RV10.10

ऋषिः  – वैवस्वती यमी (1,3,5-7,11,13), यमः वैवस्वतः (2,4,8-10,12,14) । देवता – यमः (1,3,5-7,11,13), यमी (2,4,8-10,12,14) । छन्दः – त्रिष्टुप् ।

’ओ चित्’ इति चतुर्दशर्चं दशमं सूक्तम् । अत्रानुक्रम्यते – ’ओ चित्षळूना वैवस्वतयोर्यमयम्योः संवादः षष्ठ्ययुग्भिर्यमी मिथुनार्थं यमं प्रोवाच स तां नवमीयुग्भिरनिच्छन् प्रत्याचष्टे’ इति । ततः षष्ठ्यां प्रथमातृतीयाद्युक्षु विवस्वतः पुत्री यम्यृषिर्यमो देवता । ’यस्य वाक्यं स ऋषिर्या तेनोच्यते सा देवता’ इति न्यायात् । तथा नवम्यां द्वितीयाचतुर्थीप्रभृतिषु युक्षु वैवस्वतो यम ऋषिर्यमी देवता । अनादेशपरिभाषया त्रिष्टुप् । गतो विनियोगः ॥

This sūkta is written in the form of a dialog between Yama and his twin sister Yamī. The parents of Yama and Yamī are considered to be the sun and the goddess of the clouds. Yama is generally regarded as the first mortal to have become immortal, having conquered death. He is the ruler of the world of the ancestors where everyone goes to after they die. The sūkta is self explantory; however it is not clear as to for what purpose it was composed. Was it to end the practice of incest between brother and sister or is it an allegory? If it is an allegory, there is no satisfactory explanation.

Most translators assume incorrectly that the verses are spoken alternately by Yama and Yamī. The anukramaṇī clarifies that verses 1,3,5,6,7,11, and 13 are spoken by Yamī (who approached Yama desiring sexual intercourse) to Yama, and the rest by Yama (who repudiates her) to Yamī.

ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् । पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥ १ ॥

ओ इति॑ । चि॒त् । सखा॑यम् । स॒ख्या । व॒वृ॒त्या॒म् । ति॒रः । पु॒रु । चि॒त् । अ॒र्ण॒वम् । ज॒ग॒न्वान् । पि॒तुः । नपा॑तम् । आ । द॒धी॒त॒ । वे॒धाः । अधि॑ । क्षमि॑ । प्र॒ऽत॒रम् । दीध्या॑नः ॥

[Yamī:] Having reached (जगन्वान्) a remote (तिरः) (island) in the wide ocean (पुरु अर्णवं चित्), I make my friend (सखायम्) (Yama, who dwelt in the womb with me), come towards me (ओ ववृत्याम्) for companionship (सख्या). May Prajāpati (वेधाः), contemplating (दीध्यानः) (what is best for us), bestow us with offspring (नपातं आ दधीत) for the (future) father (पितुः) (that is, you) here on earth (अधि क्षमि).

NoteSāyaṇa explains the real intention of Yamī – आभिमुख्येन स्थित्वा लज्जां परित्यज्य त्वत्संभोगं करोमीत्यर्थः ।

न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति । म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥ २ ॥

न । ते॒ । सखा॑ । स॒ख्यम् । व॒ष्टि॒ । ए॒तत् । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति । म॒हः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । दि॒वः । ध॒र्तारः॑ । उ॒र्वि॒या । परि॑ । ख्य॒न् ॥

[Yama:] Your friend (ते सखा) does not desire (न वष्टि) this intimacy (एतत् सख्यम्), which would make one born of the same womb (यत् सलक्ष्मा) be treated as different (विषुरूपा भवाति) (i.e. as if she were of a different family). The brave warriors (वीराः), sons of the life-bestowing great one (Prajāpati) (महः असुरस्य पुत्रासः), upholders of vast heaven (उर्विया दिवः धर्तारः) will thoroughly censure us (परि ख्यन्) (for this act).

