RV1.5

ऋषिः  – मधुच्छन्दाः वैश्वामित्रः । देवता – इन्द्रः । छन्दः – गायत्री ।

आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत । सखा॑य॒: स्तोम॑वाहसः ॥ १ ॥

आ । तु । आ । इ॒त॒ । नि । सी॒द॒त॒ । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ । सखा॑यः॒ । स्तोम॑ऽवाहसः ॥

अन्वयः – सखायः स्तोमवाहसः ! तु आ इत आ नि सीदत इन्द्रम् अभि प्र गायत ॥

हे सखायः ऋत्विजः स्तोमवाहसः ! स्तोमानस्मिन् कर्मणि वहन्ति प्रार्पयन्तीति । अस्मिन् कर्मणि तु क्षिप्र्म् इत आगच्छत । द्वाभ्यामाङ्भ्यामन्वेतुम् इतशब्दोऽभ्यसनीयः । आदरर्थोऽभ्यासः । आगत्य च नि षीदत उपविशत । उपविश्य च इद्रमभि प्र गायत । सर्वतः प्रकर्षेण स्तुत ।

  • स्तोमवाहसः – स्तोमं वहन्ति इति । अर्ति-स्तु-सु-हु-सृ-धृ-क्षि-क्षु-भा-या-वा-पदि-यक्षि-नीभ्यो मन् (उ. १४०) इति स्तौतेर्मन्प्रत्ययान्तः स्तोमशब्दः । वहि-हा-धाञ्भ्यश्छन्दसि (उ. ६६२) इत्यसुन् प्रत्ययः । तस्य णित्त्वात् उपधावृद्धिः । वाहः ।

पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् । इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥ २ ॥

पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णम् । इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥

अन्वयः – सचा सुते सोमे पुरुतमम् पुरूणाम् ईशानम् वार्याणम् इन्द्रम् ॥

’सखायोऽभिप्रगायत’ इति पदद्वयमत्रानुवर्तते । हे सखायः ऋत्विजः सचा यूयं सर्वैः सह । सुते अभिषुते सोमे प्रवृत्ते सति इन्द्रम् अभिप्रगायत । कीदृशमिन्द्रम् । पुरूतमम् । पुरून् बहून् शत्रून् तमयति ग्लापयतीति पुरूतमः । पुरूणां बहूनां वार्याणां वरणियानां धनानाम् । ईशानं स्वामिनम् ।

  • पुरूतमम् – तमु ग्लाने इति धातोरन्तर्भावितण्यर्थात् पचाद्यच् । पुरु + तम् + अ ।
  • वार्याणाम् – वृङ् संभक्तौ इत्यस्मात् ऋहलोर्ण्यत् (पा. ३।१।१२४)
  • सचा – षच समवाये । धात्वादेः षः सः (पा. ६।१।६४) । संपदाद्त्वाद्भावे क्विप् (पा. ३।३।१०८.९) इति क्विप् । तृतीयैकवचनम् ।

स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम् । गम॒द्वाजे॑भि॒रा स न॑: ॥ ३ ॥

सः । घ॒ । नः॒ । योगे॑ । आ । भु॒व॒त् । सः । रा॒ये । सः । पुर॑म्ऽध्याम् । गम॑त् । वाजे॑भिः । आ । सः । नः॒ ॥

अन्वयः – सः घ नः योगे आ भुवत् सः राये सः पुरम्ध्याम् गमत् वाजेभिः आ सः नः ॥

घशब्दोऽवधारणार्थो निपातः । सर्वैस्तच्छब्दैः संबध्यते । स घ स एवेन्द्रः पूर्वमन्त्रोक्तगुणविशिष्टः नः अस्माकं योगे पूर्वप्राप्तस्य पुरुषार्थस्य संबन्धे आ भुवत् आभवतु । पुरुषार्थसाधयत्विर्थः । सः एव राये धनार्थम् आ भुवत् आभवतु । सः एव पुरंध्यां योषिति आ भुवत् । यद्वा । बहुविधायां बुद्धौ आ भुवत् । ’पुरंधिर्बहुधीः’ (निरु. ६.१३) इति यास्कः । सः एव वाजेभिः देयैरन्नैः सह नः अस्मान् आ गमत् आगच्छतु ।

