RV10.102

ऋषिः  – मुद्गलः भार्म्यश्वः । देवता – द्रुघणः इन्द्रो वा । छन्दः – बृहती (1,3,12), त्रिष्टुप् (2,4-11) ।

१०.९.३ – ’प्र ते रथम्’ इति द्वादशर्चं तृतीयं सूक्तम् । भर्म्यश्वपुत्रो मुद्गल ऋषिः । आद्या तृतीयान्त्या चेति तिस्रो बृहत्यः । शिष्टा नव त्रिष्टुभः । द्रुघणो नाम मुद्गरः । तद्देवत्यमिदमिन्द्रदेवत्यं वा । तथा चानुक्रान्तं – ’प्र ते मुद्गलो भार्म्यश्वो द्रुघणेन ऋषभेण चाजिं जिगायेति द्रौघणं वाद्या तृतीयान्त्या च बृहत्यः’ इति । गतो विनियोगः । अत्राहुः – ’मुद्गलस्य हृता गावश्चोरैस्तक्त्वा जरद्गवम् । स शिष्टं शकटे कृत्वा गत्वैक ऋजुराहवम् । द्रुघणं युयुजेऽन्यत्र चोरमार्गानुसारकः । द्रुघणं चाग्रतः क्षिप्त्वा चोरभ्यो जगृहे स्वगाः’ इति । तथा निरुक्तेऽपीयं सूचिता – ’मुद्गलो भार्म्यश्व ऋषिर्वृषभं च द्रुघणं च युक्त्वा संग्रामे व्यवहृत्याजिं जिगाय’ (निरु० ९.२३) इति ॥

This sūkta is by Mudgala, son of Bhṛmyaśva and is addressed to Indra or drughaṇa (wooden mace, from द्रु = wood and हन् = to injure, kill). The Bṛhaddevatā has an interesting verse regarding the topic:

प्रेतीतिहाससूक्तं तु मन्यते शाकटायनः । यास्को द्रौघणमैन्द्रं वा वैश्वदेवं तु शौनकः ॥ बृहद्देवता ८.११ ॥

The sūkta beginning with प्र in the opinion of Śākaṭāyana is about a historic incident. Yāska considered it to be about Indra or drughaṇa, and Śaunaka considers it to address various topics.

The verses quoted by Sāyaṇa (and his commentary) confirm that it is essentially about Mudgala recovering his cattle that was stolen by waging a war (using a club) against the thieves. Apparently he had only one chariot left and had to yoke a bull to it. His wife, Mudgalānī, helps in this endeavor by becoming his charioteer. Yet several scholars (especially western) consider it to be a description of a race (probably misinterpreting the word आजिः as “race” when it means “battle”) won by Mudgala.

Yāska explains two ṛks from this sūkta (nos 5 and 9) in Nirukta 9.23 and 9.24 respectively. Many words that occur in these are also explained, as is the derivation of the names. For example,

  • मुद्गलः from मुद्गः (moong) – one who possesses or eats moong, of from मुद् (to be elated) – one who is elated
  • भृम्यश्वः – one whose horses are always wandering, or one who breeds horses

प्र ते॒ रथं॑ मिथू॒कृत॒मिन्द्रो॑ऽवतु धृष्णु॒या । अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥ १ ॥

प्र । ते॒ । रथ॑म् । मि॒थु॒ऽकृत॑म् । इन्द्रः॑ । अ॒व॒तु॒ । धृ॒ष्णु॒ऽया । अ॒स्मिन् । आ॒जौ । पु॒रु॒ऽहू॒त॒ । श्र॒वाय्ये॑ । ध॒न॒ऽभ॒क्षेषु॑ । नः॒ । अ॒व॒ ॥

(O Mudgala)! Your chariot has been rendered useless (ते रथं मिथूकृतम्), may Indra (इन्द्रः) protect you (अवतौ) by his fierce weapon (धृष्णुया). O (Indra) invoked by many (पुरुहूत)! Protect us (नः अव) who are desirous of enyoying our (lost) wealth (cattle) (धनभक्षेषु) in this memorable battle (अस्मिन् श्रवाय्येआजौ) !

