RV1.85

ऋषिः  – गोतमः राहूगणः । देवता – मरुतः । छन्दः – जगती (1-4,6-11), त्रिष्टुप् (5-12) ।

१.१४.१ – चतुर्दशेऽनुवाके नव सूक्तानि । तत्र ’प्र ये’ इति द्वादशर्चं प्रथमं सूक्तं गोतमस्यार्षं । पञ्चमीद्वादशी त्रिष्टुभौ । शीष्टा जगत्यः । मरुतो देवता । तथा चानुक्रान्तं – ’ प्र ये द्वादश मारुतं ह पञ्चम्यन्त्ये त्रिष्टुभौ’ इति । हशब्दप्रयोगादिदमादीनि चत्वारि सूक्तानि मरुद्देवत्यानि । अभिप्लवषडहस्य चतुर्थेऽहनि अग्निमारुते एतत्सूक्तं मारुतनिविद्धानीयम् । सूत्रितं च – ’प्र ये शुम्भन्ते जनस्य गोपा इत्याग्निमारुतम्’ (आश्व. श्रौ. ७.७) इति ॥

This sūkta by Gotama the son of Rahūgaṇa is addressed to the Maruts. The Maruts are generally considered to represent the strong, moisture-laden winds that accompany a storm. However, some verses refer to them as wearing shining ornaments indicating that they might also represent a meteor shower.

प्र ये शुम्भ॑न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नव॑: सु॒दंस॑सः । रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद॑न्ति वी॒रा वि॒दथे॑षु॒ घृष्व॑यः ॥ १ ॥

प्र । ये । शुम्भ॑न्ते । जन॑यः । न । सप्त॑यः । याम॑न् । रु॒द्रस्य॑ । सू॒नवः॑ । सु॒ऽदंस॑सः । रोद॑सी॒ इति॑ । हि । म॒रुतः॑ । च॒क्रि॒रे । वृ॒धे । मद॑न्ति । वी॒राः । वि॒दथे॑षु । घृष्व॑यः ॥

Those swift, brave, fierce Maruts (ये सप्तयः वीराः घृष्वयः मरुतः), sons of Rudra (सुद्रस्य सूनव) who decorate themselves (प्र शुम्भन्ते) like wives (जनयः न) on the way (यामन्) (to a gathering), who perform great deeds (सुदंससः), who made heaven and earth prosper (रोदसी वृधे चक्रिरे हि) , and who revel in the sacrifices (विदथेषु मदन्ति) (by drinking soma) (continued…)

Notes

  • शुम्भन्ते – from शुम्भ दीप्तौ (भ्वादिः)
  • जनयः – nominative plural of जनिः from जन् + इन् (इन्सर्वधातुभ्यः) – जायन्ते आस्वपत्यानीति जनयो जायाः

त उ॑क्षि॒तासो॑ महि॒मान॑माशत दि॒वि रु॒द्रासो॒ अधि॑ चक्रिरे॒ सद॑: । अर्च॑न्तो अ॒र्कं ज॒नय॑न्त इन्द्रि॒यमधि॒ श्रियो॑ दधिरे॒ पृश्नि॑मातरः ॥ २ ॥

ते । उ॒क्षि॒तासः॑ । म॒हि॒मान॑म् । आ॒श॒त॒ । दि॒वि । रु॒द्रासः॑ । अधि॑ । च॒क्रि॒रे॒ । सदः॑ । अर्च॑न्तः । अ॒र्कम् । ज॒नय॑न्तः । इ॒न्द्रि॒यम् । अधि॑ । श्रियः॑ । द॒धि॒रे॒ । पृश्नि॑ऽमातरः ॥

… those (Maruts) (ते) , sons of Rudra (रुद्रासः), moistened (उक्षितासः), attained grandeur (महिमानम् आशत) and made their residence (सधः चक्रिरे) in heaven (दिवि अधि). Worshiping (अर्चन्तः) the one worthy of worship (अर्कम्) (i.e. Indra), the sons of Pṛśni (earth) (पृश्निमातरः), producing courage (इन्द्रियम् जनयन्तः), they became most exalted (श्रियं अधि दधिरे) .

