RV10.136

ऋषिः  – जूतिः (१), वातजूतिः (२), विप्रजूतिः (३), वृषाणकः (४), करिक्रतः (५), एतशः (६), ऋष्यशृङ्गः (७)। देवताः – केशिनः (अग्निसूर्यवायवः) । छन्दः – अनुष्टुप् ।

’केशी’ इति सप्तर्चमष्टमं सूक्तमग्निसूर्यवायुदेवताकम् । वातरशनपुत्रा जूतिवातजूतिप्रभृतयः क्रमेणर्षयः । तथा चानुक्रान्तं – ’केशी मुनयो वातरशना जूतिर्वातजूतिर्विप्रजूतिर्वृषाणकः करित्रत एतश ऋष्यशृङ्गश्चैकर्चाः कैशिनम्’ इति । गतो विनियोगः ॥

This sūkta is about Keśin (केशी) – “the one with hair”.  But “hair” has to be interpreted symbolically as light etc.  In fact RV 10.16.44 talks about three Keśins  (त्रयः केशिनः), namely Agni, Vāyu, and Sūrya.  It can also be interpreted literally in which case it means a person with long locks of hair (ascetic).

In this sūkta the first and the last verses are addressed to the sun, and the remaining to the muni (ascetic). मुनिः comes from the root मन् (to think), hence “one who contemplates”.  And the word mouna (silence) comes form this (मुनेर्भावं मौनम्), because one has to be silent in order to contemplate.  And the muni attains wondrous powers (some described here) through his sādhana.

Interestingly, each of the verses of this hymn is associated with a different ṛṣi.  Their names are listed above and they are all sons of Vātaraśana which could also be a symbolic epithet.  The ṛṣi of the last verse is ऋष्यशृङ्गः who could be the same person referred to in the Mahābhārata and the Rāmāyaṇa.

के॒श्य१ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी । के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ॥ १ ॥

के॒शी । अ॒ग्निम् । के॒शी । वि॒षम् । के॒शी । बि॒भ॒र्ति॒ । रोद॑सी॒ इति॑ । के॒शी । विश्व॑म् । स्वः॑ । दृ॒शे । के॒शी । इ॒दम् । ज्योतिः॑ । उ॒च्य॒ते॒ ॥

The sun (केशी) holds fire (अग्निम् ), the sun draws up water (विषम्) (by his rays), and holds up the heaven and earth (रोदसी बिभर्ति). The sun (केशी) illuminates the entire world (स्वः विश्वम्) for all to see (दृशे), and this light (इदम् ज्योतिः) is called (उच्यते) the sun (केशी).

मुन॑यो॒ वात॑रशनाः पि॒शङ्गा॑ वसते॒ मला॑ । वात॒स्यानु॒ ध्राजिं॑ यन्ति॒ यद्दे॒वासो॒ अवि॑क्षत ॥ २ ॥

मुन॑यः । वात॑ऽरशनाः । पि॒शङ्गाः॑ । व॒स॒ते॒ । मला॑ । वात॑स्य । अनु॑ । ध्राजि॑म् । यन्ति॑ । यत् । दे॒वासः॑ । अवि॑क्षत ॥

The ascetic sons of Vātaraśana (वातरशनाः मुनयः) wear soiled brown clothes (पिशङ्गाः मला वसते) (i.e. bark), and follow (अनु यन्ति) the course of the wind (वातस्य ध्राजिम्), to where (यत्) the gods (देवासः) have entered (अविक्षत).

Commentary: प्राणोपासनया प्राणरूपिणो वायुभावं प्रपन्ना इत्यर्थः (सायणः) – they, through meditation on prāṇa, attain the nature of wind

Notes

  • The word वातरशनाः can also be interpreted, in my opinion, by taking रशनाः (rope) in its root meaning, “to bind”, therefore it could be interpreted as वातस्य रशनाः, i.e. those who can control the wind, i.e. those who have extraordinary powers
  • वसते = आच्छादयन्ति from वस आच्छादने (अदादिः)
  • ध्राजिम् – from ध्रज गतौ (भ्वादिः)
  • अविक्षत = विश् + लुङ् = अ + विश् + क्स + त [by श्ल इगुपधादनिटः क्सः(पा. ३।१।४५)] – व्यत्ययेनात्मनेपदम्

उन्म॑दिता॒ मौने॑येन॒ वाताँ॒ आ त॑स्थिमा व॒यम् । शरी॒रेद॒स्माकं॑ यू॒यं मर्ता॑सो अ॒भि प॑श्यथ ॥ ३ ॥

उत्ऽम॑दिता । मौने॑येन । वाता॑न् । आ । त॒स्थि॒म॒ । व॒यम् । शरी॑रा । इत् । अ॒स्माक॑म् । यू॒यम् । मर्ता॑सः । अ॒भि । प॒श्य॒थ॒ ॥

“We ride the winds (वयं वातान् आ तस्थिम), intoxicated by asceticism (मौनेयेन उन्मदिता). O mortals (मर्तासः)! You behold (यूयम् अभि पश्यथ) only our mortal bodies (अस्माकं शरीरम् इत्)!” (i.e. not our true nature).

अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ रू॒पाव॒चाक॑शत् । मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा॑ हि॒तः ॥ ४ ॥

अ॒न्तरि॑क्षेण । प॒त॒ति॒ । विश्वा॑ । रू॒पा । अ॒व॒ऽचाक॑शत् । मुनिः॑ । दे॒वस्य॑ऽदेवस्य । सौकृ॑त्याय । सखा॑ । हि॒तः ॥

The ascetic (मुनिः) travels in the sky (अन्तरिक्षेण पतति) looking down on all things (विश्वा रूपा अवचाकशत्), and is made the helper (सखा हितः) for the auspicious works (सौकृत्याय) of all the gods (देवस्यदेवस्य).

Note: देवस्यदेवस्य – the repetition (called आम्नेडितम्) is used in the sense of “all” by नित्यवीप्सयोः (पा. ८।१।४), and the second देवस्य is anudātta by अनुदात्तं च (पा. ८।१।३).

वात॒स्याश्वो॑ वा॒योः सखाथो॑ दे॒वेषि॑तो॒ मुनि॑: । उ॒भौ स॑मु॒द्रावा क्षे॑ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ॥ ५ ॥

वात॑स्य । अश्वः॑ । वा॒योः । सखा॑ । अथो॒ इति॑ । दे॒वऽइ॑षितः । मुनिः॑ । उ॒भौ । स॒मु॒द्रौ । आ । क्षे॒ति॒ । यः । च॒ । पूर्वः॑ । उ॒त । अप॑रः ॥

Pervasive (अश्वः) (like) the movement of the wind (वातस्य), friend of the wind (वायोः सखा), and impelled by the gods (अथो देवेषितः), the ascetic (मुनिः) dwells (आ क्षेति) in both oceans (उभौ), the eastern (यः च पूर्वः) and the western (उत अपरः).

Notes

  • वातः = वायोः गतिः
  • Sāyaṇa takes the root meaning of अश्वः from अशू व्यप्तौ and also gives an alternative interpretation: वायोः अशिता भोक्ता – i.e. one who subsists on air alone
  • The reference to the two oceans is interesting, and may me metaphorical (पूर्वः and अपरः normally mean “earlier” or “this” and “later” or “other” respectively)

अ॒प्स॒रसां॑ गन्ध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् । के॒शी केत॑स्य वि॒द्वान्त्सखा॑ स्वा॒दुर्म॒दिन्त॑मः ॥ ६ ॥

अ॒प्स॒रसा॑म् । ग॒न्ध॒र्वाणा॑म् । मृ॒गाणा॑म् । चर॑णे । चर॑न् । के॒शी । केत॑स्य । वि॒द्वान् । सखा॑ । स्वा॒दुः । म॒दिन्ऽत॑मः ॥

Traveling the paths (चरणे चरन्) of Apsarases (अप्सरसाम्), Gandharvas (गन्धर्वाणाम्), and wild animals (मृगाणाम्), the ascetic (केशी) is the knower of what is to be known (केतस्य विद्वान्), and is a sweet and most delightful friend (स्वादुः मदिन्तमः सखा).

Note: केतः from कि ज्ञाने (जुहोत्यादिः).

वा॒युर॑स्मा॒ उपा॑मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा । के॒शी वि॒षस्य॒ पात्रे॑ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ॥ ७ ॥

वा॒युर् । अ॒स्मै॒ । उप॑ । अ॒म॒न्थ॒त् । पि॒नष्टि॑ । स्म॒ । कु॒न॒न्न॒मा । के॒शी । वि॒षस्य॑ । पात्रे॑ण । यत् । रु॒द्रेण॑ । अपि॑बत् । स॒ह ॥

When the sun (केशी) draws up the water by his rays (यत् अपिबत् विषस्य पात्रेण) with the help of the Maruts (रुद्रेण), then the wind churns for him (अस्मै वायुः उपामन्थत्) and the thunder (कुनन्नमा) pounds (पिनष्टि) (the water in the clouds so that it flows down).

Notes

  • विषः = जलम् (water)
  • पात्रम् = पानसाधनम् – anything used to drink, in this case, rays
  • रुद्रः = रुद्रपुत्रः
  • कुनन्नमा – कुत्सितमपि भृशं नमयित्री स्वयं नमयितुमशक्या स्वतन्त्रा माध्यमिका वाक् – the one who forces others to bend

RV10.135     RV10.137    RV Mandala 10      RigVeda
Advertisements