RV10.121

ऋषिः  – हिरण्यगर्भः प्राजापत्यः । देवता – कः (प्रजापतिः) । छन्दः – त्रिष्टुप् ।

’हिरण्यगर्भः’ इति दशर्चं नवमं सूक्तं प्रजापतिपुत्रस्य हिरण्यगर्भाख्यास्यार्षं त्रैष्टुभम् । कशब्दाभिधेयः प्रजापतिर्देवता । तथा चानुक्रान्तं – ’हिरण्यगर्भो दश हिरण्यगर्भः प्राजापत्यः कायम्’ इति । गतः सूक्तविनियोगः । प्राजापत्यस्य पशोर्वपापुरोडाशहविषां क्रमेणादितस्तिस्रोऽनुवाक्यास्ततस्तिस्रो याज्याः । सूत्रितं च – ’हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्याः’ (आश्व. श्रौ. ३.८) इति । वरुणप्रघासेषु कायस्य हविषो हिरण्यगर्भ इत्येषा याज्या । सूत्रितं च ’कया नश्चित्र आ भुवद्धिरण्यगर्भः समवर्तताग्र इति प्रतिप्रस्थाता वाजिने तृतीयः’ (आश्व. श्रौ. २.१७) इति ॥

This well known sūkta is addressed to Prajāpati, lord of all created beings. Prajāpati is addressed as कः (who?) because his nature is now known. कः can also be derived from कम् (= सुखम्), hence meaning “one whose nature is blissful”.

All the verses except the last one have the repeating refrain कस्मै देवाय हविषा विधेम which can also be interpreted as a question – whom should we worship?

हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ १ ॥

हि॒र॒ण्य॒ऽग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् । सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

At the beginning (अग्रे) arose the golden effulgence (हिरण्यगर्भः), who, on being born (जातः) was the one and only lord of all beings (भूतस्य एकः पतिः आसीत्). He supports (सः दाधार) the heaven (द्याम्) and this earth (उत इमां पृथिवीम्), we worship that divine Prajāpati with our oblation (कस्मै देवाय हविषा विधेम)!

Notes

  • कस्मै – अत्र किं शब्दोऽनिर्ज्ञातस्वरूपत्वात् प्रजापतौ वर्तते (सायणः) – The word किम् (of which कस्मै is the dative singular form) represents Prajāpati because his true nature is unknown
  • हविस् – derived as हु + इसि by अर्चिशुचिहु० (उ. २६७)

य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ २ ॥

यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः । यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Who gives life (यः आत्मदाः) and strength (बलदाः), whose commandments (यस्य प्रसिषम्) all obey (विश्वे उपासते) including the gods (यस्य देवाः). Whose but shadows are (यस्य छाया) death (मृत्यः) and immortality (अमृतम्), we worship that divine Prajāpati with our oblation (कस्मै देवाय हविषा विधेम)!

Note: प्रशिषम् = प्रकृष्टं शासनमाज्ञाम् – from शास अनुशिष्टौ using शास इत्० (पा. ६।४।३४) and शासिवसि० (पा. ८।३।६०)

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ३ ॥

यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ । यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Who by his majesty (यः महित्वा) is the sole (undisputed) king (एकः इत् राजा बभूव) of all that breathes (प्राणतः), pulsates (निमिषतः), and moves (जगतः), who rules over (यः ईशे) all the bipeds (द्विपदः) and quadrupeds (चतुष्प्तदः) of this (world) (अस्य), we worship that divine Prajāpati with our oblation (कस्मै देवाय हविषा विधेम)!

यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ४ ॥

यस्य॑ । इ॒मे । हि॒मऽव॑न्तः । म॒हि॒ऽत्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः॒ । यस्य॑ । इ॒माः । प्र॒ऽदिशः॑ । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Whose by his majesty (यस्य महित्वा) are these snow-covered mountains (इमे हिमवन्तः), whose, they say (यस्य आहुः) are the oceans along with the rivers (समुद्रं रसया सह), whose arms (यस्य बाहू) are these quarters (इमाः प्रदिशः), we worship that divine Prajāpati with our oblation (कस्मै देवाय हविषा विधेम)!

येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्व॑ स्तभि॒तं येन॒ नाक॑: । यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मान॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ५ ॥

येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्व१रिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ । यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

By whom (येन) the lofty sky (उग्रा द्यौः) and earth (पृथिवी च) are made firm (दृळ्हा), by whom the heavens are held up (येन स्वः स्तभितम्) and the sun in the sky (अन्तरिक्षे नाकः), who is the creator (यः विमानः) of the waters in the atmosphere (अन्तरिक्षे रजसः), we worship that divine Prajāpati with our oblation (कस्मै देवाय हविषा विधेम)!

यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ६ ॥

यम् । क्रन्द॑सी॒ इति॑ । अव॑सा । त॒स्त॒भा॒ने इति॑ । अ॒भि । ऐक्षे॑ताम् । मन॑सा । रेज॑माने । यत्र॑ । अधि॑ । सूरः॑ । उत्ऽइ॑तः । वि॒ऽभाति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Whom the resplendent heaven and earth (यं रेजमाने क्रन्दसी), stabilized by his protection (अवसा तस्तभाने), look on him with their minds (मनसा अभि ऐक्षेताम्), supported by whom (यत्र अधि) the rising sun shines (सूर्यः उदितः विभाति), we worship that divine Prajāpati with our oblation (कस्मै देवाय हविषा विधेम)!

आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ७ ॥

आपः॑ । ह॒ । यत् । बृ॒ह॒तीः । विश्व॑म् । आय॑न् । गर्भ॑म् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् । ततः॑ । दे॒वाना॑म् । सम् । अ॒व॒र्त॒त॒ । असुः॑ । एकः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

When the mighty waters (बृहतीः आपः) pervaded the universe (विश्वम् आयन् ह) generating fire (अग्निं जनयन्तीः) and holding (the lord) in their womb (गर्भं दधानाः), then (ततः) arose the one (एकः समवर्तत), the life of all the gods (देवानाम् असुः), we worship that divine Prajāpati with our oblation (कस्मै देवाय हविषा विधेम)!

Note: आपः and अग्निः do not represent water and fire literally, but the fluid matter and energy

यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् । यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ८ ॥

यः । चि॒त् । आपः॑ । म॒हि॒ना । प॒रि॒ऽअप॑श्यत् । दक्ष॑म् । दधा॑नाः । ज॒नय॑न्तीः । य॒ज्ञम् । यः । दे॒वेषु॑ । अधि॑ । दे॒वः । एकः॑ । आसी॑त् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Who, in his majesty (यः महिना), surveyed the waters (आपः पर्यपश्यत् चित्), holding power (दक्षं दधानाः) and creating the transformation (जनयन्तीः यज्ञम्), who among the gods (यः देवेषु अधि) is the one supreme god (एकः देवः आसीत्), we worship that divine Prajāpati with our oblation (कस्मै देवाय हविषा विधेम)!

मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ९ ॥

मा । नः॒ । हिं॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जान॑ । यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

The creator of the earth (यः पृथिव्याः जनिता), who created the heavens (यः वा दिवं जजान), being the upholder of truth (सत्यधर्मा), who created the majestic soothing waters (यः च बृहतीः चन्द्राः आपः जजान), may he not hurt us (नः मा हिंसीत्), we worship that divine Prajāpati with our oblation (कस्मै देवाय हविषा विधेम)!

Notes

  • जनिता = जनयिता (जन् + णिच् + तृच्) derived irregularly (with elision of णिच्) by जनिता मन्त्रे (पा. ६।४।५३)
  • चन्द्राः – from चदि आह्लादे दीप्तौ च (भ्चादिः)

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ १० ॥

प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ । यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

Lord of all creatures (प्रजापते)! No one other than you (न त्वत् अन्यः) pervades (परि बभूव) all these created beings (ता एतानि विश्वा जातानि)! We make offerings to you (ते जुहुमः), may our desires be fulfilled (यत्कामाः तत् नः अस्तु), and may we be lords of treasures (वयं रयीणां पतयः स्याम)!


RV10.120     RV10.122    RV Mandala 10      RigVeda
Advertisements