Notes

  • इन्द्रियम् – a distinguishing quality of Indra
  • पृश्निः – प्राश्नुते सर्वाणि रूपाणीति पृश्निर्भूमिः

गोमा॑तरो॒ यच्छु॒भय॑न्ते अ॒ञ्जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः । बाध॑न्ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा॑न्येषा॒मनु॑ रीयते घृ॒तम् ॥ ३ ॥

गोऽमा॑तरः॑ । यत् । शु॒भय॑न्ते । अ॒ञ्जिऽभिः॑ । त॒नूषु॑ । शु॒भ्राः । द॒धि॒रे॒ । वि॒रुक्म॑तः । बाध॑न्ते । विश्व॑म् । अ॒भि॒ऽमा॒तिन॑म् । अप॑ । वर्त्मा॑नि । ए॒षा॒म् । अनु॑ । री॒य॒ते॒ । घृ॒तम् ॥

Sons of the earth (गोमातरः), when they shimmer by their ornaments (यत् अञ्जिभिः शुभयन्ते), the shining ones (सुभ्राः) hold a special lustre (विरुक्मताः दधिरे) in their bodies (तनूषु). They overpower all the enemies (विश्वम् अभिमातिमम् अप बाधन्ते), and water flows down (घृतं रीयते) (as rain) along their path (एषां वर्त्मानि अनु).

Notes

  • विरुक्मतः – विशिष्टा रुक् विरुक् । तद्वन्तो विरुक्मतः ।
  • रीयते – रीङ् स्रवणे (दिवादिः) + लट्

वि ये भ्राज॑न्ते॒ सुम॑खास ऋ॒ष्टिभि॑: प्रच्या॒वय॑न्तो॒ अच्यु॑ता चि॒दोज॑सा । म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष॑व्रातास॒: पृष॑ती॒रयु॑ग्ध्वम् ॥ ४ ॥

वि । ये । भ्राज॑न्ते । सुऽम॑खासः । ऋ॒ष्टिऽभिः॑ । प्र॒ऽच्य॒वय॑न्तः । अच्यु॑ता । चि॒त् । ओज॑सा । म॒नः॒ऽजुवः॑ । यत् । म॒रु॒तः॒ । रथे॑षु । आ । वृष॑ऽव्रातासः । पृष॑तीः । अयु॑ग्ध्वम् ॥

Propitiated though grand sacrifices (सुमखासः), they shine with their weapons (ये ऋष्टिभिः वि भ्राजन्ते), splitting apart (प्रच्यावयन्तः) by their strength (ओजसा) even those that cannot be split (अच्युता चित्) (mountains etc.). O Maruts (मरुतः)! When you, swift as the mind (मनोजुवः), accompanied by masses of rain clouds (वृषव्रातासः) yoked (यत् आयुग्ध्वम्) the spotted ones (पृषतीः) to your chariots (रथेषु) (then you perform glorious deeds mentioned).

Note: पृषतीः – the spotted ones or the ones with drops, said to used by the Maruts – पृषत्यो मरुताम् (Nighaṇṭu 1.15.6), probably a reference to water droplets in the air

प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हय॑न्तः । उ॒तारु॒षस्य॒ वि ष्य॑न्ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्यु॑न्दन्ति॒ भूम॑ ॥ ५ ॥

प्र । यत् । रथे॑षु । पृष॑तीः । अयु॑ग्ध्वम् । वाजे॑ । अद्रि॑म् । म॒रु॒तः॒ । रं॒हय॑न्तः । उ॒त । अ॒रु॒षस्य॑ । वि । स्य॒न्ति॒ । धाराः॑ । चर्म॑ऽइव । उ॒दऽभिः॑ । वि । उ॒न्दन्ति॑ । भूम॑ ॥

O Maruts (मरुतः)! When you yoke (यत् प्र अयुग्ध्वम्) the moistened air (पृषतीः) to your chariots (रथेषु), urging on the cloud (अद्रिं रंहयन्तः) (to create rain) for food (वाजे) , then accompanied by lightning (उत अरुषस्य), the streams (धाराः) flow down (वि स्यन्ति) and moisten the earth with water (उदभिः भूम वि उन्दन्ति) as (they would moisten) a skin (चर्म इव).

आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑न॒: प्र जि॑गात बा॒हुभि॑: । सीद॒ता ब॒र्हिरु॒रु व॒: सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥ ६ ॥

आ । वः॒ । व॒ह॒न्तु॒ । सप्त॑यः । र॒घु॒ऽस्यदः॑ । र॒घु॒ऽपत्वा॑नः । प्र । जि॒गा॒त॒ । बा॒हुऽभिः॑ । सीद॑ता । ब॒र्हिः । उ॒रु । वः॒ । सदः॑ । कृ॒तम् । मा॒दय॑ध्वम् । म॒रु॒तः॒ । मध्वः॑ । अन्ध॑सः ॥

May the speedy horses (रघुष्यदः सप्तयः) bring you here (वः आ वहन्तु), and coming expeditiously (रघुपत्वानः), make haste (प्र जिगात) with arms (बाहुभिः) (full of gifts for us)! O Maruts (मरुतः)! Your place has been made spacious (वः सदः उरु कृतम्), take your seat on the grass (बर्हिः सीदता) and take delight (मादयध्वम्) in this sweet drink of soma (मध्वः अन्धसः)!

ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सद॑: । विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ॥ ७ ॥

ते । अ॒व॒र्ध॒न्त॒ । स्वऽत॑वसः । म॒हि॒ऽत्व॒ना । आ । नाक॑म् । त॒स्थुः । उ॒रु । च॒क्रि॒रे॒ । सदः॑ । विष्णुः॑ । यत् । ह॒ । आव॑त् । वृष॑णम् । म॒द॒ऽच्युत॑म् । वयः॑ । न । सी॒द॒न् । अधि॑ । ब॒र्हिषि॑ । प्रि॒ये ॥

Those (ते) (Maruts) have attained glory (अवर्धन्त) by their own vitality (स्वतवसः). By their grandeur (महित्वना) they dwell in the heavens (नाकम् आ तस्थुः) and made a spacious home there (उरु सदः चक्रिरे). When Viṣṇu protects (विष्णुः यत् आवत् ह) the delightful and bounteous (मदच्युतं वृषण्म्) (sacrifice), then (O Maruts) come towards this sacrifice (अधि बर्हिषि) like birds (वयः न) (quickly and from afar) and, being pleased, take your seat (प्रिये सीदन्)!

शूरा॑ इ॒वेद्‍युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे । भय॑न्ते॒ विश्वा॒ भुव॑ना म॒रुद्भ्यो॒ राजा॑न इव त्वे॒षसं॑दृशो॒ नर॑: ॥ ८ ॥

शूराः॑ऽइव । इत् । युयु॑धयः । न । जग्म॑यः । श्र॒व॒स्यवः॑ । न । पृत॑नासु । ये॒ति॒रे॒ । भय॑न्ते । विश्वा॑ । भुव॑ना । म॒रुत्ऽभ्यः॑ । राजा॑नःऽइव । त्वे॒षऽस॑न्दृशः । नरः॑ ॥

Fighting like brave warriors (शूराःइव युयुधयः न इत्), moving quickly (जग्मयः), they engage in battle (पृतनासु येतिरे) like those who desire the fame (श्रवस्यवः न) (of victory). All the beings (विश्वा भुवना) fear the Maruts (मरुद्भ्यः भयन्ते), who are emperors (राजानःइव), leaders with resplendent forms (त्वेषसंदृशः नरः).

त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं॑ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् । ध॒त्त इन्द्रो॒ नर्यपां॑सि॒ कर्त॒वेऽह॑न्वृ॒त्रं निर॒पामौ॑ब्जदर्ण॒वम् ॥ ९ ॥

त्वष्टा॑ । यत् । वज्र॑म् । सुऽकृ॑तम् । हि॒र॒ण्यय॑म् । स॒हस्र॑ऽभृष्टिम् । सु॒ऽअपाः॑ । अव॑र्तयत् । ध॒त्ते । इन्द्रः॑ । नरि॑ । अपां॑सि । कर्त॑वे । अह॑न् । वृ॒त्रम् । निः । अ॒पाम् । औ॒ब्ज॒त् । अ॒र्ण॒वम् ॥

