), Rudra (रुद्रम्), obtainable by worship (यज्ञसाधम्), and crooked (वङ्‍कुम्) (for enemies), for protection (अवसे). May he cast (अस्यतु) his divine anger (दैव्यं हेळः) far away from us (आते अस्मत्)! We ask (वयम् आ वृणीमहे) for his favor (अस्य सुमतिम् इत्)!

Note: वङ्‍कु – from वकि कौटिल्ये (to move in a crooked manner) + उ

दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे । हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ॥ ५ ॥

दि॒वः । व॒रा॒हम् । अ॒रु॒षम् । क॒प॒र्दिन॑म् । त्वे॒षम् । रू॒पम् । नम॑सा । नि । ह्व॒या॒म॒हे॒ । हस्ते॑ । बिभ्र॑त् । भे॒ष॒जा । वार्या॑णि । शर्म॑ । वर्म॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । यं॒स॒त् ॥

We constantly invite (नि ह्वयामहे) with obeisance (नमसा) from heaven (दिवः) the one who is strong as a wild-boar (वराहम्), shining (अरुषम्), with matted locks (कपर्दिनम्), with an effulgent form (त्वेषं रूपम्), holding in his hand (हस्ते बिभ्रत्) coveted remedies (वार्याणि भिषजा). May he give us (अस्मभ्यं यंसत्) happines (शर्म), protection (वर्म), and a (conducive) dwelling (छर्दिः)!

इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वच॑: स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नम् । रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ॥ ६ ॥

इ॒दम् । पि॒त्रे । म॒रुता॑म् । उ॒च्य॒ते॒ । वचः॑ । स्वा॒दोः । स्वादी॑यः । रु॒द्राय॑ । वर्ध॑नम् । रास्व॑ । च॒ । नः॒ । अ॒मृ॒त॒ । म॒र्त॒ऽभोज॑नम् । त्मने॑ । तो॒काय । तन॑याय । मृ॒ळ॒ ॥

This praise (इदं वचः), sweetest of the sweet ones (स्वादोः स्वादीयः), glorifying Rudra (रुद्राय वर्धनम्), is recited (उच्यते) for the father of the Maruts (मरुतां पित्रे) (i.e. Rudra). O immortal one (अमृत)! Grant us nourishment fit for mortals (मर्तभोजनं नः रास्व) and protect (मृळ च) me (त्मने), my sons (तोकाय), and my grandsons (तनयाय).

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ॥ ७ ॥

मा । नः॒ । म॒हान्त॑म् । उ॒त । मा । नः॒ । अ॒र्भ॒कम् । मा । नः॒ । उक्ष॑न्तम् । उ॒त । मा । नः॒ । उ॒क्षि॒तम् । मा । नः॒ । व॒धीः॒ । पि॒तर॑म् । मा । उ॒त । मा॒तर॑म् । मा । नः॒ । प्रि॒याः । त॒न्वः॑ । रु॒द्र॒ । रि॒रि॒षः॒ ॥

O Rudra (रुद्र)! Do not hurt (मा वधिः) our elders (महन्तम्), young ones (अर्भकम्), virile youth (उक्षन्तम्), embryos (उक्षितम्), father (पितरम्) and mother (मातरम्). Rudra (रुद्र)! Do not injure (मा रीरिषः) our dear bodies (नः प्रियाः तन्वः)!

मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्त॒: सद॒मित्त्वा॑ हवामहे ॥ ८ ॥

मा । नः॒ । तो॒के । तन॑ये । मा । नः॒ । आ॒यौ । मा । नः॒ । गोषु॑ । मा । नः॒ । अश्वे॑षु । रि॒रि॒षः॒ । वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म॑न्तः । सद॑म् । इत् । त्वा॒ । ह॒वा॒म॒हे॒ ॥

O Rudra (रुद्र)! Do not injure (मा रीरिषः) our son (तोके), grandson (तनये), life (आयौ), cattle (गोषु), and horses (अश्वेषु)! Do not hurt (मा वधीः) our warriors (वीरान्) out of rage (भामितः), we call on you (त्वा हवामहे) all the time (सदम् इत्)!

उप॑ ते॒ स्तोमा॑न्पशु॒पा इ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे । भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे ॥ ९ ॥

उप॑ । ते॒ । स्तोमा॑न् । प॒शु॒पाःऽइ॑व । आ । अ॒क॒र॒म् । रास्व॑ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । अ॒स्मे इति॑ । भ॒द्रा । हि । ते॒ । सु॒ऽमतिः । मृ॒ळ॒यत्ऽत॑मा । अथ॑ । व॒यम् । अवः॑ । इत् । ते॒ । वृ॒णी॒म॒हे॒ ॥

I dedicate (उप आकरम्) these praises to you (ते स्तोमान्), like a cowherd (पशुपाःइव) (see note below). O father of the Maruts (मरुतां पितः)! Give us happiness (अस्मे सुम्नं रास्व)! Your auspicious favor (ते भद्रा सुमतिः) is indeed most soothing (मृळयत्तमा हि), hence (अथ) we pray for (वयं वृणीमहे) your protection (ते अवः)!

Note: पशुपाःइव – just like a cowherd returns in the evening the cattle given to his charge in the morning, so too I return to you what you have yourself bestowed on me (Sāyaṇa).

आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु । मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च न॒: शर्म॑ यच्छ द्वि॒बर्हा॑: ॥ १० ॥

आ॒रे । ते॒ । गो॒ऽघ्नम् । उ॒त । पु॒रु॒ष॒ऽघ्नम् । क्षय॑त्ऽवीर । सु॒म्नम् । अ॒स्मे इति॑ । ते॒ । अ॒स्तु॒ । मृ॒ळ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ । अध॑ । च॒ । नः॒ । शर्म॑ । य॒च्छ॒ । द्वि॒ऽबर्हाः॑ ॥

O waster of foes (क्षयद्वीर)! May your (destructive power) that hurts cattle (ते गोघ्नम्) and people (उत पूरुषघ्नम्) be far away (आरे), and may the happiness you bestow be (ते सुम्नम् अस्तु) with us (अस्मे)! Lord (देव)! Be gracious towards us (नः मृळ), speak on our behalf (च नः अधि ब्रूहि), and grant us happiness (च नः शर्म यच्छ) in both worlds (द्विबर्हाः) (i.e. here and hereafter)!

अवो॑चाम॒ नमो॑ अस्मा अव॒स्यव॑: शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ ११ ॥

अवो॑चाम । नमः॑ । अ॒स्मै॒ । अ॒व॒स्यवः॑ । शृ॒णोतु॑ । नः॒ । हव॑म् । रु॒द्रः । म॒रुत्वा॑न् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

We, desirous of protection (अवस्यवः) recite this praise (नमः अवोचाम) for him (अस्मै). May Rudra, accompanied by the Maruts (मरुत्वान् रुद्रः), listen (शृणोतु) to this invocation of ours (नः हवम्)! May Mitra (मित्रः), Varuṇa (वरुणः), Aditi (अदितिः), the ocean (सिन्धुः), the earth (पृथिवी), and heaven (उत द्यौः) worship (मामहन्ताम्) (Rudra using this praise of ours)!

Notes

  • मामहन्ताम् – from मह पूजायाम् + (श्लु) + लोट् । लोटि ’बहुलं छन्दसि’ इति शपः श्लुः । तुजादित्वात् अभ्यासस्य दीर्घः (सायणः)
  • The second line of this verse is used by Kutsa as a refrain in several of his sūktas

RV1.113     RV1.115    RV Mandala 1      RigVeda

 

Advertisements