  • पुरंध्याम् – पुरंधिः पुरुधीः । पृषोदरादित्वात् (पा. ६।३।१०९) उकारस्य अमादेशः ईकारस्य ह्रस्वश्च । अथवा पुरं शरीरं धीयतेऽस्यामिति कर्मण्यधिकरणे च (पा. ३।३।९३) इति किप्रत्ययः । अलुक् छान्दसः ।

यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः । तस्मा॒ इन्द्रा॑य गायत ॥ ४ ॥

यस्य॑ । स॒म्ऽस्थे । न । वृ॒ण्वते॑ । हरी॒ इति॑ । स॒मत्ऽसु॑ । शत्र॑वः । तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥

अन्वयः – समत्सु यस्य संस्थे हरी शत्रवः न वृण्वते तस्मै इन्द्राय गायत ॥

समत्सु युद्धेषु यस्य इन्द्रस्य संस्थे रथे युक्तौ हरी द्वावश्वौ शत्रवः न वृण्वते न संभजन्ते रथमश्वौ च दृष्ट्वा पलायन्ते इत्यर्थः । तस्मा इन्द्राय ततसंतोषर्थं हे ॠत्विजः गायत स्तुतिं कुरुत ।

  • समत्सु – ’रणः’ इत्यादिषु षट्च्वारिंशत्सु संग्रामनामसु ’समत्सु समरणे’ (निघण्टुः २.१७.२२) इति पठितम् । संपूर्वात् अत्तेः क्विप्
  • संस्थे – सम्यक् तिष्ठतीति संस्थो रघः । आतश्चोपसर्गे (पा. ३।१।१३६) इति कप्रत्ययः
  • हरी – हरतो रथमिति हरी अश्वौ । ’इन्’ इत्यनुवृत्तौ (उ. ५५९) हृ-पिषि-रुहि-वृति-विदि-छिदि-कीर्तिभ्यश्च (उ. ५६०) इति इन्प्रत्ययः
  • शत्रवः – शतिः सौत्रो घातुर्हिंसार्थः । रुशतिभ्यां क्रुन् (उ. ५४५)

सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ । सोमा॑सो॒ दध्या॑शिरः ॥ ५ ॥

सु॒त॒ऽपाव्ने॑ । सु॒ताः । इ॒मे । शुच॑यः । य॒न्ति॒ । वी॒तये॑ । सोमा॑सः । दधि॑ऽआशिरः ॥

अन्वयः – इमे सुताः शुचयः दध्याशिरः सोमासः सुतपाव्ने वीतये यन्ति ॥

इमे सोमासः अस्मिन् कर्मणि संपादिताः सोमाः सुतपाव्ने अभिषुतस्य सोमस्य पानकर्त्रे । षष्ठ्यर्थे चतुर्थी । तस्य पातुः वीतये भक्षणार्थं यन्ति तमेव प्राप्नुवन्ति । कीदृशाः सोमाः । सुताः अभिषुताः । शुचयः दशापवित्रेण शोधितत्वात् शुद्धाः । दध्याशिरः अवनीयमानं दधि आशीर्दोषघातकं येषां सोमानां ते दध्याशिरः ॥

