RV1.29

ऋषिः  – शुनःशेपः आजीगर्तिः । देवता – इन्द्रः । छन्दः – पङ्क्‍तिः ।

’यच्चिद्धि सत्य सोमपाः’ इति षष्ठं सूक्तं शुनःशेपस्यार्षं पाङ्क्तमैन्द्रम् । अनुक्रमणिका च – ’यच्चित्सप्त पाङ्कतम्’ इति । पृष्ठ्यषडहस्य पञ्चमेऽहनि माध्यंदिने सवने होत्रकाः ’यच्चिद्धि’ इति सप्तर्चं त्रींस्तृचान्कृत्वा स्वस्वशस्त्रे एकैकं तृचमावपेरन् । ’चतुर्थेऽहनि’ इति खण्डे ’यच्चिद्धि सत्य सोमपा इत्यैकैकमेवमेव (आ. श्रौ. ७.११) इति सूत्रितम् ॥

This is the sixth hymn of Śunaḥśepa, addressed to Indra.  It has a refrain that repeats in each verse.  The dominant theme is asking Indra to bestow wealth and destroy enemies.

यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ १ ॥

यत् । चि॒त् । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । अ॒ना॒श॒स्ताःऽइ॑व । स्मसि॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

O truthful (सत्य) soma-drinker (सोमपाः)! Even though (यत् चित् हि) we are (स्मसि) not praiseworthy (अनाशस्ताः इव), O wealthy (तुवीमघ) Indra (इन्द्र), make us admirable (नः तु आशंसय) (by presenting us) with thousands (सहस्रेषु) of excellent (शुभ्रिषु) horses (अश्वेषु) and cattle (गोषु).

Notes

  • अनाशस्ताः – from शंसु स्तुतौ (भ्वादिः) , derived as नञ् + आ + शस् + क्त = अनाशस्त – not praised
  • आशंसय – from आ + शंस् + णिच् + लोट् – causal form meaning “cause to be praised everywhere”

शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ २ ॥

शिप्रि॑न् । वा॒जा॒ना॒म् । प॒ते॒ । शची॑ऽवः । तव॑ । दं॒सना॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

O powerful one (शचीवः) lord of foodstuff (वाजानाम् पते) with a beautiful jaw (शिप्रिन्)! Your deeds (or benevolence) (तव दंसना) (is well known). O wealthy (तुवीमघ) Indra (इन्द्र), make us admirable (नः तु आशंसय) (by presenting us) with thousands (सहस्रेषु) of excellent (शुभ्रिषु) horses (अश्वेषु) and cattle (गोषु).

नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ ३ ॥

नि । स्वा॒प॒य॒ । मि॒थु॒ऽदृशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ इति॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

Put to sleep (नि स्वापय) the pair looking at each other (मिथूदृशा), may they sleep (सस्ताम्) unaware (of us) (अबुध्यमाने). O wealthy (तुवीमघ) Indra (इन्द्र), make us admirable (नः तु आशंसय) (by presenting us) with thousands (सहस्रेषु) of excellent (शुभ्रिषु) horses (अश्वेषु) and cattle (गोषु).

Note: The meaning of मिथूदृशा is not clear. Sāyaṇa interprets it meaning the two messengers of Yama (यमदूत्यौ), but that does not seem convincing.

स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तय॑: । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ ४ ॥

स॒सन्तु॑ । त्याः । अरा॑तयः । बोध॑न्तु । शू॒र॒ । रा॒तयः॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

O brave one (शूर)! May those who are ungenerous (त्याः अरातयः) go to sleep (ससन्तु) and those who are liberal (रातयः) be awake (बोधन्तु). O wealthy (तुवीमघ) Indra (इन्द्र), make us admirable (नः तु आशंसय) (by presenting us) with thousands (सहस्रेषु) of excellent (शुभ्रिषु) horses (अश्वेषु) and cattle (गोषु).

Note: रातिः comes from रा दाने (to give), and hence means “one who is generous”. आरातिः is the opposite, although generally interpreted as “enemy” for the reason such a person did not give to (i.e. worship) the gods the Vedic people worshiped.

समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ ५ ॥

सम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मृ॒ण॒ । नु॒वन्त॑म् । पा॒पया॑ । अ॒मु॒या । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

O Indra (इन्द्र)! Put to death (सम् मृण) this ass (गर्दभम्) (i.e. enemy) who talks about us (नुवन्तम्) in these unflattering terms (अमुया पापया) (i.e. who spreads calumny about us). O wealthy (तुवीमघ) Indra (इन्द्र), make us admirable (नः तु आशंसय) (by presenting us) with thousands (सहस्रेषु) of excellent (शुभ्रिषु) horses (अश्वेषु) and cattle (गोषु).

पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ ६ ॥

पता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वातः॑ । वना॑त् । अधि॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

May the hostile winds (कुण्डृणाच्या वातः) go way (पताति) to a far away forest (दूरम् वनात् अधि)! O wealthy (तुवीमघ) Indra (इन्द्र), make us admirable (नः तु आशंसय) (by presenting us) with thousands (सहस्रेषु) of excellent (शुभ्रिषु) horses (अश्वेषु) and cattle (गोषु).

सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म् । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ ७ ॥

सर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्व॑म् । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥

Slay (जहि) the one who reviles us (परिक्रोशम्), destroy (जम्भय) the one who hurts us (कृकदाश्वम्). O wealthy (तुवीमघ) Indra (इन्द्र), make us admirable (नः तु आशंसय) (by presenting us) with thousands (सहस्रेषु) of excellent (शुभ्रिषु) horses (अश्वेषु) and cattle (गोषु).

Notes

  • परिक्रोशम् – from परि (all around) + क्रुश् (to talk about loudly)
  • कृददाश्वम् – from कृञ् हिंसायाम् (to hurt) + क + दाश् (to give)

RV1.28     RV1.30    RV Mandala 1      RigVeda
Advertisements