RV10.189

ऋषिः  – सार्पराज्ञी । देवता – आत्मा सूर्यः वा । छन्दः – गायत्री ।

’आयं गौः’ इति तृचमष्टात्रिंशं सूक्तं गायत्रम् । सार्पराज्ञी नामर्षिका । सैव देवता सूर्यो वेति । तथा चानुक्रान्तम् – ’आयं गौः सार्पराज्ञ्यात्मदैवतं सौर्यं वा’ इति । अविवाक्येऽहनि मानसग्रह एतत्सूक्तं शंसनीयम् । सूत्रितं च – ’आयं गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा’ (आश्व. श्रौ. ८.१३) इति ॥

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्व॑: ॥ १ ॥

आ । अ॒यम् । गौः । पृश्निः॑ । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒रः । पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्व१रिति॑ स्वः॑ ॥

अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन्महि॒षो दिव॑म् ॥ २ ॥

अ॒न्तरिति॑ । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒प॒ऽअ॒न॒ती । वि । अ॒ख्य॒त् । म॒हि॒षः । दिव॑म् ॥

त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑तं॒गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभि॑: ॥ ३ ॥

त्रिं॒शत् । धाम॑ । वि । रा॒ज॒ति॒ । वाक् । प॒त॒ङ्गाय॑ । धी॒य॒ते॒ । प्रति॑ । वस्तोः॑ । अह॑ । द्युऽभिः॑ ॥


RV10.188     RV10.190    RV Mandala 10      RigVeda
Advertisements