RV1.2

ऋषिः  – मधुच्छन्दाः वैश्वामित्रः । देवता – वायुः (1-3), इन्द्रवायू (4-6), मित्रावरुणौ (7-9) । छन्दः –  गायत्री ।

वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः । तेषां॑ पाहि श्रु॒धी हव॑म् ॥ 1 ॥

वायो॒ इति॑ । आ । या॒हि॒ । द॒र्श॒त॒ । इ॒मे । सोमाः॑ । अरं॑ऽकृताः । तेषा॑म् । पा॒हि॒ । श्रु॒धि । हव॑म् ॥

O handsome Vāyu (दर्शत वायो)! Come (आ याहि), these offerings of Soma (इमे सोमाः) have been prepared  (अरंकृताः) for you.  Hear our invitation (श्रुधि हवम्) and partake of them (तेषाम् पाहि)!

Notes

  • अरंकृताः = अलंकृताः (छान्दसो रेफादेशः)
  • हवम् = ह्वेञ् स्पर्धायाम् शब्दे च , सम्प्रसारणम् [by बहुलं छन्दसि (६।१।३४)] + अप् [by ॠदोरप् (३।३।५७)]

वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तार॑: । सु॒तसो॑मा अह॒र्विद॑: ॥ 2 ॥

वायो॒ इति॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ । त्वाम् । अच्छ॑ । ज॒रि॒तारः॑ । सु॒तऽसो॑माः । अ॒हः॒ऽविदः॑ ॥

O Vāyu (वायो)! The praisers (जरितारः), knowers of the ritual (अहर्विदः), with extracted soma (सुतसोमाः), praise you (जरन्ते) with adorations (उक्थेभिः) intended for you (त्वाम् अच्छ).

Note: अहर्विदः – अहःशब्द एकेनाह्ना निष्पाद्येऽग्निष्टोमादिक्रतौ वैदिकव्यवहारेण प्रसिद्धः (सायणः)

वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ । उ॒रू॒ची सोम॑पीतये ॥ 3 ॥

वायो॒ इति॑ । तव॑ । प्र॒ऽपृ॒ञ्च॒ती । धेना॑ । जि॒गा॒ति॒ । दा॒शुषे॑ । उ॒रू॒ची । सोम॑ऽपीतये ॥

O Vāyu (वायो)! Your speech (तव धेना), requesting soma (सोमपीतये), goes towards (जिगाति) the liberal patron (दाशुषे) – the speech that extols soma (प्रपृञ्चती) and that goes to many patrons (उरूची).

Notes

  • प्रपृञ्चती – प्रकर्षेण सोमसंपर्कं कुर्वती सोमगुणं वर्णयतीत्यर्थः
  • उरूची – उरून् बहून् यजमानान् गच्छन्ती

इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि ॥ 4 ॥

इन्द्र॑वायू॒ इति॑ । इ॒मे । सु॒ताः । उप॑ । प्रयः॑ऽभिः । आ । ग॒त॒म् । इन्द॑वः । वाम् । उ॒शन्ति॑ । हि ॥

O Indra and Vāyu (इन्द्रवायू)! These soma offerings have been pressed out (इमे सुताः) for you, come to us (उप आ गतम्) with food (प्रयोभिः), for (हि) the soma offerings (इन्दवः) long for you (वाम् उशन्ति)!

Notes

  • प्रयोभिः – प्रीणयन्ति भोक्तॄनिति प्रयांस्यन्नानि । प्रीञ्धातोरन्तर्भावितण्यर्थात् असुन् प्रत्ययः – प्री + (णिच्) + अस् = प्रयः ।
  • इन्दुः – उन्दी क्लेदने + उन् [by उन्देरिच्चादेः (उ० १२)] = उन्द् + उ = इन्द् + उ = इन्दुः (उनत्ति इति)

वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू । तावा या॑त॒मुप॑ द्र॒वत् ॥ 5 ॥

वायो॒ इति॑ । इन्द्रः॑ । च॒ । चे॒त॒थः॒ । सु॒ताना॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । तौ । आ । या॒त॒म् । उप॑ । द्र॒वत् ॥

O Vāyu (वायो)!  You along with Indra (इन्द्रः च), who dwell in the sacrifice (वाजिनीवसू) are well acquainted with the extracted soma (सुतानाम् चेतथः).  Being such (तौ), come here (उप आ यातम्) in haste (द्रवत्)!

