RV1.3

ऋषिः  – मधुच्छन्दाः वैश्वामित्रः । देवता – अश्विनौ (1-3), इन्द्रः (4-6), विश्वे देवाः (7-9), सरस्वती (10-12) । छन्दः – गायत्री ।

अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती । पुरु॑भुजा चन॒स्यत॑म् ॥ 1 ॥

अश्वि॑ना । यज्व॑रीः । इषः॑ । द्रव॑त्पाणी॒ इति॒ द्रव॑त्ऽपाणी । शुभः॑ । प॒ती॒ इति॑ । पुरु॑ऽभुजा । च॒न॒स्यत॑म् ॥

O Aśvins (अश्विना)! Protectors of the auspicious (शुभस्पती), broad armed ones (पुरुभुजा) who hasten to the sacrifice with outstretched arms (द्रवत्पाणी) (to receive the offering), and who make the sacrifice successful (यज्वरीः), partake of your desired offering (इषः चनस्यतम्)!

Note: द्रवत्पाणी – द्रवन्तौ धावन्तौ पाणी ययोः तयोः सम्बोधनम्

अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी॑रया धि॒या । धिष्ण्या॒ वन॑तं॒ गिर॑: ॥ 2 ॥

अश्वि॑ना । पुरु॑ऽदंससा । नरा॑ । शवी॑रया । धि॒या । धिष्ण्या॑ । वन॑तम् । गिरः॑ ॥

O Aśvins (अश्विना) performers of great deeds (पुरुदंससा), leaders (नरा) and wise ones (धिष्ण्या)! Accept (वनतम्) our praise (गिरः) with your unobstructed (शवीरया) wisdom (धिया)!

Note: शवीरया – गतियुक्तया अप्रतिहतप्रसरया – from शु गतौ + ईरन्

दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः । आ या॑तं रुद्रवर्तनी ॥ 3 ॥

दस्रा॑ । यु॒वाक॑वः । सु॒ताः । नास॑त्या । वृ॒क्तऽब॑र्हिषः । आ । या॒त॒म् । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी ॥

(O Aśvins)! Destroyers of foes (दस्रा), truthful (नासत्या), whose path is that of fierce warriors (रुद्रवर्तनी)! Come (आ यातम्) (to partake of) the soma pressed (सुताः) by the priests (वृक्तबर्हिषः) and mixed (युवाकवः) (with other ingredients)!

Notes

  • नासत्या – असत्यमनृतभाषणं तद्रहितौ
  • रुद्रवर्तनी – शत्रुरोदकारिणां शूरभटानां वर्तनिर्मागो ययोः तौ
  • वृक्तबर्हिषः – Listed among the names for ऋत्विक् (Nighaṇṭu 3.18.4)
  • युवाकवः – from यु मिश्रणे – युवन्ति मिश्रीभवन्ति द्रव्यैरिति युवाकवः

इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यव॑: । अण्वी॑भि॒स्तना॑ पू॒तास॑: ॥ 4 ॥

इन्द्र॑ । आ । या॒हि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सु॒ताः । इ॒मे । त्वा॒ऽयवः॑ । अण्वी॑भिः । तना॑ । पू॒तासः॑ ॥

O many splendoured (चित्रभानो) Indra (इन्द्र)! Come this way (आ याहि), these soma pressings (इमे सुताः), expressed by the fingers (अण्वीभिः), always purified (तना पूतासः) are desirous of you (त्वायवः)!

इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः । उप॒ ब्रह्मा॑णि वा॒घत॑: ॥ 5 ॥

इन्द्र॑ । आ । या॒हि॒ । धि॒या । इ॒षि॒तः । विप्र॑ऽजूतः । सु॒तऽव॑तः । उप॑ । ब्रह्मा॑णि । वा॒घतः॑ ॥

O Indra (इन्द्र)! Impelled by our devotion (धिया इषितः), as well as that of the wise (विप्रजूतः) come towards (उप आ याहि) (this sacrifice to listen to) the adorations of the priests (वाघतः ब्रह्माणि) who have pressed out soma (सुतावतः) (for you)!

Notes

  • धीः – listed among the 11 names for प्रज्ञा (Nighaṇṭu 3.9.7)
  • विप्रः – listed among the 24 names for मेधावी (Nighaṇṭu 3.15.1)
  • वाघतः – listed among the 8 names for ऋत्विक् (Nighaṇṭu 3.18.3)

इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः । सु॒ते द॑धिष्व न॒श्चन॑: ॥ 6 ॥

इन्द्र॑ । आ । या॒हि॒ । तूतु॑जानः । उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ । सु॒ते । द॒धि॒ष्व॒ । नः॒ । चनः॑ ॥

O Indra with (a chariot drawn by) horses (हरिवः इन्द्र)! Come in haste (तुतुजानः आ याहि) to (listen to) these adorations (उप ब्रहमाणि) and accept (दधिष्व च) our offering of food (नः चनः) in this soma sacrifice (सुते)!

