RV1.25

ऋषिः  – शुनःशेपः आजीगर्तिः । देवता – वरुणः । छन्दः – गायत्री ।

’यच्चित्’ इति एकविंशत्यृचं द्वितीयं सूक्तम् । तथा चानुक्रान्तम् – ’यच्चित्सैका ’ इति । ’ऋषिश्चान्यस्मात्’ इति परिभाषया शुनःशेप एव ऋषिः । ’आदौ गायत्रम्’ इति परिभाषितत्वात् गायत्री छन्दः । ’वारुणं तु’ इति पूर्वोक्तत्वात् तुह्यादिपरिभाषया (अनु. १२.३) वरुणो देवता । विनियोग शौनःशेपाख्याने । विशेषविनियोगस्तु – अभिप्लवषडहे इदं सूक्तं होत्रकशस्त्रे स्तोमनिमित्तमावापार्थम् । ’अभिप्लवपृष्ठ्याहानि’ इति खण्डे तथैव सूत्रितं – ’यच्चिद्धि ते विश इति वारुणमेतस्य तृचमावपेत मैत्रावरुणः (आश्व्. श्रौ. ७.५) इति ॥

This entire hymn is addressed to Varuṇa.  The concept of Varuṇa that comes across is that of one who is omniscient  and also the administrator of the moral law that governs this world.  Therefore any breaking of this law is considered to be a transgression against  Varuṇa and consequently invites his wrath.  The votary acknowledges his faults, calls on Varuṇa, and implore him to release him from his bonds.

Verse 8 has a reference to the extra intercalary month, or adhikamāsa.

यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् । मि॒नी॒मसि॒ द्यवि॑द्यवि ॥ १ ॥

यत् । चि॒त् । हि । ते॒ । विशः॑ । य॒था॒ । प्र । दे॒व॒ । व॒रु॒ण॒ । व्र॒तम् । मि॒नी॒मसि॑ । द्यवि॑ऽद्यवि ॥

O Varuṇa (वरुण)! Whatever law of yours (यत् चित् हि ते व्रतम्) that we, as your subjects (विशः) disregard every day (यथा द्यविद्यवि मनीमसि), …

मा नो॑ व॒धाय॑ ह॒त्नवे॑ जिहीळा॒नस्य॑ रीरधः । मा हृ॑णा॒नस्य॑ म॒न्यवे॑ ॥ २ ॥

मा । नः॒ । व॒धाय॑ । ह॒त्नवे॑ । जि॒ही॒ळा॒नस्य॑ । री॒र॒धः॒ । मा । हृ॒णा॒नस्य॑ । म॒न्यवे॑ ॥

… do not prepare us(नः मा रीरधः) for death (वधाय) by the one who has been transgressed, intent on slaying (जिहीळानस्य हत्नवे) , nor for the anger (मन्यवे) of the displeased (हृणानस्य).

वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम् । गी॒र्भिर्व॑रुण सीमहि ॥ ३ ॥

वि । मृ॒ळी॒काय॑ । ते॒ । मनः॑ । र॒थीः । अश्व॑म् । न । सम्ऽदि॑तम् । गी॒र्भिः । व॒रु॒ण॒ । सी॒म॒हि॒ ॥

O Varuṇa (वरुण)! For our happiness (मृळीकाय), we bind (वि सीमहि) your heart (ते मनः) (i.e. gratify you) with praise (गीर्भिः), just as a charioteer (रथीः) (gratifies) his tired (संदितम्) horse (अश्वम् न) (by giving it grass etc.)

परा॒ हि मे॒ विम॑न्यव॒: पत॑न्ति॒ वस्य॑इष्टये । वयो॒ न व॑स॒तीरुप॑ ॥ ४ ॥

परा॑ । हि । मे॒ । विऽम॑न्यवः । पत॑न्ति । वस्यः॑ऽइष्टये । वयः॑ । न । व॒स॒तीः । उप॑ ॥

My peaceful thoughts (विमन्यवः) , desirous of prosperity (वस्य‍इष्टये), travel onward (परा पतन्ति), like a bird (वयः न) from its nests (वसतीः उप).

क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे । मृ॒ळी॒कायो॑रु॒चक्ष॑सम् ॥ ५ ॥

क॒दा । क्ष॒त्र॒ऽश्रिय॑म् । नर॑म् । आ । वरु॑णम् । क॒रा॒म॒हे॒ । मृ॒ळी॒काय॑ । उ॒रु॒ऽचक्ष॑सम् ॥

For our happiness (मृळीकाय), when shall we bring here (कदा आ करामहे) the powerful Varuṇa (क्षत्रश्रियम् वरुणम्), the one who watches everyone (उरुचक्षसम्)?

तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः । धृ॒तव्र॑ताय दा॒शुषे॑ ॥ ६ ॥

तत् । इत् । स॒मा॒नम् । आ॒शा॒ते॒ इति॑ । वेन॑न्ता । न । प्र । यु॒च्छ॒तः॒ । धृ॒तऽव्र॑ताय । दा॒शुषे॑ ॥

(Mitra and Varuṇa), favoring (वेनन्ता) the resolute worshipper (धृतव्रताय दाशुषे), equally partake (तत् इत् समानम् आशाते) of (our offerings), and never fail us (न प्र युच्छतः).

Note: युच्छतः, from युच्छ प्रमादे – to neglect

वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् । वेद॑ ना॒वः स॑मु॒द्रिय॑: ॥ ७ ॥

वेद॑ । यः । वी॒नाम् । प॒दम् । अ॒न्तरि॑क्षेण । पत॑ताम् । वेद॑ । ना॒वः । स॒मु॒द्रियः॑ ॥

Who knows (यः वेद) the path of the birds (वीनाम् पदम्) flying in the sky (अन्तरिक्षेण पतताम्), and that of the sea-faring ship (वेद नावः समुद्रियः),

वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः । वेदा॒ य उ॑प॒जाय॑ते ॥ ८ ॥

वेद॑ । मा॒सः । धृ॒तऽव्र॑तः । द्वाद॑श । प्र॒जाऽव॑तः । वेद॑ । यः । उ॒प॒ऽजाय॑ते ॥

The resolute one (धृतव्रतः) who (यः) knows the twelve months (द्वादश मासः), which their progeny (प्रजावतः), as well as the (additional) one that is born (वेद यः उपजायते),

Note: The months are considered to be with progeny because they give birth to an extra lunar month (अधिकमासः) which is added approximately once in five years to synchronize the lunar calendar with the solar calendar.

वेद॒ वात॑स्य वर्त॒निमु॒रोॠ॒ष्वस्य॑ बृह॒तः । वेदा॒ ये अ॒ध्यास॑ते ॥ ९ ॥

वेद॑ । वात॑स्य । व॒र्त॒निम् । उ॒रोः । ऋ॒ष्वस्य॑ । बृ॒ह॒तः । वेद॑ । ये । अ॒धि॒ऽआस॑ते ॥

He knows the path (वर्तनिम्) of the spreading (उरोः), delightful (ऋष्वस्य), and mighty (बृहतः) wind (वातस्य), and knows the gods that rule (वेद ये अध्यासते),

नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३स्वा । साम्रा॑ज्याय सु॒क्रतु॑: ॥ १० ॥

नि । स॒सा॒द॒ । धृ॒तऽव्र॑तः । वरु॑णः । प॒स्त्या॑सु । आ । साम्ऽरा॑ज्याय । सु॒ऽक्रतुः॑ ॥

That resolute Varuṇa (धृतव्रतः वरुणः) of good deeds (सुक्रतुः) has come and taken his seat (आ निषसाद) amidst his subjects (पस्त्यासु) for their governance (साम्राज्याय).

अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति । कृ॒तानि॒ या च॒ कर्त्वा॑ ॥ ११ ॥

अतः॑ । विश्वा॑नि । अद्भु॑ता । चि॒कि॒त्वान् । अ॒भि । प॒श्य॒ति॒ । कृ॒तानि॑ । या । च॒ । कर्त्वा॑ ॥

From him (अतः) come all the wondrous things (विश्वानि अद्भुता). The wise (चिकित्वान्) (Varuṇa) beholds (अभि पश्यति) all that has been done (या कृतानि) and whatever has to be done (च कर्त्वा).

स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् । प्र ण॒ आयूं॑षि तारिषत् ॥ १२ ॥

सः । नः॒ । वि॒श्वाहा॑ । सु॒ऽक्रतुः॑ । आ॒दि॒त्यः । सु॒ऽपथा॑ । क॒र॒त् । प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥

May that Āditya (सः आदित्यः) (i.e. Varuṇa) of good deeds (सुक्रतुः) set us on the right path (नः सुपथा करत्) every day (विश्वहा), and extend (प्र तारिषत्) our lives (नः आयूंषि)!

बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिज॑म् । परि॒ स्पशो॒ नि षे॑दिरे ॥ १३ ॥

बिभ्र॑त् । द्रा॒पिम् । हि॒र॒ण्यय॑म् । वरु॑णः । व॒स्त॒ । निः॒ऽनिज॑म् । परि॑ । स्पशः॑ । नि । से॒दि॒रे॒ ॥

Wearing golden armor (हिरण्ययम् द्रापिम् बिभ्रत्), Varuṇa (वरुणः) covers his form (निर्णिजम् वस्त), and rays of light (स्पशः) scattered all around (परि निषेदिरे).

