RV1.50

ऋषिः  – प्रस्कण्वः काण्वः । देवता – सूर्यः । छन्दः – गायत्री (1-9), अनुष्टुप् (10-13) ।

१.९.७ – ’उदु त्यम्’ इति त्रयोदशर्चं सप्तमं सूक्तं प्रस्कण्वस्यार्षं सूर्यदेवत्यम् । आदौ नव गायत्र्यः शिष्टाश्चतस्रोऽनुष्टुभ इत्युक्तम् । तथा चानुक्रान्तम् – ’उदु त्यं सप्तोना सौर्यं नवाद्या गायत्र्योंऽत्यस्तृचो रोगघ्न उपनिषत्’ इति । आश्विनशस्त्रे सौर्ये क्रतौ ’उदु त्यम्’ इत्यादयो नवर्चः शंसनीयाः । ’संस्थितेष्वाश्विनाय’ इति खण्डे सूत्रितं – ’सूर्यो नो दिव उदुत्यं जातवेदसमिति नव’ (आश्व. श्रौ. ६.५) इति ॥

This sūkta by Praskaṇva the son of Kaṇva is in praise of the sun, particularly his healing properties. The sun also symbolizes the illumined mind, which the poet aspires to attain.

Pāṇini‘s rule 6.1.153 (प्रस्कण्वहैश्चन्द्रावृषी) gives an irregular derivation of the name प्रस्कण्व (with insertion of स् between प्र and कण्व) only when it refers to the name of a ṛṣi. In the case where the name of a ṛṣi is not intended, the word becomes प्रकण्व the name of a place, now identified with the Ferghana region in eastern Uzbekistan, and is the northernmost place indirectly identified by Pāṇini.

उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ १ ॥

उत् । ऊँ॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ । दृ॒शे । विश्वा॑य । सूर्य॑म् ॥

The rays (केतवः) bear upwards (उद् वहन्ति) (i.e. herald the coming of) the shining sun (त्यं देवं सूर्यम्) who knows all beings (जातवेदसम्) for all to behold (विश्वाय दृशे).

Note: उ is a filler, as explained by Yāska – मिताक्षरेष्वनर्थकाः कमीमिद्विति (Nirukta 1.9)

अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभि॑: । सूरा॑य वि॒श्वच॑क्षसे ॥ २ ॥

अप॑ । त्ये । ता॒यवः॑ । य॒था॒ । नक्ष॑त्रा । य॒न्ति॒ । अ॒क्तुऽभिः॑ । सूरा॑य । वि॒श्वऽच॑क्षसे ॥

The stars (नक्षत्रा) , like thieves (त्ये तायवः यथा) slink away (अप यन्ति) along with the night (अक्तुभिः), (on the appearance) of the sun (सूराय) that illuminates all (विश्वचक्षसे).

Notes

  • तायवः – listed among the 14 names of “thief” (चतुर्दश स्तेननामानि) in Nighāṇṭu 3.24
  • नक्षत्रम् – from नक्ष गतौ + अत्रन् [by अमि-नक्षि-यजि-वधि-पतिभ्योऽत्रन् (उ. ३८७)]

अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥ ३ ॥

अदृ॑श्रम् । अ॒स्य॒ । के॒तवः॑ । वि । र॒श्मयः॑ । जना॑न् । अनु॑ । भ्राज॑न्तः । अ॒ग्नयः॑ । य॒था॒ ॥

All people beheld (जनान् अनु वि अदृश्रम्) the heralding rays (केतवः रश्मयः) (of the sun) like the blazing flames (भ्राजन्तः यथा) of Agni (अग्नयः)

Notes

  • अदृशम् – should be interpreted as अदृश्रन् – indeed Atharvaveda 13.2.18 has the same ṛk with अदृश्रन् instead of अदृश्रम् – दृशिर् प्रक्षणे । वर्तमाने लुङ् । ’तिङां तिङो भवन्ति’ इति प्रथमपुरुषबहुवचनस्योत्तमपुरुषैकवचनादेशः (सायणः)
  • केतवः – from कित ज्ञाने (to cognize), hence “that by which something is known”, hence “herald, flag”

त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ॥ ४ ॥

त॒रणिः॑ । वि॒श्वऽद॑र्शतः । ज्यो॒तिः॒ऽकृत् । अ॒सि॒ । सू॒र्य॒ । विश्व॑म् । आ । भा॒सि॒ । रो॒च॒नम् ॥

(O Sūrya) (सूर्य)! Seen by all (विश्वदर्शतः), you are (असि) the refuge (तरणिः) and the creator of effulgence (ज्योतिष्कृत्). You illuminate (आ भासि) the entire sky (विश्वं रोचनम्).