  • सुतपव्ने – सुतं पिबतीति सुतपावा । सुत + पा + वनिप्
  • वीतये – वि गतिप्रजनकान्त्यशनखादनेषु इत्यस्मात् मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः (पा. ३।३।९६) इति क्तिन् उदात्तः
  • सोमासः – ’षुञ् अभिषवे’ । अर्ति-स्तु-सु-हु-सृ-धृ-क्षि-क्षु-भा-या-वा-पदि-यक्षि-नीभ्यो मन् (उ. १३९) । नित्त्वादाद्युदात्तः । आज्जसेरसुक् (पा. ७।१।५०) इत्यसुगागमः
  • दध्याशिरः – दधाति पुष्णातीति दधि । डुधाञ् धारणपोषणयोः । आदृगमहनजनः किकिनौ लिट् च (पा. ३।२।१७१) इति किन् । लिड्वद्भावात् द्विर्भावः । कित्त्वादाकारलोपः । नित्त्वादाद्युदात्तत्वम् । शॄ हिंसायाम् । शृणाति हिनस्ति सोमेऽवनीयमानं सत् सोमस्य स्वाभाविकं रसम् ऋजीषत्वप्रयुक्तं नीरसं दोषं वा इत्याशीः । क्विपि ॠत इद्धातोः (पा. ७।१।१००) इति इत्वं रपरत्वं च । दध्येव आशीर्यिषां सोमानां ते दध्याशिरः ।

त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः । इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥ ६ ॥

त्वम् । सु॒तस्य॑ । पी॒तये॑ । स॒द्यः । वृ॒द्धः । अ॒जा॒य॒थाः॒ । इन्द्र॑ । ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥

अन्वयः – सुक्रतो इन्द्र ! त्वम् सुतस्य पीतये ज्यैष्ठ्याय सद्यः वृद्धः अजायथाः ॥

सुक्रतो शोभनकर्मन् शोभनप्रज्ञा वा हे इन्द्र ! त्वं सुतस्य अभिषुतस्य सोमस्य पीतये पानार्थं ज्यैष्ठ्याय देवेषु जेष्ठत्वार्थं च सद्यः तस्मिन्नेव क्षणे वृद्धो अजायथाः अभिवृद्ध्योत्साहेन युक्तोऽभूः ॥

  • पीतये – पा पाने इस्यस्मात् स्थागापापचो भावे (पा. ३।३।९५) इति क्तिन् । घुमाथा० (पा. ६।४।६६) इत्यादिना ईत्वम्
  • सद्यः – सद्यः पत्रुपरारि० (पा. ५।३।२२) इति सूत्रेण समानेऽहनीत्यर्थे समानस्य सभावो द्यश्च प्रत्ययो निपात्यते
  • ज्यैष्ठ्याय – ज्येष्ठस्य भावो ज्यैष्ठ्यम् । गुणवचनब्राह्मणादिभ्यः कर्मणि च (पा. ५।१।१२४) इति ष्यञ्

आ त्वा॑ विशन्त्वा॒शव॒: सोमा॑स इन्द्र गिर्वणः । शं ते॑ सन्तु॒ प्रचे॑तसे ॥ ७ ॥

आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः॑ । सोमा॑सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ । शम् । ते॒ । स॒न्तु॒ । प्रऽचे॑तसे ॥

अन्वयः – गिर्वणः इन्द्र ! आशवः सोमासः त्वा आ विशन्तु । ते प्रचेतसे शम् सन्तु ॥

हे इन्द्र ! त्वा सोमासः सोमाः आ विशन्तु आभिमुख्येन प्रविशन्तु । कीदृशाः सोमाः । आशवः सवनत्रये प्रकृतिविकृत्योर्वा व्याप्तिमन्तः । कीदृशेन्द्र । गिर्वणः गीर्भिः स्तुतिभिः संभजनीय देवविशेष । तथाविध हे इन्द्र ते तव प्रचेतसे प्रकृष्टज्ञानाय शं सुखरूपाः सोमाः सन्तु

  • गिर्वणः – गॄ शब्दे । क्विपि ॠत इद्धातोः (पा. ७।१।१००) इति इत्वं रपरत्वं च । गीर्भिर्वन्यन्ते सेव्यते इति गिर्वणाः । वन षण संभक्तौ । संभक्तिः सेवा ।

त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो । त्वां व॑र्धन्तु नो॒ गिर॑: ॥ ८ ॥

त्वाम् । स्तोमाः॑ । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥

अन्वयः – शतक्रतो ! त्वाम् स्तोमाः अवीवृधन् त्वाम् उक्था नः गिरः त्वाम् वर्धन्तु ॥