Notes

  • तूतुजानः – तुज् + लिट् (कानच्) = तुतुज् + आन = तूतुजानः [by तुजादीनां दीर्घोऽभ्यासस्य (पा. ६।१।४)]
  • हरिः – Indra’s horse – हरी इन्द्रस्य रोहितोऽग्नेः (Nighaṇṭu 1.25.1)

ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वांसो॑ दा॒शुष॑: सु॒तम् ॥ 7 ॥

ओमा॑सः । च॒र्ष॒णि॒ऽधृ॒तः॒ । विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । दा॒श्वांसः॑ । दा॒शुषः॑ । सु॒तम् ॥

All the gods (विश्वे देवासः)! Being protectors (ओमासः), sustainers of men (चर्षणीधृतः), and bestowers of gifts (दाश्वांसः), come to the pressed soma (सुतम्) of the liberal patron (दासुषः)!

Notes

  • This mantra is explained by Yāska in Nirukta 12.40
  • ओमासः – from अव रक्षणे + मन् [by अविसिवि० (उ. १४३ ] using ऊठ् by ज्वरत्वर० (पा. ७।१।५०)
  • चर्षणिः – listed among the 25 names for मनुष्यः (Nighaṇṭu 2.3.8)
  • दाश्वांसः – from दाशृ दाने , given without derivation by दाश्वान्० (पा. ६।१।१२)

विश्वे॑ दे॒वासो॑ अ॒प्तुर॑: सु॒तमा ग॑न्त॒ तूर्ण॑यः । उ॒स्रा इ॑व॒ स्वस॑राणि ॥ 8 ॥

विश्वे॑ । दे॒वासः॑ । अ॒प्ऽतुरः॑ । सु॒तम् । आ । ग॒न्त॒ । तूर्ण॑यः । उ॒स्राःऽइ॑व । स्वस॑राणि ॥

May all the gods (विश्वे देवासः), who give rain in time (अप्तुरः), moving swiftly (तूर्णयः) come (आ गन्त) to pressed out soma (सुतम्), like the rays of the sun (उस्राः इव) to the days (स्वसराणि)!

Notes

  • अप्तुरः – from अप् (water) and तुर त्वरणे
  • स्वसराणि – explained by Yāska in Nirukta 5.4 – स्वसराण्यहानि भवन्ति स्वयंसारीण्यपि वा स्वरादित्यो भवति स एनानि सारयति । उस्रा इव स्वसराणीत्यपि निगमो भवति

विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुह॑: । मेधं॑ जुषन्त॒ वह्न॑यः ॥ 9 ॥

विश्वे॑ । दे॒वासः॑ । अ॒स्रिधः॑ । एहि॑ऽमायासः । अ॒द्रुहः॑ । मेध॑म् । जु॒ष॒न्त॒ । वह्न॑यः ॥

May all the gods (विश्वे देवासः) who are devoid of decay (अस्रिधः) , omniscient (एहिमायासः), devoid of malice (अद्रुहः), and bearers of riches (वह्नयः) partake of (जुषन्त) the offering (मेधम्).

Notes

  • अस्रिधः – क्षयरहिताः
  • एहिमायासः – ईह चेष्टायाम् । आ समन्तात् ईहते इति एहिः । ईह् + इन् । एहिः माया प्रज्ञा येषामिति एहिमायासः
  • अद्रुहः – द्रुह जिघांसायाम् + क्विप्
  • मेधम् – मेधृ संगमे च । मेध्यते देवैः संगम्यते इति मेधं हविः । कर्मणि घञ् ।

पा॒व॒का न॒: सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥ 10 ॥

पा॒व॒का । नः॒ । सर॑स्वती । वाजे॑भिः । वा॒जिनी॑ऽवती । य॒ज्ञम् । व॒ष्टु॒ । धि॒याऽव॑सुः ॥

May Sarasvatī (सरस्वती) the purifier (पावका), provider of food (वाजिनीवती), whose wealth are her actions (धियावसुः), desire our sacrifice (नः यज्ञं वष्टु) with (gifts of) food (वाजेभिः) (and make it successful)!

चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती ॥ 11 ॥

चो॒द॒यि॒त्री । सू॒नृता॑नाम् । चेत॑न्ती । सु॒ऽम॒ती॒नाम् । य॒ज्ञम् । द॒धे॒ । सर॑स्वती ॥

Sarasvatī (सरस्वती), inspirer of (चोदयित्री) the truthful (सूनृतानाम्), guiding (चतन्ती) the well-intentioned (सुमनीनाम्) has nourished our sacrifice (यज्ञं दधे).

म॒हो अर्ण॒: सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ । धियो॒ विश्वा॒ वि रा॑जति ॥ 12 ॥

म॒हः । अर्णः॑ । सर॑स्वती । प्र । चे॒त॒य॒ति॒ । के॒तुना॑ । धियः॑ । विश्वाः॑ । वि । रा॒ज॒ति॒ ॥

Sarasvatī (सरस्वती) by her volition (केतुना) makes manifest (प्र चेतयति) the mighty waters (महः अर्णः) (of the river) and illumines (वि राजति) all the thoughts (विश्वाः धियः) (of the worshipers).


RV1.2     RV1.4     RV Mandala 1     RigVeda
Advertisements