RV10.130

ऋषिः  – यज्ञः प्राजापत्यः । देवता – भाववृत्तम् । छन्दः – जगती (१), त्रिष्टुप् (२-७) ।

’यो यज्ञः’ इति सप्तर्चं द्वितीयं सूक्तं प्रजापतिपुत्रस्य यज्ञाख्यस्यार्षम् । आद्या जगती शिष्टास्त्रिष्टुभः । अत्रापि यज्ञादीनां केषांचिद्भावानां सृष्टिः प्रतिपाद्यते । अतः स्रष्टव्यत्वेन प्रधानभूतो योऽर्थः सविव देवता । तत्कर्ता प्रजापतिरेव देवता । तथा चानुक्रान्तं – ’यो यज्ञो यज्ञः प्राजापत्यो जगत्याद्या’ इति । गतो विनियोगः ॥

This sūkta views the process of creation as a yajña.  It is mystic in nature and is somewhat similar to the Puruṣasūkta.

यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः । इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥ १ ॥

यः । य॒ज्ञः । वि॒श्वतः॑ । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभिः॑ । आऽय॑तः । इ॒मे । व॒य॒न्ति॒ । पि॒तरः॑ । ये । आ॒ऽय॒युः । प्र । व॒य॒ । अप॑ । व॒य॒ । इति॑ । आ॒स॒ते॒ । त॒ते ॥

That creation (यः यज्ञः) which was extended in all directions (विश्वतः ततः) by the threads (तन्तुभिः) (i.e. elements that constitute the universe) and kept going (आयतः) by the hundred and one works performed for the gods (एकशतं देवकर्मेभिः), these protectors (इमे पितरः), who have arrived (ये आययुः) weave (i.e continue the process) (वयन्ति). And, having stationed themselves (आसते) in the extended universe (तते) they say, “Weave forwards (प्र वय), weave backwards (अप वय)!”.

Commentary: The original yajña represents the creation of the universe. But the process still continues externally as well as internally within the human beings. The universe is viewed as a cloth that is being continuously being woven and extended.

Notes

  • एकशतम् should be interpreted as एकशतेन । Also, this is the only occurrence of this word in the entire Ṛgveda
  • ततः means “extended in space” whereas आयतः means “extended in time”
  • पितरः is taken in the root meaning of “protector”
  • प्र वय – प्रवाणं नाम प्रकृष्टस्य चेतनस्य भोक्तृप्रपञ्चस्य सर्जनम् (creation of the animate universe), अप वय – अपवानं नाम अपकृष्टस्य विकृष्टस्य अचेतनस्य भोग्यप्रपञ्चस्य सर्जनम् (creation of the inanimate universe) (सायणः)

पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् । इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सद॒: सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥ २ ॥

पुमा॑न् । ए॒न॒म् । त॒नु॒ते॒ । उत् । कृ॒ण॒त्ति॒ । पुमा॑न् । वि । त॒त्ने॒ । अधि॑ । नाके॑ । अ॒स्मिन् । इ॒मे । म॒यूखाः॑ । उप॑ । से॒दुः॒ । ऊँ॒ इति॑ । सदः॑ । सामा॑नि । च॒क्रुः॒ । तस॑राणि । ओत॑वे ॥

The supreme being (पुमान्) extends this (एनं तनुते) (yajña), he sets it going (उत् कृणत्ति), and he (पुमान्) extended it (वि तत्ने) into this (अस्मिन्) (world) and into heaven (अधि नाके). These rays (i.e. powers or gods) (इमे मयूखाः), seat themselves (उप सेदुः) (to perform the yajña) in their assigned places (सदः ऊ) and they made the sāman hymns (सामानि) the warp (तसराणि चक्रुः) for weaving (ओतवे).

Note: कृणत्ति – from कृती वेष्टने (रुधादिः) (to surround)

कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् । छन्द॒: किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥ ३ ॥

का । आ॒सी॒त् । प्र॒ऽमा । प्र॒ति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒सी॒त् । प॒रि॒ऽधिः । कः । आ॒सी॒त् । छन्दः॑ । किम् । आ॒सी॒त् । प्रउ॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ॥

What was the extent (का प्रमा आसीत्), what the model (प्रतिमा), what was the cause (किं निदानम्), what was the ghee (i.e offering) (किम् आज्यम् आसीत्), what the enclosure (परिधिः कः आसीत्), what the meters used (छन्दः किम् आसीत्), what the chant and the praise (किं प्रउगम् उक्थम्) when all the gods performed the yajña (यत् विश्वे देवाः अयजन्त)?