न यं दिप्स॑न्ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नाम् । न दे॒वम॒भिमा॑तयः ॥ १४ ॥

न । यम् । दिप्स॑न्ति । दि॒प्सवः॑ । न । द्रुह्वा॑णः । जना॑नाम् । न । दे॒वम् । अ॒भिऽमा॑तयः ॥

Whom (यम् देवम्) neither enemies (दिप्सवः) harm (न दिप्सन्ति), nor tormentors of people (न जनानाम् द्रुह्वाणः), nor sinners (न अभिमातयः).

उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या । अ॒स्माक॑मु॒दरे॒ष्वा ॥ १५ ॥

उ॒त । यः । मानु॑षेषु । आ । यशः॑ । च॒क्रे । असा॑मि । आ । अ॒स्माक॑म् । उ॒दरे॑षु । आ ॥

And who (उत यः) created (आ चक्रे) plentiful (असामि) food (यशः) for all people (मानुषेषु), and in particular for our stomachs (अस्माकम् उदरेषु).

Note: Here यशः means food, derived from अश् (to eat). The particle आ, qualifying चक्रे gives the meaning of “all around” or “completely”.

परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ । इ॒च्छन्ती॑रुरु॒चक्ष॑सम् ॥ १६ ॥

पराः॑ । मे॒ । य॒न्ति॒ । धी॒तयः॑ । गावः॑ । न । गव्यू॑तीः । अनु॑ । इ॒च्छन्तीः॑ । उ॒रु॒ऽचक्ष॑सम् ॥

My thoughts (मे धीतयः), desiring the one who watches all (उरुचक्षसम् इच्छन्तीः), move onward (परा यन्ति), like cows (गावः न) towards the cow-pen (गव्यूतीः अनु).

सं नु वो॑चावहै॒ पुन॒र्यतो॑ मे॒ मध्वाभृ॑तम् । होते॑व॒ क्षद॑से प्रि॒यम् ॥ १७ ॥

सम् । नु । वो॒चा॒व॒है॒ । पुनः॑ । यतः॑ । मे॒ । मधु॑ । आऽभृ॑तम् । होता॑ऽइव । क्षद॑से । प्रि॒यम् ॥

After (यतः) my sweet offering is brought (मे मधु आभृतम्), and you, like the invoker (होता इव) have eaten your desired offering (प्रियम् क्षदसे), let us again (पुनः) converse together (सम् नु वोचावहै).

दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ । ए॒ता जु॑षत मे॒ गिर॑: ॥ १८ ॥

दर्श॑म् । नु । वि॒श्वऽद॑र्शतम् । दर्श॑म् । रथ॑म् । अधि॑ । क्षमि॑ । ए॒ताः । जु॒ष॒त॒ । मे॒ । गिरः॑ ॥

I have seen (दर्शम् नु) the one who all desire to see (विश्वदर्शतम्), and I have seen (देर्शम्) his chariot (रथम्) on the earth (अधि क्षमि). These adorations of mine (एताः मे गिरः) have delighted him (जुषत).

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥ १९ ॥

इ॒मम् । मे॒ । व॒रु॒ण॒ । श्रुधि॑ । हव॑म् । अ॒द्य । च॒ । मृ॒ळ॒य॒ । त्वाम् । अ॒व॒स्युः । आ । च॒के॒ ॥

O Varuṇa (वरुण)! Listen (श्रुधि) to this call of mine (इमम् मे हवम्) and (च) delight (मृळय) me today (अद्य)! Desirous of protection (अवस्युः), I praise you (त्वाम् आ चके)!

त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि । स याम॑नि॒ प्रति॑ श्रुधि ॥ २० ॥

त्वम् । विश्व॑स्य । मे॒धि॒र॒ । दि॒वः । च॒ । ग्मः । च॒ । रा॒ज॒सि॒ । सः । याम॑नि॒ । प्रति॑ । श्रु॒धि॒ ॥

O wise one (मेधिर)! You shine (राजसि) (in the midst) of earth (ग्मः), heaven (दिवः), and the entire world (च विश्वस्य). Being such (सः), acknowledge me (प्रति श्रुधि) while on your way (यामनि).

उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं॑ मध्य॒मं चृ॑त । अवा॑ध॒मानि॑ जी॒वसे॑ ॥ २१ ॥

उत् । उ॒त्ऽत॒मम् । मु॒मु॒ग्धि॒ । नः॒ । वि । पाश॑म् । म॒ध्य॒मम् । चृ॒त॒ । अव॑ । अ॒ध॒मानि॑ । जी॒वसे॑ ॥

Release (उत् मुमुग्धि) the upper bond (उत्तमम् पाशम्), break (वि चृत) the middle bond (मध्यमम्) and the lower bonds (अधमानि), so that I can live (जीवसे)!

Commentary: The reference to these bonds could be symbolic (meaning strong, less strong, and weak), based on the content of the rest of the hymn.


RV1.24     RV1.26    RV Mandala 1      RigVeda
Advertisements