RV1.26

ऋषिः  – शुनःशेपः आजीगर्तिः । देवता – अग्निः । छन्दः – गायत्री ।

’वसिष्व’ इति दशर्चं तृतीयं सूक्तम् । अत्रानुक्रम्यते ’वसिष्व दशाग्नेयं तु’ इति । शुनःशेपः ऋषिः । गायत्री छन्दः । इदमुत्तरं च सूक्तम् आग्नेयम् । प्रातरनुवाके आग्नेये क्रतौ गायत्रे छन्दसि एतदादिसूक्तद्वयमनुवक्तव्यम् । तथा च सूत्रितं – ’वसिष्वा हीति सूक्तयोरुत्तमामुद्धरेत्’ (आश्व. श्रौ. ४.१३) इति ॥

This is the third hymn of Śunaḥśepa and is addressed to Agni.

वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते । सेमं नो॑ अध्व॒रं य॑ज ॥ १॥

वसि॑ष्व । हि । मि॒ये॒ध्य॒ । वस्त्रा॑णि । ऊ॒र्जा॒म् । प॒ते॒ । सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥

O laudable (Agni) (मियेध्य), lord of strength (ऊर्जाम् पते)! Envelop yourself (वसिष्व) with effulgence (वस्त्राणि)! Being such (सः), bring this sacrifice (इमम् अध्वरम्) of ours (नः) to fruition (यज हि).

Commentary
See the text starting with ‘तं वरुण उवाचाग्निर्वै देवानाम्मुखं ‘ in AB33.4 for the context of this hymn (Varuṇa  asks Śunaḥśepa to approach Agni).

नि नो॒ होता॒ वरे॑ण्य॒: सदा॑ यविष्ठ॒ मन्म॑भिः । अग्ने॑ दि॒वित्म॑ता॒ वच॑: ॥ २ ॥

नि । नः॒ । होता॑ । वरे॑ण्यः । सदा॑ । य॒वि॒ष्ठ॒ । मन्म॑ऽभिः । अग्ने॑ । दि॒वित्म॑ता । वचः॑ ॥

O ever youthful Agni (यविष्ठ अग्ने)! Being our chosen priest (वरेण्यः होता), with glowing tribute (दिवित्मता वचः) and effulgence (मन्मभिः), take your seat (नि) (सीद is implied here).

आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ । सखा॒ सख्ये॒ वरे॑ण्यः ॥ ३ ॥

आ । हि । स्म॒ । सू॒नवे॑ । पि॒ता । आ॒पिः । यज॑ति । आ॒पये॑ । सखा॑ । सख्ये॑ । वरे॑ण्यः ॥

(O Agni) (Provide for us), just as a beloved father (वरेण्यः पिता) always (आ हि स्म) provides (यजति) for a son (सूनवे), a relative (आपिः) for a relative (आपये), and a friend (सखा) for a friend (सख्ये)!

आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । सीद॑न्तु॒ मनु॑षो यथा ॥ ४ ॥

आ । नः॒ । ब॒र्हिः । रि॒शाद॑सः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । सीद॑न्तु । मनु॑षः । य॒था॒ ॥

May Varuṇa (वरुणः), Mitra (मित्रः), Aryaman (अर्यमा), and the destroyer of foes (रिशादसः) (Agni), sit down on our sacred grass (नः बर्हिः आ सीदन्तु), just like mortals (मनुषः यथा).

पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च । इ॒मा उ॒ षु श्रु॑धी॒ गिर॑: ॥ ५ ॥

पूर्व्य॑ । हो॒तः॒ । अ॒स्य । नः॒ । मन्द॑स्व । स॒ख्यस्य॑ । च॒ । इ॒माः । ऊँ॒ इति॑ । सु । श्रु॒धी॒ । गिरः॑ ॥

O ancient priest (पूर्व्य होतः)! Rejoice (मन्दस्व) in our friendship (अस नः सख्यस्य), and listen (च श्रुधि उ सु) to these praises (इमाः गिरः)!

यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे । त्वे इद्धू॑यते ह॒विः ॥ ६ ॥

यत् । चि॒त् । हि । शश्व॑ता । तना॑ । दे॒वम्ऽदे॑वम् । यजा॑महे । त्वे इति॑ । इत् । हू॒य॒ते॒ । ह॒विः ॥

By whatever (यत् चित् हि) daily offerings (शश्वता तना) we worship the gods (देवंदेवं यजामहे), that offering (हविः) is made to you alone (त्वे इत् हूयते).

प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः । प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥ ७ ॥

प्रि॒यः । नः॒ । अ॒स्तु॒ । वि॒श्पतिः॑ । होता॑ । म॒न्द्रः । वरे॑ण्यः । प्रि॒याः । सु॒ऽअ॒ग्नयः॑ । व॒यम् ॥

May the protector of people (विश्पतिः), priest (होता), delightful (मन्द्रः) and desirable (वरेण्यः) (Agni) be dear to us (नः प्रियः अस्तु), and may we (वयम्), with well-kindled fires (स्वग्नयः), be dear to him (प्रियाः).

स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः । स्व॒ग्नयो॑ मनामहे ॥ ८ ॥

सु॒ऽअ॒ग्नयः॑ । हि । वार्य॑म् । दे॒वासः॑ । द॒धि॒रे । च॒ । नः॒ । सु॒ऽअ॒ग्नयः॑ । म॒ना॒म॒हे॒ ॥

The gods (देवासः) with brilliant fires (स्वग्नयः), accept (दधिरे हि) our choicest offering (वार्यम्). We, with brilliant fires (स्वग्नयः), pray to you (मनामहे).

अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् । मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥ ९ ॥

अथ॑ । नः॒ । उ॒भये॑षाम् । अमृ॑त । मर्त्या॑नाम् । मि॒थः । स॒न्तु॒ । प्रऽश॑स्तयः ॥

O immortal one (अमर्त्य)! Now (अथ) (at the conclusion of the worship), may the eulogies (प्रशस्तयः सन्तु) be mutual (मिथः) for both us (नः उभयेषाम्) – you and we mortals (मर्त्यानाम्).

विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑: । चनो॑ धाः सहसो यहो ॥ १० ॥

विश्वे॑भिः । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ । चनः॑ । धाः॒ । स॒ह॒स॒ । य॒हो॒ इति॑ ॥

O Agni (अग्ने), son of strength (सहसः यहो)! Along with all other sacred fires (āhavanīya etc.) (विश्वेभिः अग्निभिः), (delighting in) this sacrifice (इमम् यज्ञम्) and this praise (इदम् वचः), bestow food on us (चनः धाः)!


RV1.25     RV1.27    RV Mandala 1      RigVeda
Advertisements