RV1.90

ऋषिः  – गोतमः राहूगणः । देवता – वेश्वे देवाः । छन्दः – गायत्री (1-8), अनुष्टुप् (9) ।

’ऋजुनीती’ इति नवर्चं षष्ठं सूक्तं गोतमस्यार्षम् । अत्रानुक्रम्येते – ’ऋजुनीती नव गायत्रमन्त्यानुष्टुप्’ इति । पूर्वत्र ’वैश्वदेवं तु’ इत्युक्तत्वात् तुह्यादिपरिभाषया इदमपि सूक्तं बहुदेवताकम् । सूक्तविनियोगो लैङ्गिकः । चातुर्विंशिकेऽहनि प्रतःसवने मैत्रावरुणस्य ’ॠजुनीती नः’ इत्येषा आरम्भणीया । ’चतुर्विंशे’ इति खण्डे सूत्रितम् – ’ऋजुनीती नो वरुण इन्द्रं वो विश्वतस्परि’ (आश्व. श्रौ. ७.२) इति । अहर्गणेषु द्वितीयादिष्वहःस्वप्येषारम्भणिया शंसनीया । सूत्रितं च – ’आरम्भणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव’ (आश्व श्रौ. ७.१) इति ॥

This sūkta by Gotama Rāhūgaṇa is addressed to various gods (विश्वेदेवाः).  It has some well known  Ṛks.   Ṛks 6 (मधु वाता ऋतायते),7 (मधु नक्तम्), and 8 (मधुमान्नः) are used in the offering of Madhuparka and are also part of the Trisuparṇa (chanted before having a meal) in the Taittirīya Āraṇyaka.  The last  ṛk (शन्नो मित्रः) is used in the Taittirīya Āraṇyaka as part of a Śāntipāṭha.

ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् । अ॒र्य॒मा दे॒वैः स॒जोषा॑: ॥ १ ॥

ऋ॒जु॒ऽनी॒ती । नः॒ । वरु॑णः । मि॒त्रः । न॒य॒तु॒ । वि॒द्वान् । अ॒र्य॒मा । दे॒वैः । स॒ऽजोषाः॑ ॥

May the wise (विद्वान्) Mitra (मित्रः) and Varuṇa (वरुणः) lead us by the right path (नः ऋजुनीती नयतु), and also Aryaman (अर्यमा), cherished equally (सजोषाः) with all the gods (देवैः).

Note: ऋजुनीती = ऋजुनीत्या – सुपाम् सुलुक् (पा. ९.१.३९) इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् ।

ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः । व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥ २ ॥

ते । हि । वस्वः॑ । वस॑वानाः । ते । अप्र॑ऽमूराः । महः॑ऽभिः । व्र॒ता । र॒क्ष॒न्ते॒ । वि॒श्वाहा॑ ॥

They (ते) (Mitra and Varuṇa), being undeluded (अप्रमूराः), are the spreaders of wealth (वस्वः वसवानाः हि). By their splendor (महोभिः) they protect (रक्षन्ते) all the works (व्रता).

ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः । बाध॑माना॒ अप॒ द्विष॑: ॥ ३ ॥

ते । अ॒स्मभ्यम् । शर्म॑ । यं॒स॒न् । अ॒मृताः॑ । मर्त्ये॑भ्यः । बाध॑मानाः । अप॑ । द्विषः॑ ॥

May the immortals (ते अमृताः) give happiness (शर्म यंसन्) to us mortals (अस्मभ्यं मर्त्येभ्यः), while disposing off (अप बाधमानाः) our enemies (द्विषः).

वि न॑: प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुत॑: । पू॒षा भगो॒ वन्द्या॑सः ॥ ४ ॥

वि । नः॒ । प॒थः । सु॒वि॒ताय॑ । चि॒यन्तु॑ । इन्द्रः॑ । म॒रुतः॑ । पू॒षा । भगः॑ । वन्द्या॑सः ॥

May the venerable (वन्द्यासः) Indra (ईन्द्रः), Maruts (मरुतः), Pūṣan (पूषा), and Bhaga (भगः) select the right paths (पथः वि चियन्तु) for us to attain our desire (सुविताय).