Note: The answers to some of these questions are given here, and the answers to the others in the Puruṣasūkta

अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥ ४ ॥

अ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒ऽयुग्वा॑ । उ॒ष्णिह॑या । स॒वि॒ता । सम् । ब॒भू॒व॒ । अ॒नु॒ऽस्तुभा॑ । सोमः॑ । उ॒क्थैः । मह॑स्वान् । बृह॒स्पतेः॑ । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥

Gāyatrī was born (गायत्री अभवत्) along with Agni (अग्नेः सयुग्वा), and Savitṛ (सविता) was born along with Uṣṇihā (उष्णिहया सं बभूव), the brilliant Soma (महस्वान् सोमः) with the anuṣṭubh praises (अनुष्टुभा उक्थैः), and Bṛhatī (बृहती) protected the utterance of Bṛhaspati (बृहस्पतेः वाचम्).

Notes

  • The names of various meters associated with different deities are listed in this and the next verse
  • उष्णिह् becomes उष्णीहा by वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयो: । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥

वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्न॑: । विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्या॑: ॥ ५ ॥

वि॒राट् । मि॒त्रावरु॑णयोः । अ॒भि॒ऽश्रीः । इन्द्र॑स्य । त्रि॒ऽस्तुप् । इ॒ह । भा॒गः । अह्नः॑ । विश्वा॑न् । दे॒वान् । जग॒ती । आ । वि॒वे॒श॒ । तेन॑ । चा॒कॢ॒प्रे॒ । ऋष॑यः । म॒नु॒ष्याः॑ ॥

Virāj (विराट्) rested on (अभिश्रीः) on Mitra and Varuṇa (मित्रावरुणयोः), and Triṣṭup (त्रिष्टुप्) here on the daily offering to Indra (इह इन्द्रस्य अह्नः भागः), Jagatī (जगती) entered (आ विवेश) all the gods (विश्वान् देवान्), and from that (yajña) were created (तेन चाकॢप्रे) the sages and the men (ऋषयः मनुष्याः).

चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे । पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे॑ ॥ ६ ॥

चा॒कॢ॒प्रे । तेन॑ । ऋष॑यः । म॒नु॒ष्याः॑ । य॒ज्ञे । जा॒ते । पि॒तरः॑ । नः॒ । पु॒रा॒णे । पश्य॑न् । म॒न्ये॒ । मन॑सा । चक्ष॑सा । तान् । ये । इ॒मम् । य॒ज्ञम् । अय॑जन्त । पूर्वे॑ ॥

When the ancient yajña was performed (पुराणे यज्ञे जाते), the sages, man and ancestors (ऋषयः मनुष्याः पितरः) were created from that (तेन चाकॢप्रे). Knowing this (पश्यन्) with my mind’s eye (मनसा चक्षस), I revere (मन्ये) those (तान्) (gods) who performed this sacrifice (ये इमं यज्ञं अयजन्त) (of creation) in ancient times (पूर्वे).

Note: मन्ये = स्तौमि – मन्यतिरर्चतिकर्मा (सायणः)

स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्या॑: । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३ न र॒श्मीन् ॥ ७ ॥

स॒हऽस्तो॑माः । स॒हऽछ॑न्दसः । आ॒ऽवृतः॑ । स॒हऽप्र॑माः । ऋष॑यः । स॒प्त । दैव्याः॑ । पूर्वे॑षाम् । पन्था॑म् । अ॒नु॒ऽदृश्य॑ । धीराः॑ । अ॒नु॒ऽआले॑भिरे । र॒थ्यः॑ । न । र॒श्मीन् ॥

The seven divine ṛṣis (दैव्याः सप्त ऋषयः), well versed (आवृतः) and equipped with the knowledge of the praise (सहस्तोमाः), meter (सहछन्दसः) and ritual (सहप्रमाः), having followed the path of the ancients (पूर्वेषां पन्थां अनुदृश्य), commenced (अन्वालिभिरे) (the sacrifice) as a charioteer (रथ्यः) (takes up) the reins (रश्मीन् न) (on the commencement of a journey).


RV10.129     RV10.131    RV Mandala 10      RigVeda
Advertisements