Note: तरणिः – implied causal form of तॄ प्लवनतरणयोः + (णिच्) + अनि [by अर्तिह्री० (पा. ७।३।३६)] – “one who takes others across”

प्र॒त्यङ्दे॒वानां॒ विश॑: प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् । प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥ ५ ॥

प्र॒त्यङ् । दे॒वाना॑म् । विशः॑ । प्र॒त्यङ् । उत् । ए॒षि॒ । मानु॑षान् । प्र॒त्यङ् । विश्व॑म् । स्वः॑ । दृ॒शे ॥

(O Sūrya) You rise in front of (प्रत्यङ् उत् एषि) the Maruts (देवानां विशः) and people (मानुषान्) so that they can behold the vast heavens (विश्वं स्वः दृशे)!

Notes

  • मरुतो वै देवानाम् विशः (तै० सं० २.२.५.७)
  • प्रत्यङ् – प्रति अञ्चतीति प्रत्यङ् (moving towards), from प्रति + अञ्चु गतिपूजनयोः + क्विन्

येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥ ६ ॥

येन॑ । पा॒व॒क॒ । चक्ष॑सा । भु॒र॒ण्यन्त॑म् । जना॑न् । अनु॑ । त्वम् । व॒रु॒ण॒ । पश्य॑सि ॥

O purifier (पावक), remover of evil (वरुण)! (We worship) that light by which (येन चक्षसा) you look upon (अनु पश्यसि) all the people your nourish (भुरण्यन्तं जनान्).

Notes

  • भुरण्यन्तम् – from भुरण धारणपोषणयोः (कण्ड्वादिः) + यक् + शप् + शतृ
  • वरुण – from वृञ् वरणे + (णिच्) + उनन् [by कॄवृदारिभ्य य्नन् (उ. ३३५)] – one who removes

वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभि॑: । पश्य॒ञ्जन्मा॑नि सूर्य ॥ ७ ॥

वि । द्याम् । ए॒षि॒ । रजः॑ । पृ॒थु । अहा॑ । मिमा॑नः । अ॒क्तुऽभिः॑ । पश्य॑न् । जन्मा॑नि । सू॒र्य॒ ॥

(O Sūrya) (सूर्य)! You traverse (वि एषि) the heavens (द्याम्) and the wide earth (पृथु रजः), measuring out (मिमानः) the days with the nights (अहा अक्तुभिः) and watching over all the beings (जन्मानि पश्यन्)!

स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं विचक्षण ॥ ८ ॥

स॒प्त । त्वा॒ । ह॒रितः॑ । रथे॑ । वह॑न्ति । दे॒व॒ । सू॒र्य॒ । शो॒चिःऽके॑शम् । वि॒ऽच॒क्ष॒ण॒ ॥

(O wise Lord Sūrya) (सूर्य देव विचक्षण)! Seven horses (सप्त हरितः) carry you (त्वा वहन्ति) with blazing flames (शोचिष्केशम्), seated on a chariot (रथे).