हे शतक्रतो ! बहुकर्मन् बहुप्रज्ञ वा इन्द्र त्वां स्तोमाः सामगानां स्तोत्राणि अवीवृधन् वर्धितवन्ति । तथा बह्‍वृचानाम् उक्था शस्त्राणि त्वाम् अवीवृधन् । यस्मात् पूर्वमेवासीत् तस्मादिदानीमपि नः अस्माकं गिरः स्तुतयः त्वां वर्धन्तु वर्धयन्तु अतिवृद्धं कुर्वन्तु ॥

  • अवीवृधन् – वृधु वृद्धौ । ण्यन्तात् लुङि चङि (पा. ३।१।४८) उर्ऋत् (पा. ७।४।७) इति वृधेरुपधाया ऋकारस्य ऋकारविधानादन्तरङ्गोऽपि गुणॊ बाध्यते । द्विर्भाव-हलादिशेष-सन्वद्भाव-इत्व-दीर्घत्व-आडागमाः
  • उक्था – उक्थानि । पा-तॄ-तुदि-वचि-रिचि-सिचिभ्यस्थक् (उ. १६५) इति वचेः थक् प्रत्ययः । तस्य कित्त्वात् संप्रसारणम् । शॆश्छन्दसि बहुलम् (पा. ६।१।७०) इति शिलोपो नलोपश्च

अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्र॑: सह॒स्रिण॑म् । यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥ ९ ॥

अक्षि॑तऽऊतिः । स॒ने॒त् । इ॒मम् । वाज॑म् । इन्द्रः॑ । स॒ह॒स्रिण॑म् । यस्मि॑न् । विश्वा॑नि । पौंस्या॑ ॥

अन्वयः – अक्षितोतिः इन्द्रः इमम् सहस्रिणम् वाजम् सनेत् यस्मिन् विश्वानि पौंस्या ॥

इन्द्रः इमं वाजं सोमरूपान्नं सनेत् संभजेत् । कीदृश इन्द्रः । अक्षितोतिः अहिंसितरक्षणः । कदाचिदपि रक्षां न विमुञ्चतीत्यर्थः । कीदृशं वाजम् । सहस्रिणं प्रकृतौ विकृतिषु च प्रवर्तमानत्वेन सहस्रसंख्यायुक्तम् । यस्मिन् वाजे विश्वानि सर्वाणि पौंस्या पौंस्यानि पुंस्त्वानि बलानि वर्तन्ते तादृशं वाजमिति पूर्वत्रान्वयः ।

  • पौंस्यानि – पुंसः कर्माणि पौंस्यानि । ब्रह्मणादेराकृतिगणत्वात् गुणवचनब्राह्मणादिभ्यः कर्मणि च (पा. ५।१।१२४) इति ष्यञ्

मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः । ईशा॑नो यवया व॒धम् ॥ १० ॥

मा । नः॒ । मर्ताः॑ । अ॒भि । द्रु॒ह॒न् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । ईशा॑नः । य॒व॒य॒ । व॒धम् ॥

अन्वयः – गिर्वणः इन्द्र ! मर्ताः नः तनूनाम् मा अभि द्रुहन् । ईशानः वधम् यवय॥

हे गिर्वणः इन्द्र ! मर्ताः विरोधिनो मनुष्याः नः अस्मदीयानां तनूनां शरीराणां मा अभि द्रुहन् अभितो द्रोहं मा कुर्युः । ईशानः समर्थस्त्वं वधं वैरिभिः संपाद्यमानं यवय अस्मत्तः पृथक्कुरु ।

  • द्रुहन् – द्रुह जिघांसायाम् । लिङर्थे लेट् (पा. ३।४।७) इति प्रार्थनायां लेट्
  • यवय – यौतेर्णिचि संज्ञापूर्वको विधिरनित्यः (परिभाषा ९३.१) इति वृद्धिर्न क्रियते । अथवा योतीति यवः । यवं करोतित्यर्थे णिच् । इष्ठवद्भावात् टिलोपः
  • वधम् – हनश्च वधः (पा. ३।३।७६) इति भावे अप्

RV1.4     RV1.6     RV Mandala 1     RigVeda
Advertisements