RV1.28

ऋषिः  – शुनःशेपः आजीगर्तिः । देवता – इन्द्रः (1-4), उलूखलः (5-6), उलूखलमुसले (7,8), प्रजापतिः हरिश्चन्द्रः अधिषवणचर्म सोमः वा (9) । छन्दः – अनुष्टुप् (1-6), गायत्री (7-9) ।

‘यत्र ग्रावा’ इति पञ्चमं सूक्तं नवर्चम् । आदितः षडनुष्टुभः । ’आयजी’ इत्याद्यास्तिस्रो गायत्र्यः । आदितश्चतसृणाम् इन्द्रो देवता । ततो द्वे उलूखलदेवत्ये । तदनन्तरभाविन्यौ उलूखलमुसलोभयदेवताके । अन्त्यायाः ’उच्छिष्टं’ इत्यस्याः हरिश्चन्द्राधिषवणचर्मसोमानामन्यतमो देवता । तथा च बृहद्देवतायामुक्तम् – ’चर्माधिषवणीयं वा सोमं वान्त्या प्रशंसति’ (बृहद्दे. ३.१०१) इति । तदुक्तमनुक्रमण्याम् – ’यत्र ग्रावा नव षळनुष्टुबादि यच्चिद्ध्यौलूखल्यौ परे मौसल्यौ च प्रजापतेर्हरिश्चन्द्रस्यान्त्या चर्मप्रशंसा वा’ इति । आद्याश्चतस्रः अञ्जःसवे होमे विनियुक्ताः । पञ्चम्याद्याश्चतस्रः अभिषवे । अन्त्या द्रोणकलशे सोमावनयने । तथा च ब्राह्मणम् – ’अथ हैतं शुनःशेपोऽञ्जःसवं ददर्श । तमेताभिश्चतसृभिरभिसुषाव यच्चिद्धि त्वं गृहेगृह इति । अथैनं द्रोणकलशमभ्यवनिनाय उच्छिष्टं चम्वोर्भरेत्येतयर्चा । अथ हास्मिन्नन्वारब्धे पूर्वाभिश्चतसृभिः सस्वाहाकाराभिर्जुहवांचकार ’ (ऐ. ब्रा. ७.१७) इति ।

This is the fifth hymn of Śunaḥśepa.  The mantras in this sūkta are used in the Añjaḥsava ritual invented by him (see AB 33.5).   Possibly it may have been the use of a mortar and pestle rather than grinding stones to squeeze out the soma juice.  There are some interesting words in this sūkta.

यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥ १ ॥

यत्र॑ । ग्रावा॑ । पृ॒थुऽबु॑ध्नः । ऊ॒र्ध्वः । भव॑ति । सोत॑वे । उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊँ॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥

In which (ritual) (यत्र) the  wide based (पृथुबुध्नः) pestle (ग्रावा) stands vertically (ऊर्ध्वः भवति) for squeezing (सोतवे) (the soma juice), O Indra (इन्द्र)! Gulp down (जल्गुलः) the (soma juice) squeezed out in the mortar (उलूखलसुतानाम्) that flows down (अव इत्).

Notes

  • उलूखलः – Explained by Yāska in the Nirukta (9.20) as follows: उरुकरम् (one that produces a lot), वा (or) ऊर्ध्वखम् (dug from the top), वा (or) ऊर्क्करम् (produces food), with substitution of क् or ख् by ल् । However, other scholars derive this as a loanword from the Dravidian (Tamil) “ural-kaLam” = “mortar-floor”
  • उलूखलसुतानाम् = उलूखलेन सुतानाम् (तृतीयातत्पुरुषः) – squeezed out by the mortar
  • जल्गुलः – frequentative form (expresses frequent repetition or intensity of an action) of गल् अदने (to swallow) (Hindi – गटागट पीना). In fact, the English word ‘gulp’ may have been derived from this. Irregularly derived as गल् + यङ् (लुक्) + लेट् ।

यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥ २ ॥

यत्र॑ । द्वौऽइ॑व । ज॒घना॑ । अ॒धि॒ऽस॒व॒न्या॑ । कृ॒ता । उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊँ॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥

In which (ritual) (यत्र), like two thighs (द्वौ इव जघना), the two soma-pressing boards (अधिषवण्या) are placed (कृता), O Indra (इन्द्र)! Gulp down (जल्गुलः) the (soma juice) squeezed out in the mortar (उलूखलसुतानाम्) that flows down (अव इत्).

Note:  अधिषवणफलकम् – a board used in the extraction of soma juice. For details (including a picture), see this document.

यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥ ३ ॥

यत्र॑ । नारी॑ । अ॒प॒ऽच्य॒वम् । उ॒प॒ऽच्य॒वम् । च॒ । शिक्ष॑ते । उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊँ॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥

In which (ritual) (यत्र), the woman is instructed (शिक्षते) in the raising and dropping (अपच्यम् उपच्यवम् च) (the pestle), O Indra (इन्द्र)! Drink deeply (जल्गुलः) the (soma juice) squeezed out in the mortar (उलूखलसुतानाम्) that flows down (अव इत्).