Notes

  • वाजिनीवसू – वाजोऽन्नम् । तद्यस्यां हविः संततावस्ति सा वाजिनी (यज्ञः) । तस्याम् वसत इति तौ वाजिनीवसू ।
  • द्रवत् – listed among the 26 names for “quick” (षड्विंशतिः क्षिप्रनामानि) in Nighaṇṭu 2.15.3

वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् । म॒क्ष्वि१त्था धि॒या न॑रा ॥ 6 ॥

वायो॒ इति॑ । इन्द्रः॑ । च॒ । सु॒न्व॒तः । आ । या॒त॒म् । उप॑ । निः॒ऽकृ॒तम् । म॒क्षु । इ॒त्था । धि॒या । न॒रा॒ ॥

O Vāyu (वायो)!  You along with Indra (इन्द्रः च) come (उप आ यातम्) to (accept) the ritually prepared (soma) (निष्कृतम्) of the soma-presser (सुन्वतः) (i.e. worshiper). O men (नरा)! Certainly (इत्था) (the result is) quickly achieved (मक्षु) by this rite (धिया)!

Note: मक्षु – listed among the 26 names for “quick” (षड्विंशतिः क्षिप्रनामानि) in Nighaṇṭu 2.15.3

मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् । धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥ 7 ॥

मि॒त्रम् । हु॒वे॒ । पू॒तऽद॑क्षम् । वरु॑णम् । च॒ । रि॒शाद॑सम् । धिय॑म् । घृ॒ताची॑म् । साध॑न्ता ॥

I invoke (हुवे) (in this rite) Mitra (मित्रम्) of pure vigor (पूतदक्षम्) and Varuṇa (वरुणम् च), the destroyer of foes (रिशादसम्), and those who accomplish (साधन्ता) the work (धियम्) of causing the waters to fall (घृताचीम्) (i.e. rain).

Notes

  • रिशादसम् – रिशन्ति हिंसन्तीति रिशाः शत्रवः । तानत्तीति रिशादाः , तम् ।
  • घृताचीम् – घृतमुदकमञ्चति भूमिं प्रापयति

ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा । क्रतुं॑ बृ॒हन्त॑माशाथे ॥ 8 ॥

ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽवृ॒धौ॒ । ऋ॒त॒ऽस्पृ॒शा॒ । क्रतु॑म् । बृ॒हन्त॑म् । आ॒शा॒थे॒ इति॑ ॥

O Mitra and Varuṇa (मित्रावरुणौ)!  Being upholders of the truth (ऋतावृधौ) and connected with truth (ऋतस्पृशा), you by your true word (ऋतेन) accomplish (आशाथे) this magnificent work (बृहन्तम् क्रतुम्)!

NoteSāyaṇa interprets ऋतम् as “water”, but “truth” seems more appropriate

क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ । दक्षं॑ दधाते अ॒पस॑म् ॥ 9 ॥

क॒वी इति॑ । नः॒ । मि॒त्रावरु॑णा । तु॒वि॒ऽजा॒तौ । उ॒रु॒ऽक्षया॑ । दक्ष॑म् । द॒धा॒ते॒ इति॑ । अ॒पस॑म् ॥

The wise (कवी) Mitra and Varuṇa (मित्रावरुणा), born for the benefit of many (तुविजातौ), dwelling in many places (उरुक्षया) nurture (दधाते) our skill (दक्षम्) and work (अपसम्).

Notes

  • तुविजातौ – बहूनामुपकारकतया समुत्पन्नौ
  • उरुक्षया – बहुनिवासौ

RV1.1     RV1.3     RV Mandala 1     RigVeda
Advertisements