Note: श्रवाय्ये – श्रोतव्ये – memorable, from श्रु (to hear) + आय्य [by श्रु-दक्षि-स्पृहि-गृहिभ्य आय्यः (उ० ३७८)]

उत्स्म॒ वातो॑ वहति॒ वासो॑ अस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्र॑म् । र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिन्द्रसे॒ना ॥ २ ॥

उत् । स्म॒ । वातः॑ । व॒ह॒ति॒ । वासः॑ । अ॒स्याः॒ । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् । र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी॑ । गवि॑ष्टौ । भरे॑ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒ऽसे॒ना ॥

When she (Mudgalānī), mounted on the chariot (अधिरथम्), recovered the thousand (cattle) (यत् सहस्रम् अजयत्) then the wind (वातः) lifted (उत् वहति स्म) her (upper) garment (अस्याः वासः) (due to the speed of the chariot). In the battle for the cattle (गविष्टौ) Mudgalānī (मुद्गलानी) was the charioteer (रथीः अभूत्), and in the battle (भरे) the army protected by Indra (इन्द्रसेना) recovered the bounty (कृतं व्यचेत्).

Note

  • कृतम् = सम्पादितं गोसंघं – the herd of cattle that was recovered
  • व्यचेत् = वि + अचेत् from चिञ् चयने – lit. “separated from (the enemy)”, i.e. recovered

अ॒न्तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिन्द्राभि॒दास॑तः । दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ॥ ३ ॥

अ॒न्तः । य॒च्छ॒ । जिघां॑सतः । वज्र॑म् । इ॒न्द्र॒ । अ॒भि॒ऽदास॑तः । दास॑स्य । वा॒ । म॒घ॒ऽव॒न् । आर्य॑स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥

O Indra (इन्द्र)! Retract the weapon (वज्रम् अन्तः यच्छ) of the enemy intent on hurling it to kill (अभिदासतः जिघांसतः)! O Maghavan (मघवन्)! Take away (यवय) the hidden weapon (सनुतः वज्रम्) of (the enemy) whether noble (आर्यस्य) or lowly (दासस्य).

Note: This (and similar other verses) clearly indicate that the words ārya and dāsa simply mean “noble” and “ignoble”, i.e. they do not refer to any specific race or ethnic group of people

उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाण॒: कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति । प्र मु॒ष्कभा॑र॒: श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥ ४ ॥

उ॒द्नः । ह्र॒दम् । अ॒पि॒ब॒त् । जर्हृ॑षाणः । कूट॑म् । स्म॒ । तृं॒हत् । अ॒भिऽमा॑तिम् । ए॒ति॒ । प्र । मु॒ष्कऽभा॑रः । श्रवः॑ । इ॒च्छमा॑नः । अ॒जि॒रम् । बा॒हू इति॑ । अ॒भ॒र॒त् । सिसा॑सन् ॥

Overjoyed (जर्हृषाणः), he (the bull) drank (अपिबत्) the lake of water (उद्गः ह्रदम्), split open (तृंहत् स्म) the peak (कूटम्) and assaulted the enemy (अभिमातिम् एति). The virile one (मुष्कभारः) desiring fame (श्रवः इच्छन्), spreading his arms (बाहू सिषासन्), swiftly (अजिरम्) seized the enemy (प्र अभरत्),.

Notes

  • मुष्कभारः – from मुष्कः (testicle) – one whose testicles are heavy (have grown fully), virile
  • सिषासन् = षण संभक्तौ (to server, to divide) + सन् + शतृ

न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः । तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥ ५ ॥

नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः । तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥

Approaching this bull (एनं वृषभम् उपयन्तः), the (warriors) made it roar (न्यक्रन्दयन्) and urinate (अमेहयन्) (out of fear) in the midst of the battle (आजेः मध्ये), (but even so) by that bull (तेन) Mudgala (मुद्गलः) won (जिगाय) in the battle (प्रधने) well-fed cattle (सूभर्वम् गवाम्) in the hundreds and thousands (शतवत् सहस्रम्).

