RV1.89

ऋषिः  – गोतमः राहूगणः । देवता – वेश्वे देवाः (1-7), देवाः (8,9), अदितिः (10) । छन्दः – जगती (1-5,7), विराट्स्थाना (6), त्रिष्टुप् (8-10) ।

‘आ नो भद्राः’ इति दशर्चं पञ्चमं सूक्तम् । गोतमस्यार्षं वैश्वदेवम् । आदितः पञ्चर्चः सप्तमी च जगत्यः षष्ठी ’स्वस्ति न इन्द्रः’ विराट्स्थाना । ’नवकौ वैराजस्त्रैष्टुभश्च’ (अनु. ९.५) इत्युक्तलक्षणयोगात् । अष्टम्याद्यास्तिस्रस्त्रिष्टुभः । तथा चानुक्रान्तम् – ’आ नो दश वैश्वदेवं तु पञ्चाद्याः सप्तमी च जगत्यः षष्ठी विराट्‍स्थाना’ इति । अग्निष्टोमे वैश्वदेवशस्त्रे उत्तमावर्जमेतत्सूक्तं वैश्वदेवनिविद्धानीयम् । सा तु प्रकृतौ च वैश्वदेवशस्त्रस्य परिधानीया । तथा च सूत्रितम् – ’ आ नो भद्राः क्रतवो यन्तु विश्वत इति नव वैश्वदेवम्’ इति, ’अदितिर्द्यौरदितिरन्तरिक्षमिति पतिदध्यात्सर्वत्र वैश्वदेवे’ (आश्व. श्रौ. ५.१८) इति च । ब्राह्मणं च भवति – ’सदैव पञ्चजनीयया परिदध्यात्’ (ऐ. ब्रा. ३.३१) इति । महाव्रते निष्केवल्ये एतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्र्यते – ’आनोभद्रीयं च तस्य स्थाने’ (ऐ. ब्रा. ५.३.२) इति ॥

This is a well known sūkta authored by Gotama Rāhūgaṇa. Verses 6 (स्वस्ति न इन्द्रः) and 8 (भद्रं कर्णॆभिः) are used as a śāntipāṭha in the Taittirīya Āraṇyaka, though in the reverse order (i.e. verse 8 first).

आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिद॑: । दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥ १ ॥

आ । नः॒ । भ॒द्राः । क्रत॑वः । य॒न्तु॒ । वि॒श्वतः॑ । अद॑ब्धासः । अप॑रिऽइतासः । उ॒त्ऽभिदः॑ । दे॒वाः । नः॒ । यथा॑ । सद॑म् । इत् । वृ॒धे । अस॑न् । अप्र॑ऽआयुवः । र॒क्षि॒तारः॑ । दि॒वेऽदि॑वे ॥

May auspicious (भद्राः), undiminished (अदब्धासः), unimpeded (अपरीतासः), and victorious (उद्भिदः) works (क्रतवः) come to us (नः आ यन्तु) from all directions (विश्वतः), so that (यथा) the gods (देवाः), protecting us every day (दिवेदिवे रक्षितारः) and not abandoning us (अप्रायुवः) may always be with us (सदम् इत् असन्) for our prosperity (नः वृधे).

Notes

  • Sāyaṇa interprets क्रतुः (from कृ – to do + अतु – करोति क्रियते वा) as यज्ञः which is indeed the normal meaning of the word.  The Amarakośa lists it among the synonyms of  yajña:
    • यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ अमरकोशः २.७.१३ ॥
    • Also, क्रतुर्यज्ञे मुनौ पुंसि (मेदिनी तान्तवर्गः ८ )
    • But क्रतुः can also mean work, power, capability, intelligence etc.
  • उद्भिदः – from उत् (up) and भिद् (to split), interpreted by Sāyaṇa as ‘destroyers of enemies’, hence victorious

दे॒वानां॑ भ॒द्रा सु॑म॒तिॠ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् । दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयु॒: प्र ति॑रन्तु जी॒वसे॑ ॥ २ ॥

दे॒वाना॑म् । भ॒द्रा । सु॒ऽम॒तिः । ऋ॒जु॒ऽय॒ताम् । दे॒वाना॑म् । रा॒तिः । अ॒भि । नः॒ । नि । व॒र्त॒ता॒म् । दे॒वाना॑म् । स॒ख्यम् । उप॑ । से॒दि॒म॒ । व॒यम् । दे॒वाः । नः॒ । आयुः॑ । प्र । ति॒र॒न्तु॒ । जी॒वसे॑ ॥

May the auspicious blessing (भद्रा सुमतिः) of the gods (देवानाम्) be on the the sincere (ऋजूयताम्), and may their gifts (देवानाम् रातिः) always (नि) keep coming to us (नः अभि वर्तताम्)! May we obtain (वयम् उप् सेदिम) the friendship of the gods (देवानाम् सख्यम्), and may the gods (देवाः) extend (प्र तिरन्तु) our life-span (नः आयुः) so that we may live longer (जीवसे)!

तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् । अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥ ३ ॥

तान् । पूर्व॑या । नि॒ऽविदा॑ । हू॒म॒हे॒ । व॒यम् । भग॑म् । मि॒त्रम् । अदि॑तिम् । दक्ष॑म् । अ॒स्रिध॑म् । अ॒र्य॒मण॑म् । वरु॑णम् । सोम॑म् । अ॒श्विना॑ । सर॑स्वती । नः॒ । सु॒ऽभगा॑ । मयः॑ । क॒र॒त् ॥

We invoke those (वयम् तान् हूमहे) (gods) – Bhaga (भगम्), Mitra (मित्रम्), Aditi (अदितिम्), Dakṣa (दक्षम्), Asridha (अस्रिधम्) (Maruts), Aryaman (अर्यमणम्), Varuṇa (वरुणम्), Soma (सोमम्), Aśvins (अश्विना) using the ancient Nivid (पूर्वया निविदा). May the auspicious Sarasvatī (सुभगा सरस्वती) create happiness for us (नः मयः करत्)!

Notes

  • Nivids are ancient mantras that are often inserted at various points in the invocations to the gods. For more on the Nivids, see Aitareya Brāhmaṇa 11.3
  • अस्रिधम् – शोषणरहितं सर्वादैकरूपेण वर्तमानम् मरुद्गणम् (सायणः) – the group of Maruts (winds) that never get dry

तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः । तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥ ४ ॥

तत् । नः॒ । वातः॑ । म॒यः॒ऽभु । वा॒तु॒ । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः । तत् । ग्रावा॑णः । सो॒म॒ऽसुतः॑ । म॒यः॒ऽभुवः॑ । तत् । अ॒श्वि॒ना॒ । शृ॒णु॒त॒म् । धि॒ष्ण्या॒ । यु॒वम् ॥

May the wind (वातः), mother earth (माता पृथिवी), and father sky (पिता द्यौः) bring us (नः वातु) that soothing remedy (तत् मयोभु भेषजम्)! May the soma-extracting stone (सोमसुतः ग्रावाणः) that brings felicity (मयोभुवः) (as a result of the sacrifice), bring us that (तत्) (happiness). O wise Aśvins (धिष्ण्या अश्विना)! Listen to our invocation (युवम् शृणुतम्).

तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥ ५ ॥

तम् । ईशा॑नम् । जग॑तः । त॒स्थुषः॑ । पति॑म् । धि॒य॒म्ऽजि॒न्वम् । अव॑से । हू॒म॒हे॒ । व॒यम् । पू॒षा । नः॒ । यथा॑ । वेद॑साम् । अस॑त् । वृ॒धे । र॒क्षि॒ता । पा॒युः । अद॑ब्धः । स्व॒स्तये॑ ॥

We call (वयम् हूमहे) on that ruler (तम् ईशानम्), lord (पतिम्) of all that is in motion (जगतः) and at rest (तस्थुषः), gratified by our thougths (धियंजिन्वम्), for our protection (अवसे)! May the unimpeded (अदब्धः) Pūṣan (पूषा), who always increases our wealth (यथा नः वेदसाम् वृधे असत्), be our protector (पायुः) for our well-being (स्वस्तये)!

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ६ ॥

स्व॒स्ति । नः॒ । इन्द्रः॑ । वृ॒द्धऽश्र॑वाः । स्व॒स्ति । नः॒ । पू॒षा । वि॒श्वऽवे॑दाः । स्व॒स्ति । नः॒ । तार्क्ष्यः॑ । अरि॑ष्टऽनेमिः । स्व॒स्ति । नः॒ । बृह॒स्पतिः॑ । द॒धा॒तु॒ ॥

May the renowned Indra (वृद्धश्रवाः इन्द्रः), the all-knowing Pūṣan (विश्ववेदाः पूषा), Tārkṣya with un-damaged circumference (तार्क्ष्यः अरिष्टनेमिः) (sun), and Bṛhaspati (बृहस्पतिः) place well-being in us (नः स्वस्ति दधातु)!

