RV1.24

ऋषिः  – शुनःशेपः आजीगर्तिः । देवता -प्रजापतिः (1), अग्निः (2), सविता (3-4), स्विता भगः वा (5), वरुणः (6-15) । छन्दः – त्रिष्टुप् (1,2,6-15), गायत्री (3-5) ।

प्रथममण्डलस्य षष्ठे अनुवाके सप्त सूक्तानि । तत्र ’कस्य नूनम्’ इति पञ्चदशर्चम् प्रथमं सूक्तम् । अजीगर्तपुत्रस्य शुनःशेपस्य त्रैष्टुभम् । ’अभि त्वा देव’ इति तृचो गायत्र्यः । आद्याया अनिरुक्तत्वात् प्रजापतिर्देवता । ’अग्नेर्वयम्’ इस्त्यस्य अग्निः । ’अभि त्वा देव’ इत्यस्य तृचस्य सविता । ’भगभक्तस्य’ इत्येषा भगदेवताकावा । शेषो वारुण्यः । तथा च अनुक्रान्तं – ’कस्य पञ्चोनाजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातो वारुणं तु त्रैष्टुभमादौ काय्यामाग्नेय्यौ सावित्रस्तृचो गायत्रोऽस्यांत्या भागी वा ’ इति । राजसूये अभिषेचनीयेऽहनि मरुत्वतीये परिसमाप्ते सति एतदादिकं सूक्तसप्तकम् अभिषिक्तस्य पुत्रादिभिः परिवृतस्य राज्ञः पुरस्तात् होत्राख्यातव्यम् । तथा च सूत्रेऽभिहितम् – ’संस्थिते मरुत्वतीये दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामात्यपरिवृताय राज्ञे शौनःशेपमाचक्षीत (आश्व. श्रौ. ९.३) इति । ब्राह्मणं च भवति – ’तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानम्। तद्धोता राज्ञेऽभिषिक्तायाऽऽचष्टे। हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति ’ (ऐ. ब्रा. ७.१८) इति ॥

This is the first among several hymns attributed to Śunaḥśepa, who has an interesting story, as narrated in the Aitareya Brāhmaṇa (Chapter 33).  It starts and ends by a prayer to return to Aditi (meaning unbroken), generally meaning “earth”, but also identified with everything as in RV 1.89.10 – something like Brahman of the Upaniṣads.   Parts of the hymn are full of pathos, representing the pleas of a man bound by his sins with a prayer to be released from them. Verse 8, for example, indicates that he faces mental torment. The three bonds are interpreted literally in the Aitareya Brāhmaṇa, although they can also be interpreted symbolically, representing the अधिभौतिकम्, अधिदैविकम्,  and अध्यात्मिकम् ।

कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥ १ ॥

कस्य॑ । नू॒नम् । क॒त॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ । कः । नः॑ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥

Among the immortals (अमृतानाम्) , the auspicious name (चारु नाम) of which god (कस्य देवस्य) among them (कतमस्य) should we indeed take (नूनम् मनामहे) ? Who will return us (कः नः पुनः दात्) to the great Aditi (मह्यै अदितये) so that I can see my father (पितरम् दृशेयम्) and mother (मातरम् च)?

Commentary
The word कः also refers to Prajāpati – को वै नाम प्रजापतिः (ऐ. ब्रा. ३.२१) and could be interpreted that way; however the use of कतमस्य (whose among the many) suggests that कः should be taken in the normal sense as meaning “who”. The father cannot possibly be Ajīgarta, who was rejected by Śunaḥśepa for having sold him and also agreeing to sacrifice him for a fee. Aditi is also referred to in the last verse, with a prayer that he may return, freed from sin, to her.

अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥ २ ॥

अ॒ग्नेः । व॒यम् । प्र॒थ॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ । सः । नः॑ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥

Among the immortals (अमृतानाम्) , we take (वयम् मनामहे) the auspicious name (चारु नाम) of Agni (अग्नेः) , the first among them (प्रथमस्य) . He will return us (सः नः पुनः दात्) to the great Aditi (मह्यै अदितये) so that I can see my father (पितरम् दृशेयम्) and mother (मातरम् च).

Commentary
As per the Aitareya Brāhmaṇa (33.4), Prajāpati advises Śunaḥśepa to first approach Agni.

अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् । सदा॑वन्भा॒गमी॑महे ॥ ३ ॥

अ॒भि । त्वा॒ । दे॒व॒ । स॒वि॒तः॒ । ईशा॑नम् । वार्या॑णाम् । सदा॑ । अ॒व॒न् । भा॒गम् । ई॒म॒हे॒ ॥

O Lord Savitṛ (देव सवितः), the constant protector (सदा अवन्)! We beseech you (त्वा), who are the lord of all that is desirable (वार्याणाम् इशानम्) for wealth (भागम् अभि ईमहे).