Note: पथिन् + शस् = पथः [by भस्य टेर्लोपः (पा. ७।१।८८)]

उ॒त नो॒ धियो॒ गोअ॑ग्रा॒: पूष॒न्विष्ण॒वेव॑यावः । कर्ता॑ नः स्वस्ति॒मत॑: ॥ ५ ॥

उ॒त । नः॒ । धियः॑ । गोऽअ॑ग्राः । पूष॑न् । विष्णो॒ उति॑ । एव॑ऽयावः । कर्त॑ । नः॒ । स्व॒स्ति॒ऽमतः॑ ॥

O Pūṣan (पूषन्), Viṣṇu (विष्णो) and Maruts (एवयावः)! Make our sacrifices (धियः) grant us cattle (गोअग्राः कर्त), and make us prosperous (नः स्वस्तिमतः).

Notes

  • एवयावः – एवैर्गन्तृभिरश्वैर्याति गच्छतीति एवयावा मरुद्गणः – the Maruts because they travel using swift horses
  • गोअग्राः – प्रकृतिभावः by सर्वत्र विभाषा गोः (पा. ६।१।१२२)
  • धियः – अप्तोर्यामलक्षणानि कर्माणि । अप्तोर्यामकर्मणश्च पशुप्राप्तिहेतुत्वमाम्नायते – ’यस्मात्पशवः प्रप्रेव भ्रंशेरन् स एतेन यजेत (तै. ब्रा. २.७.१४.२) (सायणः)

मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी॑र्नः स॒न्त्वोष॑धीः ॥ ६ ॥

मधु॑ । वाताः॑ । ऋ॒त॒य॒ते । मधु॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । माध्वीः॑ । नः॒ । स॒न्तु॒ । ओष॑धीः ॥

The winds (वाताः) blow sweetly (मधु) for the worshipper (ऋतायते), and the rivers (सिन्धवः) flow (क्षरन्ति) sweetly (मधु). May the herbs (ओषधीः) be sweet(नः माध्वीः) for us (नः).

Note: ऋतायते – ऋतमिच्छते – for the one who decides ऋतं (interpreted as यज्ञं by Sāyaṇa)

मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रज॑: । मधु॒ द्यौर॑स्तु नः पि॒ता ॥ ७ ॥

मधु॑ । नक्त॑म् । उ॒त । उ॒षसः॑ । मधु॑ऽमत् । पार्थि॑वम् । रजः॑ । मधु॑ । द्यौः । अ॒स्तु॒ । नः॒ । पि॒ता ॥

May the night (नक्तम्) be sweet (मधु), and (उत) may the dawns (उषसः) be sweet (मधु), may the earthly world (पार्थिवं रजः) be full of sweetness (मधुमत्), and may our father (द्यौः पिता), the sky be sweet (मधु)!

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्य॑: । माध्वी॒र्गावो॑ भवन्तु नः ॥ ८ ॥

मधु॑ऽमान् । नः॒ । वन॒स्पतिः॑ । मधु॑ऽमान् । अ॒स्तु॒ । सूर्यः॑ । माध्वीः॑ । गावः॑ । भ॒व॒न्तु॒ । नः॒ ॥

May the forest tree (वनस्पतिः) and the sun (सूर्यः) be full of sweetness to us (नः मधुमान्), may our cows (नः गावः) be full of sweet milk (माध्वीः भवन्तु)!

शं नो॑ मि॒त्रः शं वरु॑ण॒: शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पति॒: शं नो॒ विष्णु॑रुरुक्र॒मः ॥ ९ ॥

शम् । नः॒ । मि॒त्रः । शम् । वरु॑णः॒ । शम् । नः॒ । भ॒व॒तु॒ । अ॒र्य॒मा । शम् । नः॒ । इन्द्रः॑ । बृह॒स्पतिः॑ । शम् । नः॒ । विष्णुः॑ । उ॒रु॒ऽक्र॒मः ॥

May Mitra (मित्रः), Varuṇa (वरुणः), Aryaman (अर्यमा), Indra (इन्द्रः), Bṛhaspati (बृहस्पतिः), and the wide-strided Viṣṇu (उरुक्रमः विष्णुः) (sun) be gracious towards us (नः शं भवतु)!


RV1.89     RV1.91    RV Mandala 1      RigVeda
Advertisements