Note: नेमिः means circumference (as of a wheel-rim). The sun is called अरिष्टनेमिः because its circumference is always constant (except during an eclipse) as opposed to the moon, whose circumference keeps changing

पृष॑दश्वा म॒रुत॒: पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः । अ॒ग्नि॒जि॒ह्वा मन॑व॒: सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥ ७ ॥

पृष॑त्ऽअश्वाः । म॒रुतः॑ । पृश्नि॑ऽमातरः । शु॒भ॒म्ऽयावा॑नः । वि॒दथे॑षु । जग्म॑यः । अ॒ग्नि॒ऽजि॒ह्वाः । मन॑वः । सूर॑ऽचक्षसः । विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न् । इ॒ह ॥

May the Maruts (मरुतः), with spotted horses (पृषदश्वाः), whose mother has varied colors (पृश्निमातरः), with a pleasant gait (शुभंयावानः), who visit sacrifices (विदथेषु जग्मयः), fire-tongued (अग्निजिह्वाः), all-knowing (मनवः), brilliant as the sun (सूरचक्षसः), along with all the gods (विश्वे देवाः), come here (इह आ गमन्) for our protection (नः स्वस्तये)!

भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑: ॥ ८ ॥

भ॒द्रम् । कर्णे॑भिः । शृ॒णु॒या॒म॒ । दे॒वाः॒ । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्षऽभिः॑ । य॒ज॒त्राः॒ । स्थि॒रैः । अङ्गैः॑ । तु॒स्तु॒ऽवांसः॑ । त॒नूभिः॑ । वि । अ॒शे॒म॒ । दे॒वऽहि॑तम् । यत् । आयुः॑ ॥

O Gods (देवाः)! May we listen (शृणुयाम) to auspicious things (भद्रम्) with our ears (कर्णेभिः)! O worshipped ones (यजत्राः)! May we see (पश्येम) auspicious things (भद्रम्) with our eyes (अक्षभिः)! With firm limbs (स्थिरैः अङ्गैः) and bodies (तनूभिः), singing your praises (तुष्टुवांसः), may we attain (व्यशेम) the long life (यत् आयुः) ordained by the gods (देवहितम्)!

श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तो॑: ॥ ९ ॥

श॒तम् । इत् । नु । श॒रदः॑ । अन्ति॑ । दे॒वाः॒ । यत्र॑ । नः॒ । च॒क्र । ज॒रस॑म् । त॒नूना॑म् । पु॒त्रासः॑ । यत्र॑ । पि॒तरः॑ । भव॑न्ति । मा । नः॒ । म॒ध्या । रि॒रि॒ष॒त॒ । आयुः॑ । गन्तोः॑ ॥

O gods (देवाः)! We have been allotted (अन्ति) (a life of) one hundred autumns (शतम् इत् नु शरदः), in which (यत्र) (at the end) you have made (चक्र) our bodies worn-out (जरसम् तनूनाम्) , and in (the span of) which (यत्र) our sons become (पुत्रासः) fathers (पितरः भवन्ति). Do not cut down (मा रीरिषत) the attainment of the full span of life (आयुः गन्तोः) in the middle (मध्या)!

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑ति॒: पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥ १० ॥

अदि॑तिः । द्यौः । अदि॑तिः । अ॒न्तरि॑क्षम् । अदि॑तिः । मा॒ता । सः । पि॒ता । सः । पु॒त्रः । विश्वे॑ । दे॒वाः । अदि॑तिः । पञ्च॑ । जनाः॑ । अदि॑तिः । जा॒तम् । अदि॑तिः । जनि॑ऽत्वम् ॥

Aditi is heaven (अदितिः द्यौः), Aditi is the sky (अदितिः अन्तरिक्षम्), Aditi is the mother (अदितिः माता), father (सः पिता), and son (सः पुत्रः). Aditi is all the gods (अदितिः विश्वे देवाः) and the five tribes (पञ्चजनाः), Aditi is whatever was born (अदितिः जातम्) and what will be born (अदितिः जनित्वम्).

Note: The literal meaning of अदितिः is “unbroken” (from दो अवखण्डने) or “undecaying” (from दीङ् क्षये). Here the concept of Aditi seems to be similar to that of the Upaniṣadic Brahman, which is also identified with everything


RV1.88     RV1.90    RV Mandala 1      RigVeda
Advertisements