यश्चि॒द्धि त॑ इ॒त्था भग॑: शशमा॒नः पु॒रा नि॒दः । अ॒द्वे॒षो हस्त॑योर्द॒धे ॥ ४ ॥

यः । चि॒त् । हि । ते॒ । इ॒त्था । भगः॑ । श॒श॒मा॒नः । पु॒रा । नि॒दः । अ॒द्वे॒षः । हस्त॑योः । द॒धे ॥

(We also desire) the praiseworthy (इत्था शशमानः) wealth (यः भगः चित् हि) , free of censure and hostility (पुरा निदः अद्वेषः), that you, hold in your hands (हस्तयोः दधे).

Commentary
Sāyaṇa explains that wealth, once it falls in the hands of enemies, becomes blameworthy, hence the votary seeks the wealth that is untainted.

भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा । मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥ ५ ॥

भग॑ऽभक्तस्य । ते॒ । व॒यम् । उत् । अ॒शे॒म॒ । तव॑ । अव॑सा । मू॒र्धान॑म् । रा॒यः । आ॒ऽरभे॑ ॥

(O Savitṛ) May we (वयम्), by your, the wealthy one’s (ते भगभक्तस्य) protection (तव अवसा) , become exalted (उत् अशेम) (so as) to ascend (आरभे) the pinnacle of wealth (रायः मूर्धानम्)!

न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः । नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥ ६ ॥

न॒हि । ते॒ । क्ष॒त्रम् । न । सहः॑ । न । म॒न्युम् । वयः॑ । च॒न । अ॒मी इति॑ । प॒तय॑न्तः । आ॒पुः । न । इ॒माः । आपः॑ । अ॒नि॒ऽमि॒षम् । चर॑न्तीः । न । ये । वात॑स्य । प्र॒ऽमि॒नन्ति॑ । अभ्व॑म् ॥

Neither (न हि) have these birds (अमी पतयन्तः) , nor the ceaselessly flowing waters (न इमाः अनिमिषम् चरन्तीः आपः), nor (the hills) that limit the speed of the wind (न ये वातस्य प्रमिनन्ति अभ्वम्) have attained (आपुः) your valor (क्षत्रम्), power (सहः), or fury (मन्युम्).

Commentary
This and the following thirty verses are addressed to Varuṇa, as described in the Aitareya Brāhmaṇa: तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोऽसि तमेवोपधावेति स वरुणं राजानमुपससारात उत्तराभिरेकत्रिंशता ॥ (AB 33.3)

अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः । नी॒चीना॑: स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तव॑: स्युः ॥ ७ ॥

अ॒बु॒ध्ने । राजा॑ । वरु॑णः । वन॑स्य । ऊ॒र्ध्वम् । स्तूप॑म् । द॒द॒ते॒ । पू॒तऽद॑क्षः ।
नी॒चीनाः॑ । स्थुः॒ । उ॒परि॑ । बु॒ध्नः । ए॒षा॒म् । अ॒स्मे इति॑ । अ॒न्तः । निऽहि॑ताः । के॒तवः॑ । स्यु॒रिति॑ स्युः ॥

The skillful king Varuṇa (पूतदक्षः राजा वरुणः) sustains (ददते) a venerable effulgence (वनस्य स्तूपम्) up (ऊर्ध्वम्) in the baseless (sky) (अबुध्ने). These (rays) , whose source is above (उपरि बुध्नम्), move downward (एषाम् नीचीना स्थुः) , and these rays (केतवः) are absorbed within us (अस्मे अन्तः निहिताः स्युः).

उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥ ८ ॥

उ॒रुम् । हि । राजा॑ । वरु॑णः । च॒कार॑ । सूर्या॑य । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊँ॒ इति॑ । अ॒पदे॑ । पादा॑ । प्रति॑ऽधातवे । अ॒कः॒ । उ॒त । अ॒प॒ऽव॒क्ता । हृ॒द॒य॒ऽविधः॑ । चित् ॥

King Varuṇa (राजा वरुणः) has made a wide path (उरुम् पन्थाम् चकार हि) for the sun to travel along (सूर्याय अन्वेतवै उ). He has prepared (अकः), in the pathless region (अपदे) a way to place footsteps (पादा प्रतिधातवे); moreover (उत), he speaks against the one (अपवक्ता) who torments us mentally (हृदयाविधः चित्).

श॒तं ते॑ राजन्भि॒षज॑: स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व दू॒रे निॠ॑तिं परा॒चैः कृ॒तं चि॒देन॒: प्र मु॑मुग्ध्य॒स्मत् ॥ ९ ॥

श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः॑ । स॒हस्र॑म् । उ॒र्वी । ग॒भी॒रा । सु॒ऽम॒तिः । ते॒ । अ॒स्तु॒ । बाध॑स्व । दू॒रे । निःऽऋ॑तिम् । परा॒चैः । कृ॒तम् । चि॒त् । एनः॒ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥

O king (राजन्) (Varuṇa)! Your remedies (ते भिषजः) number in the hundreds (शतम्), nay thousands (सहस्रम्)! May your benevolence (ते सुमतिः) be wide and deep (उर्वी गभीरा अस्तु)! Banish misfortune (निःऋतिम् दूरे बाधस्व) by turning it away (पराचैः), and release from us (अस्मत् प्र मुमुग्धि ) the sins we have committed (कृतम् एनः चित् )!

अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥ १० ॥

अ॒मी इति॑ । ये । ऋक्षाः॑ । निऽहि॑तासः । उ॒च्चा । नक्त॑म् । ददृ॑श्रे । कुह॑ । चि॒त् । दिवा॑ । ई॒युः॒ । अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । वि॒ऽचाक॑शत् । च॒न्द्रमाः॑ । नक्त॑म् । ए॒ति॒ ॥

These stars (अमी ऋक्षाः) that are placed high up (ये उच्चा निहितासः) are seen at night (नक्तम् ददृश्रे ) – where do they go (कुह चित् ईयुः) during daytime (दिवा)? Varuṇa’s laws (वरुणस्य व्रतानि) are immutable (अदब्धानि) , and the radiant moon (विचाकशत् चन्द्रमाः) traverses (the sky) at night (नक्तम् एति).

तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: । अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयु॒: प्र मो॑षीः ॥ ११ ॥

तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ । अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस । मा । नः॒ । आयुः॑ । प्र । मो॒षीः॒ ॥

O Varuṇa (वरुण)! I ask that (life) from you (तत् त्वा यामि ), praised by my hymn (ब्रह्मणा वन्दमानः), and that is what the worshipper prays for (तत् यजमानः आ शास्ते) through offerings (हविःर्भिः )! Turn your attention here (इह बोधि ) without neglecting us (अहेळमानः), and do not steal away (मा प्र मोषीः ) our life (नः आयुः)!

तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे । शुन॒:शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥ १२ ॥

तत् । इत् । नक्त॑म् । तत् । दिवा॑ । मह्य॑म् । आ॒हुः॒ । तत् । अ॒यम् । केतः॑ । हृ॒दः । आ । वि । च॒ष्टे॒ । शुनः॒शेपः॑ । यम् । अह्व॑त् । गृ॒भी॒तः । सः । अ॒स्मान् । राजा॑ । वरु॑णः । मु॒मो॒क्तु॒ ॥

They tell me (मह्यम् आहुः ) this at night (तत् इत् नक्तम्) and at daytime (तत् दिवा), and this knowledge ( तत् अयम् केतः ) dawns in my heart ( हृदः आ वि चष्टे) – that whom (यम्) the bound Śunaḥśepa (गृभीतः शुनःशेपः ) calls on (अह्वत्) – may that king Varuṇa (सः राजा वरुणः) free us (अस्मान् मुमोक्तु)!

शुन॒:शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः । अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥ १३ ॥

शुनः॒शेपः॑ । हि । अह्व॑त् । गृ॒भी॒तः । त्रि॒षु । आ॒दि॒त्यम् । द्रु॒ऽप॒देषु॑ । ब॒द्धः । अव॑ । ए॒न॒म् । राजा॑ । वरु॑णः । स॒सृ॒ज्या॒त् । वि॒द्वान् । अद॑ब्धः । वि । मु॒मो॒क्तु॒ । पाशा॑न् ॥

The shackled Śunaḥśepa (गृभीतः शुनःशेपः ), bound to the wooden stake at three places (त्रिषु द्रुपदेषु बद्धः ) (i.e. head, torso, and feet) , calls on the son of Aditi (आदित्यम् अह्वत्) (i.e. Varuṇa), so that (हि) the wise (विद्वान्) and unimpeded (अदब्धः) king Varuṇa (राजा वरुणः) may free him (ससृज्यात्) and release his bonds (मुमोक्तु पाशान्)!

Note: द्रुपदेषु – द्रोः काष्ठस्य यूपस्य पदेषु प्रदेशविशेषेषु (सायणः) – in the three regions of a wooden stake

अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भि॑: । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥ १४ ॥

अव॑ । ते॒ । हेळः॑ । व॒रु॒ण॒ । नमः॑ऽभिः । अव॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विःऽभिः॑ । क्षय॑न् । अ॒स्मभ्य॑म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । राज॑न् । एनां॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥

O Varuṇa (वरुण)! We bring down (अव ईमहे) your anger (हेळः) through obeisance (नमोभिः), worship (यज्ञेभिः), and offerings (हविर्भिः)! O wise king (प्रचेतः । राजन् ), giver of life (असुर)! Dwelling (here) for us (अस्मभ्यम् क्षयन्), loosen (शिश्रथः) (the bonds of) our sinful deeds (कृतानि एनांसि)!

Note:  असुर here means “the one who gives life” (असून् राति) , from असु (breath or life), and रा (to give).  This term is used as an adjective for many gods in the Ṛgveda .

उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥ १५ ॥

उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒यमम् । श्र॒थ॒य॒ । अथ॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥

O Varuṇa (वरुण)! Loosen (श्रथाय) the upper (उत्तमम्), lower (अधमम्), and middle bonds (मध्यमम्) from us (अस्मत्)! Then (अथ) O son of Aditi (आदित्य)! May we (वयम्), in your divine law ( तव व्रते), be free of sin for Aditi (अनागसः स्याम)!

Note: The qualifiers उत्, अव, and वि (for श्रथाय), indicates the direction in which the bonds are removed – upwards, downwards, and away.


RV1.23     RV1.25    RV Mandala 1      RigVeda
Advertisements