क॒कर्द॑वे वृष॒भो यु॒क्त आ॑सी॒दवा॑वची॒त्सार॑थिरस्य के॒शी । दुधे॑र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छन्ति॑ ष्मा नि॒ष्पदो॑ मुद्ग॒लानी॑म् ॥ ६ ॥

क॒कर्द॑वे । वृ॒ष॒भः । यु॒क्तः । आ॒सी॒त् । अवा॑वचीत् । सार॑थिः । अ॒स्य॒ । के॒शी । दुधेः॑ । यु॒क्तस्य॑ । द्रव॑तः । स॒ह । अन॑सा । ऋ॒च्छन्ति॑ । स्म॒ । निः॒ऽपदः॑ । मु॒द्ग॒लानी॑म् ॥

The bull (वृषभः) was yoked (युक्तः आसीत्) for victory (ककर्दवे), his charioteer who held the reins (अस्य केशी सारथिः) made him roar (अवावचीत्). The warriors (निष्पदः) running (द्रवतः) with the cart (अनसा सह) yoked with the irresistable bull (दुधेः युक्तस्य) approaced (ऋच्छ्न्ति स्म) Mudgalānī (मुद्गलानीम्).

Note: अवावचीत् – वच परिभाषणे + (यङ्) + लुङ् – made him roar

उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा॑युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् । इन्द्र॒ उदा॑व॒त्पति॒मघ्न्या॑ना॒मरं॑हत॒ पद्या॑भिः क॒कुद्मा॑न् ॥ ७ ॥

उ॒त । प्र॒ऽधिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप॑ । अ॒यु॒न॒क् । वंस॑गम् । अत्र॑ । शिक्ष॑न् । इन्द्रः॑ । उत् । आ॒व॒त् । पति॑म् । अघ्न्या॑नाम् । अरं॑हत । पद्या॑भिः । क॒कुत्ऽमा॑न् ॥

Furthemore (उत) the wise (विद्वान्) (Mudgala) fixed its axle (प्रधिम् उदहन्) and yoked (उप अयुनक्) the handsome bull (वंसगम्) here (अत्र) (i.e. to the cart), restraining it (शिक्षन्). Indra (इन्द्रः) protected (उत् आवत्) the lord of the cows (अघ्न्यानां पतिम्),  and then the humped bull (ककुद्मान्) rushed forward on his feet (पद्याभिः अरंहत).

Note: अयुनक् = युजिर् योगे + लङ्

शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः । नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥ ८ ॥

शु॒नम् । अ॒ष्ट्रा॒ऽवी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्रायाम् । दारु॑ । आ॒ऽनह्य॑मानः । नृ॒म्नानि॑ । कृ॒ण्वन् । ब॒हवे॑ । जना॑य । गाः । प॒स्प॒शा॒नः । तवि॑षीः । अ॒ध॒त्त॒ ॥

The goad-wielding one (अष्ट्रावी) with matted locks (कपर्दी), tying securely (आनह्यमानः) the wooden (दारु) (frame of the cart), proceeded happily (शुनम् अचरत्), distributing riches (spoils of battle) (नृम्णानि कृण्वन्) to many people (बहवे जनाय). Touching the oxen (गाः पस्पशानः), he felt invigorated (तविषीः अधत्त).