When Tvaṣṭṛ (त्वाष्टा) of great deeds (स्वपाः) gave (Indra) a well-made (सुकृत्म्), golden (हिरण्ययम्), thousand-edged (सहस्रभृष्टिम्) thunderbolt (यत् वज्रम् अवर्तयत्), Indra bore it (इन्द्रः धत्ते) to perform valorous deeds during battle (नरि अपांसि कर्तवे) . He slew the water-filled cloud (अर्णवं वृत्रम्) and made the waters flow down (अपाम् नि औब्जत्).

Note: नरि – अत्र नृसंबन्धात् नृशब्देन संग्रामोऽभिधीयते (सायणः)

In his commentary on the next verse, Sāyaṇa narrates an anecdote about how the Maruts brought a well from far away to provide water to the thirsty Gotama.

ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तम् । धम॑न्तो वा॒णं म॒रुत॑: सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥ १० ॥

ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । ते । ओज॑सा । द॒दृ॒हा॒णम् । चि॒त् । बि॒भि॒दुः॒ । वि । पर्व॑तम् । धम॑न्तः । वा॒णम् । म॒रुतः॑ । सु॒ऽदान॑वः । मदे॑ । सोम॑स्य । रण्या॑नि । च॒क्रि॒रे॒ ॥

They (ते) (the Maruts) uprooted a well (अवतम् ऊर्ध्वम् नुनुद्रे) by their strength (ओजसा) , (and while bringing it to Gotama), they split open (वि बिभिदुः) the mountain what was obstructing them (दादृहाणं पर्वतं चित्). Playing the vīṇā (वाणं धमन्तः), the generous Maruts (सुदानवः मरुतः), in the ecstasy created by (drinking) soma (सोमस्य मदे) created delightful gifts (रण्यानि चक्रिरे) (for the worshipers).

Note: अवतः is listed among the names for “well” in Nighaṇṭu 3.23

जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासि॑ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ । आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा॑नव॒: कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ॥ ११ ॥

जि॒ह्मम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । तया॑ । दि॒शा । असि॑ञ्चन् । उत्स॑म् । गोत॑माय । तृ॒ष्णऽजे॑ । आ । ग॒च्छ॒न्ति॒ । ई॒म् । अव॑सा । चि॒त्रऽभा॑नवः । काम॑म् । विप्र॑स्य । त॒र्प॒य॒न्त॒ । धाम॑ऽभिः ॥

The took the well (अवतम्) across (जिह्मं नुनुद्रे) in the direction (तया दिशा) (of the āśrama of Gotama) and brought out a flood of waters (उत्सम् असिञ्चन्) for the thirsty Gotama (तृष्णजे गोतमाय). The brilliantly shining ones (चित्रभानवः) approached him (ईम् आ गच्छन्ति) with their protection (अवसा) and fulfilled (तर्पयन्त) his wish (विप्रस्य कामम्) by their gifts of waters (धामभिः).

या व॒: शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीर॑म् ॥ १२ ॥

या । वः॒ । शर्म॑ । श॒श॒मा॒नाय॑ । सन्ति॑ । त्रि॒ऽधातू॑नि । दा॒शुषे॑ । य॒च्छ॒त॒ । अधि॑ । अ॒स्मभ्य॑म् । तानि॑ । म॒रु॒तः॒ । वि । य॒न्त॒ । र॒यिम् । नः॒ । ध॒त्त॒ । वृ॒ष॒णः॒ । सु॒ऽवीर॑म् ॥

(O Maruts)! Whatever pleasures you have created in the three worlds (यः वः त्रिधातूनि शर्म सन्ति) for the worshiper (शशमानाय), bestow them abundantly upon the patron (who makes the offering) (दाशुषे अधि यच्छत) . O Maruts (मरुतः) bestow those gifts on us (अस्मभ्यं तानि वि यन्त). O benevolent ones (वृषणः) give us wealth (नः रयिं धत्त) and warrior-like sons (सुवीरम्)!


RV1.84     RV1.86    RV Mandala 1      RigVeda

 

Advertisements