RV1.30

ऋषिः  – शुनःशेपः आजीगर्तिः । देवता – इन्द्रः (1-16), अश्विनौ (17-19), उषाः (20-22) । छन्दः – पङ्क्‍तिः ।

’आ व इन्द्रम्’ इति द्वाविंशत्यृचं सप्तमं सूक्तं शुनःशेपस्यार्षं गायत्रम् । ’अस्माकम्’ इत्येषा पादनिचृद्गायत्री । ’त्रयः सप्तकाः पादनिचृत्’ (अनु. ४.४) इति उक्तत्वात् । ’शश्वदिन्द्रः’ इत्येषा त्रिष्टुप् । आदितः षोडषर्चं ऐन्द्र्यः । ’आश्विनावश्वावत्या’ इत्याद्यास्तिस्र आश्विन्यः । ’कस्त उषः’ इत्याद्यास्तिस्र उषोदेवताकाः । तथा च अनुक्रमणिका – ’आ वो द्व्यधिकास्माकं पादनिचृच्छश्वस्त्रिष्टुप्परौ तृचावाश्विनोषस्यौ ’ इति ॥

This is the seventh hymn of Śunaḥśepa addressed to IndraAśvins, and Uśas.  Verse 19 is clearly an astronomical allegory.

आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्त॑: श॒तक्र॑तुम् । मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ॥ १ ॥

आ । वः॒ । इन्द्र॑म् । क्रिवि॑म् । य॒था॒ । वा॒ज॒ऽयन्तः॑ । श॒तऽक्र॑तुम् । मंहि॑ष्ठम् । सि॒ञ्चे॒ । इन्दु॑ऽभिः ॥

O food-desiring (patrons) (वाजयन्तः)! I completely saturate (आ सिञ्चे) your mighty Indra (वः मंहिष्ठम् इन्द्रम्) of many deeds (शतक्रतुम्) with (drops of) soma (इन्दुभिः), just as a well (क्रिविम् यथा) (is filled).

श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिराम् । एदु॑ नि॒म्नं न री॑यते ॥ २ ॥

श॒तम् । वा॒ । यः । शुची॑नाम् । स॒हस्र॑म् । वा॒ । सम्ऽआ॑शिराम् । आ । इत् । ऊँ॒ इति॑ । नि॒म्नम् । न । री॒य॒ते॒ ॥

Who (यः), (when offered) hundreds (शतम् वा) of purified soma (शुचीनाम्) or thousands (सहस्रम् वा) of blended soma offerings (समाशिराम्) as if flowing down (निम्नम् न) , listens to (आ इत् उ रीयते) (our praise),

सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ । स॒मु॒द्रो न व्यचो॑ द॒धे ॥ ३ ॥

सम् । यत् । मदा॑य । शु॒ष्मिणे॑ । ए॒ना । हि । अ॒स्य॒ । उ॒दरे॑ । स॒मु॒द्रः । न । व्यचः॑ । द॒धे ॥

When (यत्) by(these soma offerings) (एना) fill the belly (उदरे व्यचः दधे हि) of the powerful one (शुष्मिणे), then he becomes ecstatic (सम् मदाय).

Note: उदरे व्यचः दधे – literally, held (दधे), pervasion (व्यचः = वि + अचः – to move in all directions) in the belly (उदरे)

अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् । वच॒स्तच्चि॑न्न ओहसे ॥ ४ ॥

अ॒यम् । ऊँ इति॑ । ते॒ । सम् । अ॒त॒सि॒ । क॒पोतः॑ऽइव । ग॒र्भ॒ऽधिम् । वचः॑ । तत् । चि॒त् । नः॒ । ओ॒ह॒से॒ ॥

You constantly approach (सम् अतसि) this (soma) prepared for you (अयम् उ ते), like a pigeon (कपोतः) the pregnant female pigeon (गर्भधिम् इव); thus (तत् चित्) you obtain (ओहसे) our praise (वचः).