Notes

  • अष्ट्रावी = अष्ट्रा (प्रतोदः = goad_ + विनि (possessive affix)
  • पश्पशानः = स्पश बाधनस्पर्शन्योः + लिट् (कानच्)

इ॒मं तं प॑श्य वृष॒भस्य॒ युञ्जं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नम् । येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥ ९ ॥

इ॒मम् । तम् । प॒श्य॒ । वृ॒ष॒भस्य॑ । युञ्ज॑म् । काष्ठा॑याः । मध्ये॑ । द्रु॒ऽघ॒नम् । शया॑नम् । येन॑ । जि॒गाय॑ । स॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । पृ॒त॒नाज्ये॑षु ॥

Look at this mace (तं इमं दुघणं पश्य), companion of the bull (वृषभस्य युञ्जम्), lying in midst of the battlefield (काष्ठायाः मध्ये शयानम्), by which (येन) Mudgala (मुद्गलः) won (जिगाय) in the battles (पृतनाज्येषु) hundreds and thousands of cattle (शतवत् सहस्रम् गवाम्).

Note: This is in recognition of role of the mace (द्रुघणः) in winning the battle.

आ॒रे अ॒घा को न्वि१त्था द॑दर्श॒ यं यु॒ञ्जन्ति॒ तम्वा स्था॑पयन्ति । नास्मै॒ तृणं॒ नोद॒कमा भ॑र॒न्त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ॥ १० ॥

आ॒रे । अ॒घा । कः । नु । इ॒त्था । द॒द॒र्श॒ । यम् । यु॒ञ्जन्ति॑ । तम् । ऊँ॒ इति॑ । आ । स्था॒प॒य॒न्ति॒ । न । अ॒स्मै॒ । तृण॑म् । न । उ॒द॒कम् । आ । भ॒र॒न्ति॒ । उत्ऽत॑रः । धु॒रः । व॒ह॒ति॒ । प्र॒ऽदेदि॑शत् ॥

Who has seen (कः नु ददर्श) such adversities (इत्था अघा) at close quarters (आरे )? Whichever (mace) they use (यं युञ्जन्ति) they fix it (तम् उ आस्थापयन्ति) (on the chariot). They don’t bring (न आ भरन्ति) grass fodder (तृणम्) or water (उदकम्) to this (mace) (अस्मै). Being superior (उत्तरः) (to the bull), it bears the burden (धुरः वहति), proclaiming (victory) (प्रदेदिशत्).

Note: The meaning is that the mace, unlike a bull, does not need to be fed with grass or water, yet it is the one that brings victory in battle

प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सि॒ञ्चन् । ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुम॒ङ्गलं॒ सिन॑वदस्तु सा॒तम् ॥ ११ ॥

प॒रि॒वृ॒क्ताऽइ॑व । प॒ति॒ऽविद्य॑म् । आ॒न॒ट् । पीप्या॑ना । कूच॑क्रेणऽइव । सि॒ञ्चन् । ए॒ष॒ऽए॒ष्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॒म॒ । सु॒ऽम॒ङ्गल॑म् । सिन॑ऽवत् । अ॒स्तु॒ । सा॒तम् ॥

As an abandoned wife (परिवृक्ता इव) swelling with pride (पीप्याना) on finding her husband (पतिविद्यम् आनट्), as a ring of clouds encircling the earth (कूचक्रेण इव) (swells) showering rain (सिञ्चन्), may we obtain victory (जयेम) through the charioteer (रथ्या) (Mudgalānī), eager to recover the cattle herd (एषैष्या). May (her) gift to us (सातम्) be auspicious (सुमङ्गलम् अस्तु), like the gift of food (सिनवत्)!

Notes

  • This is in praise of the charioteer Mudgalānī
  • एषैष्या – from इष् (to desire) and एषः (गोसंघः – herd of cattle)

त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः । वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥ १२ ॥

त्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः । वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥

(O Indra) (इन्द्र)! You are the eye of the beholder (चक्षुषः चक्षुः) of the entire world (विश्वस्य जगतः), by which (यत्) you, showerer of gifts (वृषा), urging on (चोदयन्) the two harnessed steeds (वृषणा युजा) by your whip (वध्रिणा) you aim for victory (सिषाससि)!

RV10.101     RV10.103    RV Mandala 10      RigVeda
Advertisements