Note

  • It might be tempting to think of the seven horses to represent the seven colors (VIBGYOR), but that seems unlikely because the next verse introduces seven mares, so they probably represent something else
  • शोचिष्केशम् – शोचींषि तेजांस्येव यस्मिन् केशा इव दृश्यन्ते – who has flames that appear like hair streaming out

अयु॑क्त स॒प्त शु॒न्ध्युव॒: सूरो॒ रथ॑स्य न॒प्त्य॑: । ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥ ९ ॥

अयु॑क्त । स॒प्त । शु॒न्ध्युवः॑ । सूरः॑ । रथ॑स्य । न॒प्त्यः॑ । ताभिः॑ । या॒ति॒ । स्वयु॑क्तिऽभिः ॥

(Sūrya) the motivator (सूरः) yoked (अयुक्त) the seven purifying mares (सप्त शुन्ध्युवः), protectors of the chariot (रथस्य नप्त्यः). (The chariot) moves forward (याति) by those who were yoked for Sūrya (ताभिः स्वयुक्तिभिः).

Notes

  • सूरः – from from षू प्ररणे + क्रन् [by सु-सू-धाञ्-गृधिभ्यः क्रन् (उ. १८२) ] – one who motivates all
    शुन्ध्युवः – from शुन्ध विशुद्धौ + यु [by यजि-मनि-शुन्धि-दसि-जनिभ्यो युच् (उ. ३०२)]
  • नप्त्यः – न पातयति – doesn’t allow to fall, i.e. protects
  • स्वयुक्तिभिः – स्वकीयाः सूर्यसंबन्धिन्यो योजनानि यासाम् (सायणः)

उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ १० ॥

उत् । व॒यम् । तम॑सः । परि॑ । ज्योतिः॑ । पश्य॑न्तः । उत्ऽत॑रम् । दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योतिः॑ । उ॒त्ऽत॒मम् ॥

Beholding the rising supreme light (उत् उत्तरं ज्योतिः पश्यन्तः) that is beyond darkness (तमसः परि), may we attain (वयम् अगन्म) (the company of) that effulgent supreme lord Sūrya (उत्तमं ज्योतिः देवं सूर्यम्) in the midst of the gods (देवत्रा)!

उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव॑म् । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥ ११ ॥

उ॒त्ऽयन् । अ॒द्य । मि॒त्र॒ऽम॒हः॒ । आ॒ऽरोह॑न् । उत्ऽत॑राम् । दिव॑म् । हृ॒त्ऽरो॒गम् । मम॑ । सू॒र्य॒ । ह॒रि॒माण॑म् । च॒ । ना॒श॒य॒ ॥

O Sūrya, the one with a soothing effulgence (सूर्य मित्रमहः)! Rising now (अद्य उद्यन्) and ascending the high heaven (आरोहन् उत्तरां दिवम्), destroy (नाशय) my mental ailment (मम हृद्रोगम्) and my bodily ailment (हरिमाणम्)!

Notes

  • मित्रमहः – मित्रमनुकूलं महस्तेजो यस्यासौ – one whose effulgence is soothing like a friend
  • हरिमाणम् – शरीरगतं हरिद्वर्णं रोगप्रप्तं वैवर्ण्यम् – that which causes the body to discolor, hence bodily ailment

शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि । अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥ १२ ॥

शुके॑षु । मे॒ । ह॒रि॒माण॑म् । रो॒प॒णाका॑सु । द॒ध्म॒सि॒ । अथो॒ इति॑ । हा॒रि॒द्र॒वेषु॑ । मे॒ । ह॒रि॒माण॒म् । नि । द॒ध्म॒सि॒ ॥

I deposit (नि दधमसि) my disease (मे हरिमाणम्) in parrots (शुकेषु), mynas (रोपणाकासु) and in green foliage (अथो हारिद्रवेषु).

Note: This is based on the popular perception (at that time) that a disease can be removed by transferring it to another living being

उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मह्यं॑ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ॥ १३ ॥

उत् । अ॒गा॒त् । अ॒यम् । आ॒दि॒त्यः । विश्वे॑न । सह॑सा । स॒ह । द्वि॒षन्त॑म् । मह्य॑म् । र॒न्धय॑न् । मो इति॑ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् ॥

The sun (अयम् आदित्यः) has risen (उत् अगात्) with all his power (विश्वेन सहसा सह), destroying (मह्यम्) that (illness) that hates me (मह्यं द्विषन्तम्), for I cannot destroy (मो रधम्) the malevolent (ilness) (द्विषते).


RV1.49     RV1.51    RV Mandala 1      RigVeda
Advertisements