NoteSāyaṇa‘s commentary on this verse is incomplete, specifically missing is the explanation of the last three words. However he explains परि ख्यन् in his commentary on 1.162.1 as परिखायानं मा कुर्वन्तु । परिख्यानं नाम निन्दा and on 7.94.8 as परित्यज्यान्यान् द्राक्षुः ।

उ॒शन्ति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य । नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्यु॒: पति॑स्त॒न्व१मा वि॑विश्याः ॥ ३ ॥

उ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑सः । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य । नि । ते॒ । मनः॑ । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्युः॑ । पतिः॑ । त॒न्व॑म् । आ । वि॒वि॒श्याः॒ ॥

[Yamī:] Even those immortals (ते अमृतासः घ) desire women folk (एतत् त्यजसम् उशन्ति) for only one purpose (एकस्य चित्) of man (मर्त्यस्य) (i.e. procreation). Therefore place (नि धायि) your mind (ते मनः) in mine (अस्मे मनसि), (just as) a husband (पतिः), being a progenitor (जन्युः) enters the body (तन्वं आ विविश्याः) (of his wife).

Note: त्यजसम् – त्यज्यते परस्मै प्रदीयत इति त्यजसं दुहितृभगिन्यादिस्त्रीजातम् – women folk, because they are given over (in marriage) to others

न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वद॑न्तो॒ अनृ॑तं रपेम । ग॒न्ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नो॒ नाभि॑: पर॒मं जा॒मि तन्नौ॑ ॥ ४ ॥

न । यत् । पु॒रा । च॒कृ॒म॒ । कत् । ह॒ । नू॒नम् । ऋ॒ता । वद॑न्तः । अनृ॑तम् । र॒पे॒म॒ । ग॒न्ध॒र्वः । अ॒प्ऽसु । अप्या॑ । च॒ । योषा॑ । सा । नः॒ । नाभिः॑ । प॒र॒मम् । जा॒मि । तत् । नौ॒ ॥

[Yama:] What we never did earlier (यत् न पुरा चकृम), how indeed can we (कत् ह नूनम्), who speak truth (ऋता वदन्तः), resort to that which is not right (अनृतम् रपेम)? The sun (गन्धर्वः) and the lady of the heavens (सा अप्या योषा च) in the waters (अप्सु) (i.e. सरण्यू, the goddess of clouds), are our parents (नः नाभिः), therefore our relationship (तत् नौ जामि) is sacred (परमम्).

Notes

  • गन्धर्वः – गवां रश्मीनामुदकानां वा धारयिता आदित्यः
  • सूर्यः and सरण्यू are considered to be the parents of यमः and यमी
  • नाभिः – उत्पत्तिस्थानम् – मातापितरौ – place of birth, i.e. parents

गर्भे॒ नु नौ॑ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः । नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥ ५ ॥

गर्भे॑ । नु । नौ॒ । ज॒नि॒ता । दम्प॑ती॒ इति॒ दम्ऽप॑ती । कः॒ । दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः । नकिः॑ । अ॒स्य॒ । प्र । मि॒न॒न्ति॒ । व्र॒तानि॑ । वेद॑ । नौ॒ । अ॒स्य । पृ॒थि॒वी । उ॒त । द्यौः ॥

[Yamī:] Tvaṣṭṛ (त्वष्टा), Savitṛ (सविता), and the lord who takes all forms and creator Prajāpati (देवः विश्वरूपः जनिता प्रजापतिः) have made us husband and wife (नौ दम्पती कः) even while we were in the womb (गर्भे नु). No one (नकिः) can thwart (प्र मिनन्ति) his ordinance (अस्य व्रतानि), and heaven and earth (द्यौः उत पृथिवी) know (वेद) of this (union) of ours (अस्य नौ).

को अ॒स्य वे॑द प्रथ॒मस्याह्न॒: क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत् । बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥ ६ ॥

कः । अ॒स्य । वे॒द॒ । प्र॒थ॒मस्य॑ । अह्नः॑ । कः । ई॒म् । द॒द॒र्श॒ । कः । इ॒ह । प्र । वो॒च॒त् । बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । कत् । ऊँ॒ इति॑ । ब्र॒वः॒ । आ॒ह॒नः॒ । वीच्या॑ । नॄन् ॥

[Yamī:] Who can know (कः वेद) of the first day (प्रथमस्य अह्नः) of this (union) (अस्य)? Who will see it (कः ईम् ददर्श) and who will reveal it here (कः इह प्रवोचत्)? (i.e. no one will know about this). What do you say to this (कद् उ ब्रवः), you who hard-hearted one (आहनः) who punish men with hell (वीच्या नॄन्) in the vast abode of Mitra and Varuṇa (बृहत् मित्रस्य वरुणस्य धाम)?