Notes 

  • अतसि – from अत सातत्यगमने – moving constantly
  • This comparison is interesting. It turns out that pigeons mate for life (i.e. are socially monogamous). Exceptions are when one mate dies, and rare “extra-marital” matings

स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते । विभू॑तिरस्तु सू॒नृता॑ ॥ ५ ॥

स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑हः । वी॒र॒ । यस्य॑ । ते॒ । विऽभू॑तिः । अ॒स्तु॒ । सु॒नृता॑ ॥

O lord of wealth (राधानाम् पते) and valiant one (वीर) borne by praises (गिर्वाहः), to whover (यः) this praise (स्तोत्रम्) belongs, may your true and delightful glory (सूनृता विभूतिः) be (अस्तु) on him!

Note: गिर्वाहः – गीर्भिः (by praises) उह्यमानः (borne)

ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो । सम॒न्येषु॑ ब्रवावहै ॥ ६ ॥

ऊ॒र्ध्वः । ति॒ष्ठ॒ । नः॒ । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥

O one of many deeds (शतक्रतो)! Stand steadfast (ऊर्ध्वः तिष्ठ) for our protection (नः ऊतये) in this battle (अस्मिन् वाजे). Let us have concurrence (सं ब्रवावहै) in other matters too (अन्येषु).

योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ॥ ७ ॥

योगे॑ऽयोगे । त॒वःऽत॑रम् । वाजे॑ऽवाजे । ह॒वा॒म॒हे॒ । सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥

Being your friends (सखायः) we call on the extra-powerful (तवस्तरम्) Indra (इन्द्रम् हवामहे) for protection (ऊतये) in every undertaking (योगेयोगे) and in every battle (वाजेवाजे).

आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभि॑: । वाजे॑भि॒रुप॑ नो॒ हव॑म् ॥ ८ ॥

आ । घ॒ । ग॒म॒त् । यदि॑ । श्रव॑त् । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ । वाजे॑भिः । उप॑ । नः॒ । हव॑म् ॥

If (यदि) (Indra) hears our call (नः हवम् श्रवत्) , he will certainly come (आ गमत् घ) to us (उप) bearing unlimited protection (सहस्रिणीभिः ऊतिभिः) and food (वाजेभिः).

अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म् । यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥ ९ ॥

अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । हु॒वे । तु॒वि॒ऽप्र॒तिम् । नर॑म् । यम् । ते॒ । पूर्व॑म् । पि॒ता । हु॒वे ॥

I call upon him, who goes towards his many worshippers (तुविप्रतिम्) from his ancient abode (प्रत्नस्य ओकसः), for each activity (अनु हुवे), just as my father (पिता) called upon him (ते हुवे) earlier (पूर्वम्).

Note: तुविप्रतिम् – from तुवि (many) and प्रति (towards). Here प्रति implies the person who goes towards (प्रतिगन्ता)

तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत । सखे॑ वसो जरि॒तृभ्य॑: ॥ १० ॥

तम् । त्वा॒ । व॒यम् । वि॒श्व॒ऽवा॒र॒ । आ । शा॒स्म॒हे॒ । पु॒रु॒ऽहू॒त॒ । सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥

O (Indra), desired by all (विश्ववार) , invoked by many (पुरुहूत), friend (सखे) and (provider of) wealth (वसो)! We pray to you (आ शास्महे) for the sake of those who adore you (जरितृभ्यः).

अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्ना॑म् । सखे॑ वज्रि॒न्त्सखी॑नाम् ॥ ११ ॥

अ॒स्माक॑म् । शि॒प्रिणी॑नाम् । सोम॑ऽपाः । सो॒म॒ऽपाव्ना॑म् । सखे॑ । व॒ज्रि॒न् । सखी॑नाम् ॥

O soma-drinker (सोमपाः), friend (सखे), wielder of the thunderbolt (वज्रिन्), (may your blessing be on) the beautiful (शिप्रिणीनाम्) (cows) that belong to us (अस्माकम्), soma-drinkers (सोमपाव्नाम्).

Note: शिप्रिणी (fem.) means a female who has a beautiful jaw (शिप्र). Sāyaṇa interprets is as referring to cows (गवां समूहः) but it might as well refer to women.