NoteSāyaṇa interprets अपच्यवम् and उपच्यवम् as leaving and entering the hall where the soma is pressed, but that doesn’t seem to fit the context.

यत्र॒ मन्थां॑ विब॒ध्नते॑ र॒श्मीन्यमि॑त॒वा इ॑व । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥ ४ ॥

यत्र॑ । मन्था॑म् । वि॒ऽब॒ध्नते॑ । र॒श्मीन् । यमि॑त॒वैऽइ॑व । उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊँ॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥

In which (ritual) (यत्र) they tie (निबध्नते) the churning stick (मन्थाम्) (with ropes) just as reins (रश्मीन्) are used to control (यमितवै इव) (a horse), O Indra (इन्द्र)! Gulp down (जल्गुलः) the (soma juice) squeezed out in the mortar (उलूखलसुतानाम्) that flows down (अव इत्).

Note: A churning stick is used to blend the soma juice with other liquids (such as curds or barley-gruel), such blended beverages are called āśira.

यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑ । इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ॥ ५ ॥

यत् । चि॒त् । हि । त्वम् । गृ॒हेऽगृ॑हे । उलू॑खलक । यु॒ज्यसे॑ । इ॒ह । द्यु॒मत्ऽत॑मम् । व॒द॒ । जय॑ताम्ऽइव । दु॒न्दु॒भिः ॥

O mortar (उलूखलक)! Even though (यत् चित् हि) you are used in all homes (गृहेगृहे युज्यसे), you should make a loud noise (द्युमत्तमम् वद) here (इह), like the one made by war-drums (दुन्दुभिः) of the victorious (जयताम् इव)!

उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् । अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल ॥ ६ ॥

उ॒त । स्म॒ । ते॒ । व॒न॒स्प॒ते॒ । वातः॑ । वि । वा॒ति॒ । अग्र॑म् । इत् । अथो॒ इति॑ । इन्द्रा॑य । पात॑वे । सु॒नु । सोम॑म् । उ॒लू॒ख॒ल॒ ॥

And (उत स्म) O mortar (वनस्पते), the wind blows (वातः वि वाति) in front of you (ते अग्रम् इत्) (by the movement of the pestle). Now (अथो) O mortar (उलूखल)! Squeeze out the soma juice (सोमम् सुनु) for Indra to drink (इन्द्राय पातवे)!

Note: वनस्पतिः means forest tree, here interpreted as mortar made out of the tree.

आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१च्चा वि॑जर्भृ॒तः । हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता ॥ ७ ॥

आ॒य॒जी इत्या॑ऽय॒जी । वा॒ज॒ऽसात॑मा । ता । हि । उ॒च्चा । वि॒ऽज॒र्भृ॒तः । हरी॑ इ॒वेति॒ हरी॑ऽइव । अन्धां॑सि । बप्स॑ता ॥

(O mortar and pestle), in all the sacrifices (आयजी), you (ता हि), the providers of abundant food (i.e. soma juice) (वाजसातमा), move constantly (विजर्भृतः) making loud noises (उच्चा), like the (jaws of the) horses (of Indra) (हरी इव) when they chew (बप्सता) their food (अन्धांसि).

ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभि॑: सो॒तृभि॑: । इन्द्रा॑य॒ मधु॑मत्सुतम् ॥ ८ ॥

ता । नः॒ । अ॒द्य । व॒न॒स्प॒ती॒ इति॑ । ऋ॒ष्वौ । ऋ॒ष्वेभिः॑ । सो॒तृऽभिः॑ । इन्द्रा॑य । मधु॑ऽमत् । सु॒त॒म् ॥

O mortar and pestle (वनस्पती)! Both of you (ता), made (even more) pleasing in appearance (ऋष्वौ) by the charming pressers (ऋष्वेभिः सोतृभिः), squeeze out (सुतम्) the sweet soma (मधुमत्) for Indra (इन्द्राय).

उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज । नि धे॑हि॒ गोरधि॑ त्व॒चि ॥ ९ ॥

उत् । शि॒ष्टम् । च॒म्वोः॑ । भ॒र॒ । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ । नि । धे॒हि॒ । गोः । अधि॑ । त्व॒चि ॥

(O priests)! Load on (to the cart) (उत् भर) the soma left over the pressing planks (चम्वोः शिष्टम्) (after the offering). Pour the soma (सोमम् आ सृज) on to the sieve (पवित्रे) , and dump (नि धेहि) (the dregs in the sieve) on to a bull-hide (गोः त्वचि अधि)!


RV1.27     RV1.29    RV Mandala 1      RigVeda
Advertisements