Note: आहनः – hard hearted, sharp-tongued, cruel, from आ + हन् (to injure, kill), also used in verse 8

य॒मस्य॑ मा य॒म्यं१ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य । जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥ ७ ॥

य॒मस्य॑ । मा॒ । य॒म्य॑म् । कामः॑ । आ । अ॒ग॒न् । स॒मा॒ने । योनौ॑ । स॒ह॒ऽशेय्या॑य । जा॒याऽइ॑व । पत्ये॑ । त॒न्व॑म् । रि॒रि॒च्या॒म् । वि । चि॒त् । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥

[Yamī:] May the desire of Yama (यमस्य कामः) come towards me, Yamī (मा यम्यम् आगन्), so that we may lie in the same place (bed) (समाने योनौ सहशेय्याय). I will reveal my body (to him) (तनवं रिरिच्याम्) like a wife to her husband (जायाइव पत्ये) , let us exert ourselves together (वि वृहेव चित्) (to fulfill our responsibilities) like the wheels of a chariot (रथ्येव चक्रा)!

Note: यम्यम् = यमीम् – this is an exception to अमि पूर्वः (६।१।१०७)

न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चर॑न्ति । अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥ ८ ॥

न । ति॒ष्ठ॒न्ति॒ । न । नि । मि॒ष॒न्ति॒ । ए॒ते । दे॒वाना॑म् । स्पशः॑ । इ॒ह । ये । चर॑न्ति । अ॒न्येन॑ । मत् । आ॒ह॒नः॒ । या॒हि॒ । तूय॑म् । तेन॑ । वि । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥

[Yama:] In this world (इह), these spies of the gods (एते देवानां स्पशः) who move about (ये चरन्ति) do not stop (न तिष्ठन्ति) or blink their eyes (न नि मिषन्ति) (i.e. they are constantly on the move, observing everything). O cruel one (आहनः)! Quickly approach (तूयं याहि) someone other than me (मत् अन्येन), and cohabit with him (तेन वि वृह) like the wheels of a chariot (रथ्येव चक्रा)!

रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् । दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब॑न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥ ९ ॥

रात्री॑भिः । अ॒स्मै॒ । अह॑ऽभिः । द॒श॒स्ये॒त् । सूर्य॑स्य । चक्षुः॑ । मुहुः॑ । उत् । मि॒मी॒या॒त् । दि॒वा । पृ॒थि॒व्या । मि॒थु॒ना । सब॑न्धू॒ इति॒ सऽब॑न्धू । य॒मीः । य॒मस्य॑ । बि॒भृ॒या॒त् । अजा॑मि ॥

[Yama:] May (the worshipper) offer him (Yama) (अस्मै दशस्येत्) by night and day (रात्रीभिः अहभिः), and may the light of the sun (सुर्यस्य चक्षुः) always shine on him (मुहुः उन्मिमीयात्)! We are kin (सबन्धू) like the twins of heaven and earth (दिवा पृथिव्या मिथुना), (therefore) may Yamī (यमीः) choose one (बिभृयात्) who is not a relative (अजामि)!

आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मय॑: कृ॒णव॒न्नजा॑मि । उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ॥ १० ॥

आ । घ॒ । ता । ग॒च्छा॒न् । उत्ऽत॑रा । यु॒गानि॑ । यत्र॑ । जा॒मयः॑ । कृ॒णव॑न् । अजा॑मि । उप॑ । बर्बृ॑हि । वृ॒ष॒भाय॑ । बा॒हुम् । अ॒न्यम् । इ॒च्छ॒स्व॒ । सु॒ऽभ॒गे॒ । पति॑म् । मत् ॥

[Yama:] Those times will come (ता युगानि आगच्छान् घ) in the future (उत्तरा) when female relatives (sisters) (यत्र जामयः) will choose one who is not a relative (brother) (अजामि कृण्वन्). O auspicious one (सुभगे)! Desire (इच्छस्व) a husband other than me (मत् अन्यं पतिम्) and make your arm (बाहुम्) a pillow (उप बर्बृहि) for the virile one (वृषभाय)!

किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निॠ॑तिर्नि॒गच्छा॑त् । काम॑मूता ब॒ह्वे॒३तद्र॑पामि त॒न्वा॑ मे त॒न्वं१ सं पि॑पृग्धि ॥ ११ ॥

किम् । भ्राता॑ । अ॒स॒त् । यत् । अ॒ना॒थम् । भवा॑ति । किम् । ऊँ॒ इति॑ । स्वसा॑ । यत् । निःऽऋ॑तिः । नि॒ऽगच्छा॑त् । काम॑ऽमूता । ब॒हु । ए॒तत् । र॒पा॒मि॒ । त॒न्वा॑ । मे॒ । त॒न्व॑म् । सम् । पि॒पृ॒ग्धि॒ ॥

[Yamī:] What kind of brother is he (किं भ्राता असत्) because of whom (यत्) (a sister) becomes without support (अनाथं भवाति)? What kind of sister is she (किम् उ स्वसा) because of whom (यत्) (a brother) experiences sorrow (निर्ऋतिं निगच्छात्)? Overcome by desire (काममूता) I implore you in many ways (बहु एतत् रपामि) – unite your body (तन्वं सं पिपृग्धि) with mine (मे तन्वा)!

न वा उ॑ ते त॒न्वा॑ त॒न्वं१ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् । अ॒न्येन॒ मत्प्र॒मुद॑: कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥ १२ ॥

न । वै । ऊँ॒ इति॑ । ते॒ । त॒न्वा॑ । त॒न्व॑म् । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हुः॒ । यः । स्वसा॑रम् । नि॒ऽगच्छा॑त् । अ॒न्येन॑ । मत् । प्र॒ऽमुदः॑ । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥

[Yama:] I will never unite (न वै उ सं पपृच्याम्) my body (तन्वम्) with yours (ते तन्वा), for they call him a sinner (पापम् आहुः) who approaches his sister (यः स्वसारं निगच्छात्). O auspicious one (सुभगे)! Be delightful with a person (प्रमुदः कल्पयस्व) other than me (मत् अन्येन)! Your brother (ते भ्राता) does not desire this (union) (न एतत् वष्टि).

ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम । अ॒न्या किल॒ त्वां क॒क्ष्ये॑व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ॥ १३ ॥

ब॒तः । ब॒त॒ । अ॒सि॒ । य॒म॒ । न । ए॒व । ते॒ । मनः॑ । हृद॑यम् । च॒ । अ॒वि॒दा॒म॒ । अ॒न्या । किल॑ । त्वाम् । क॒क्ष्या॑ऽइव । यु॒क्तम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् ॥

[Yamī:] Alas (बत), you are feeble (बतः असि)! We do not understand (न एव अविदाम) your mind or your heart (ते मनः हृदयं च)! Very well (किल), then let another embrace you (अन्या त्वाम् परिष्वजाते) like a girdle embraces a horse tightly (कक्ष्याइव युक्तम्) or a creeper a tree (लिबुजेव वृक्षम्)!

अ॒न्यमू॒ षु त्वं य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् । तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा॑ कृणुष्व सं॒विदं॒ सुभ॑द्राम् ॥ १४ ॥

अ॒न्यम् । ऊँ॒ इति॑ । सु । त्वम् । य॒मि॒ । अ॒न्यः । ऊँ॒ इति॑ । त्वाम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् । तस्य॑ । वा॒ । त्वम् । मनः॑ । इ॒च्छा । सः । वा॒ । तव॑ । अध॑ । कृ॒णु॒ष्व॒ । स॒म्ऽविद॑म् । सुऽभ॑द्राम् ॥

[Yama:] O Yamī (यमि)! Embrace another one tightly (त्वम् अन्यम् उ सु), and may he (अन्यः उ) embrace you (त्वाम् परिष्वजाते) like a creeper embraces a tree (लिबुजेव वृक्षम्)! May you seek his affection (त्वं तस्य मनः इच्छ) and he yours (सः तव), and then (अध) make an auspicious union (सुभद्रां संविदं कृणुष्व)!


RV10.9     RV10.11    RV Mandala 10      RigVeda

 

Advertisements