तथा॒ तद॑स्तु सोमपा॒: सखे॑ वज्रि॒न्तथा॑ कृणु । यथा॑ त उ॒श्मसी॒ष्टये॑ ॥ १२ ॥

तथा॑ । तत् । अ॒स्तु॒ । सो॒म॒ऽपाः॒ । सखे॑ । व॒ज्रि॒न् । तथा॑ । कृ॒णु॒ । यथा॑ । ते॒ । उ॒श्मसि॑ । इ॒ष्टये॑ ॥

O soma-drinker (सोमपाः), friend (सखे), wielder of the thunderbolt (वज्रिन्) ! In whatever way (यथा) we desire your blessing (ते उश्मसि) for fulfillment (इष्टये), ordain it (तथा कृणु) so that it happens in that way (तत् तथा अस्तु).

रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ १३ ॥

रे॒वतीः॑ । नः॒ । स॒ध॒ऽमादे॑ । इन्द्रे॑ । स॒न्तु॒ । तु॒विऽवा॑जाः । क्षु॒ऽमन्तः॑ । याभिः॑ । मदे॑म ॥

That by which (याभिः) we, the wealthy (क्षुमन्तः), delight (मदेम), may those strength giving (तुविवाजाः) riches (रेवतीः) be with us (सन्तु), rejoicing with Indra (इन्द्रे सधमादे)!

Note: सधमादे – सह मादयन्ति इति सधमादः – rejoicing together, from सह (together, replaced by सध) and मद् – to rejoice, be ecstatic, be intoxicated

आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः । ऋ॒णोरक्षं॒ न च॒क्र्यो॑: ॥ १४ ॥

आ । घ॒ । त्वाऽवा॑न् । त्मना॑ । आ॒प्तः । स्तो॒तृऽभ्यः॑ । धृ॒ष्णो॒ इति॑ । इ॒या॒नः । ऋ॒णोः । अक्ष॑म् । न । च॒क्र्योः॑ ॥

O daring one (धृष्णॊ)! May one like you (त्वावान्), self-accomplished (त्मना आप्तः), approached by us (इयानः), certainly bring (wealth) towards (घ आ ऋणोः) the worshippers (स्तोतृभ्यः), like the wheels (चक्र्योः) make the cart move forward (अक्षं न).

आ यद्‍दुवः शतक्रत॒वा कामं॑ जरितॄ॒णाम् । ऋ॒णोरक्षं॒ न शची॑भिः ॥ १५ ॥

आ । यत् । दुवः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । आ । काम॑म् । ज॒रि॒तॄ॒णाम् । ऋ॒णोः । अक्ष॑म् । न । शची॑भिः ॥

O one of many deeds (शतक्रतो)! You bring (आ ऋणोः) the worshippers (जरिरूणाम्) whatever wealth they desire (यद् दुवः आ कामम्), like an axle (अक्षं न) (i.e. cart) is moved by effort (शचीभिः).

शश्व॒दिन्द्र॒: पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भि॒: शाश्व॑सद्भि॒र्धना॑नि ।
स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्त्स न॑: सनि॒ता स॒नये॒ स नो॑ऽदात् ॥ १६ ॥

शश्व॑त् । इन्द्रः॑ । पोप्रु॑थत्ऽभिः । जि॒गा॒य॒ । नान॑दत्ऽभिः । शाश्व॑सत्ऽभिः । धना॑नि ।
सः । नः॒ । हि॒र॒ण्य॒ऽर॒थम् । दं॒सना॑ऽवान् । सः । नः॒ । स॒नि॒ता । स॒नये॑ । सः । नः॒ । अ॒दा॒त् ॥

Indra (इन्द्रः) always (श्श्वत्) won (जिगाय) the bounty (धनानि) with chomping (पोप्रुथद्भिः), neighing (नानदद्भिः), and loudly snorting (शाश्वसद्भिः) (horses). He (सः) the liberal giver (सनिता) of many deeds (दंसनावान्), gave us (नः अदात्) a golden chariot (हिरण्यरथम्) for our pleasure (सनये).

