RV10.151

ऋषिः  – श्रद्धा कामायनी । देवता – श्रद्धा । छन्दः – अनुष्टुप् ।

’श्रद्धया इति पञ्चर्चं त्रयोविंशं सूक्तमानुष्टुभं श्रद्धादेवत्यम् । कामगोत्रजा श्रद्धा नामर्षिका । तथा चानुक्रम्यते – ’श्रद्धया श्रद्धा कामायनी श्राद्धमानुष्टुभं तु’ इति । लैङ्गिको विनियोगः ॥

This sūkta is about śraddhā (faith), a quality necessary for any human endeavor.   It is implicit in everything we perform to attain a desired result.  And it is especially important for the successful completion of any auspicious undertaking.

This is the only sūkta in the entire Ṛgveda addressed to śraddhā and, interestingly, it was authored by a lady, aptly named Śraddhā, of the Kāma Gotra, hence her name is Śraddhā Kāmāyanī.

श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥ १ ॥

श्र॒द्धया॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । श्र॒द्धया॑ । हू॒य॒ते॒ । ह॒विः । श्र॒द्धाम् । भग॑स्य । मू॒र्धनि॑ । वच॑सा । आ । वे॒द॒या॒म॒सि॒ ॥

By faith (श्रद्धया) is the fire kindled (अग्निः समिध्यते), by faith (श्रद्धया) is the offering made (हविः हूयते). We proclaim everywhere (आ वेदयामसि) through our words (वचसा) this faith (श्रद्धाम्) that is the most cherished wealth (भगस्य मूर्धनि)!

प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥ २ ॥

प्रि॒यम् । श्र॒द्धे॒ । दद॑तः । प्रि॒यम् । श्र॒द्धे॒ । दिदा॑सतः । प्रि॒यम् । भो॒जेषु॑ । यज्व॑सु । इ॒दम् । मे॒ । उ॒दि॒तम् । कृ॒धि॒ ॥

O faith (श्रद्धे)! Bless the one (प्रियम् कृधि) who gives (ददतः)! O faith (श्रद्धे)! Bless the one (प्रियम् कृधि) who desires to give (दिदासतः)! Bless the desirous worshippers (भोजेषु यस्वसु) and bless this invocation of mine (मे उदितं प्रियं कृधि)!

यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥ ३ ॥

यथा॑ । दे॒वाः । असु॑रेषु । श्र॒द्धाम् । उ॒ग्रेषु॑ । च॒क्रि॒रे । ए॒वम् । भो॒जेषु॑ । यज्व॑ऽसु । अ॒स्माक॑म् । उ॒दि॒तम् । कृ॒धि॒ ॥

Just as the gods (यथा देवाः) evoked faith (श्रद्धाम् चक्रिरे) in the fierce demons (उग्रेषु असुरेषु), in the same way (एवम्) make this wish of ours (अस्माकम् उदितम्) bear fruit for the desirous worshippers (भोजेषु यस्वसु).

श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धां हृ॑द॒य्य१याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥ ४ ॥

श्र॒द्धाम् । दे॒वाः । यज॑मानाः । वा॒युऽगो॑पाः । उप॑ । आ॒स॒ते॒ । श्र॒द्धाम् । हृ॒द॒य्य॑या । आऽकू॑त्या । श्र॒द्धया॑ । वि॒न्द॒ते॒ । वसु॑ ॥

The gods (देवाः), patrons (यजमानाः), and those protected by Vāyu (वायुगोपाः) worship faith (श्रद्धाम् उपासते). One obtains wealth (वसु विन्दते) through faith (श्रद्धया) enshrined in the heart (ह्रदय्या) and intentions (आकूत्या).

श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह न॑: ॥ ५ ॥

श्र॒द्धाम् । प्रा॒तः । ह॒वा॒म॒हे॒ । श्र॒द्धाम् । म॒ध्य॑न्दि॑नम् । परि॑ । श्र॒द्धाम् । सूर्य॑स्य । नि॒ऽम्रुचि॑ । श्रद्धे॑ । श्रत् । धा॒प॒य॒ । इ॒ह । नः॒ ॥

We invoke faith (श्रद्धाम्) in the morning (प्रातः हवामहे), during mid-day (मध्यन्दिनं परि), and during the setting of the sun (सुर्यस्य निम्रुचि). O Faith (श्रद्धे)! Endow us here (इह नः) with faith (श्रत् धापय)!


RV10.150     RV10.152    RV Mandala 10      RigVeda