Note: सः नः is repeated two more times for respect -”स नः स नः” इति द्विरुक्तिरादरार्थम् (सायणः)

आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया । गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥ १७ ॥

आ । अ॒श्वि॒नौ॒ । अश्व॑ऽवत्या । इ॒षा । या॒त॒म् । शवी॑रया । गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ॥

O Aśvins (अश्विनौ)! Come to us with swift horses (शवीरया अश्वावत्या), bearing food (इषा). O destroyer of foes (दस्रा)! May (our dwelling) be equipped with cattle (गोमत्) and god (wealth) (हिरण्यवत्)!

स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः । स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥ १८ ॥

स॒मा॒नऽयो॑जनः । हि । वा॒म् । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः । स॒मु॒द्रे । अ॒श्वि॒ना॒ । ईय॑ते ॥

O destroyer of foes (दस्रौ)! Your chariot (वां रथः) is yoked alike for both of you (समानयोजनः हि). O Aśvins (अश्विनौ)! It moves unimpeded (अमर्त्यः ईयते) in the sky (समुद्रे).

Note: Here समुद्रः means अन्तरिक्षम् (intermediate region, sky) as explained by Yāska
समुद्रः कस्मात्, समुद्द्रवन्त्यस्मादापः समभिद्रवन्त्येनमापः संमोदन्तेऽस्मिन्भूतानि समुदको भवति समुनत्तीति वा (निरु. २.१०)

न्य१घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः । परि॒ द्याम॒न्यदी॑यते ॥ १९ ॥

नि । अ॒घ्न्यस्य॑ । मू॒र्धनि॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ । परि॑ । द्याम् । अ॒न्यत् । ई॒य॒ते॒ ॥

You have fixed (नि येमथुः) one wheel (चक्रम्) of the chariot (रथस्य) at the crown (मूर्धनि) of the imperishable (अघ्न्यस्य), and the other wheel (अन्यत्) goes around the sky (द्याम् परि ईयते).

Note: This is clearly an astronomical allegory indicating that the equinoctal points are not fixed but have a slow backward along the equator. The two wheels are the two great circles (equator and ecliptic) on the celestial sphere. The obliquity of these great circles is constant hence the word ‘immortal’ is used here. (Ref: Solar and Other Astronomy in the Ṛgveda by Krishna De.  See:

कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये । कं न॑क्षसे विभावरि ॥ २० ॥

कः । ते॒ । उ॒षः॒ । क॒ध॒ऽप्रि॒ये॒ । भु॒जे । मर्तः॑ । अ॒म॒र्त्ये॒ । कम् । न॒क्ष॒से॒ । वि॒भा॒ऽव॒रि॒ ॥

O immortal (अमर्त्ये) Uśas (उषः), fond of praise (कधप्रिये)! Who is the mortal (कः मर्तः) fit for your enjoyment (ते भुजे). O radiant one (विभावरि)! Who will you approach (कं नक्षसे)?

व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् । अश्वे॒ न चि॑त्रे अरुषि ॥ २१ ॥

व॒यम् । हि । ते॒ । अम॑न्महि । आ । अन्ता॑त् । आ । प॒रा॒कात् । अश्वे॑ । न । चि॒त्रे॒ । अ॒रु॒षि॒ ॥

O pervasive one (अश्वे), bright (अरुषि) with varied colours (चित्रे)! We cannot comprehend you (वयं न अमन्महि हि) from near (आ अन्तात्) or from far (आ पराकात्).

त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः । अ॒स्मे र॒यिं नि धा॑रय ॥ २२ ॥

त्वम् । त्येभिः॑ । आ । ग॒हि॒ । वाजे॑भिः । दु॒हि॒तः॒ । दि॒वः॒ । अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ ॥

O daughter of heaven (दिवः दुहितः)! Come (त्वम् आ गहि) with those foodstuffs (त्येभिः वाजेभिः), and deposit (नि धारय) wealth (रयिं) in us (अस्मे).


RV1.29     RV1.31    RV Mandala 1      RigVeda
Advertisements