RV10.30

ऋषिः  – कवषः ऐलूषः । देवता – आपं अपांनपात् वा । छन्दः – त्रिष्टुप् ।

तृतीयेऽनेवाके त्रयोदश सूक्तानि । तत्र ’प्र देवत्रा’ इति पञ्चदशर्चं प्रथमं सूक्तम् । इलूषपुत्रस्य कवषस्यार्षं त्रिष्टुभमब्देवत्यमपांनपाद्देवताकं वा । तथा चानुक्रान्तं – ’प्र देवत्रा पञ्चोना कवष ऐलूष आपमपोनप्त्रीयं वा’ इति । ’अप इष्य होतः’ इत्युक्तः सन् होता ’प्र देवत्रा’ इत्याद्या नवर्चोऽनुब्रूयात् । सूत्रितं च – ’प्र देवत्रा ब्रह्मणे गातुरेत्विति नव हिनोता नो अध्वरं देवयज्येति दशमीम्’ (आश्व. श्रौ. ५.१) इति ॥

The deity of this hymn is either Apāṃ Napāt or the waters (as per tradition – see above).  Most of the verses are addressed to the waters as life givers and so on, and a few to Apāṃ Napāt, which seems to refer to either a reservoir or to lightning.

प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति । म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ॥ १ ॥

प्र । दे॒व॒ऽत्रा । ब्रह्म॑णे । गा॒तुः । ए॒तु॒ । अ॒पः । अच्छ॑ । मन॑सः । न । प्रऽयु॑क्ति । म॒हीम् । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । पृ॒थु॒ऽज्रय॑से । री॒र॒ध॒ । सु॒ऽवृ॒क्तिम् ॥

May the moving waters (गातुः अपः), impelled by prayer (ब्रह्मणे), go towards (प्र एतु) the gods (अच्छ देवत्रा), like the mind moves to some endeavor (मनसः न प्रतुक्ति). (O Adhvaryus!) Prepare (रीरध) the adulation (सुवृक्तिम्) and the glorious (soma) offering (महीम् धासिम्) for Mitra (मित्रस्य), Varuṇa (वरुणस्य), and the swiftly overcoming (पृथुज्रयसे) (Indra).

Notes

  • ब्रह्मणे = ब्रह्मणा (तृतीयार्थे चतुर्थी)
  • देवत्रा = देव + त्रा by देवमनुष्य० (पा. ५।४।५६)
  • पृथुज्रयः = from पृथु (wide) + ज्रयः (overcoming power) – जि ज्रि अभिभवे – ज्रीयतेऽभिभवतेऽनेनेति ज्रयो वेगः ।

अध्व॑र्यवो ह॒विष्म॑न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः । अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥ २ ॥

अध्व॑र्यवः । ह॒विष्म॑न्तः । हि । भू॒त । अच्छ॑ । अ॒पः । इ॒त॒ । उ॒श॒तीः । उ॒श॒न्तः॒ । अव॑ । याः । चष्टे॑ । अ॒रु॒णः । सु॒ऽप॒र्णः । तम् । आ । अ॒स्य॒ध्व॒म् । ऊ॒र्मिम् । अ॒द्य । सु॒ऽह॒स्ताः॒ ॥

O Adhvaryus (अध्वर्यवः)! Ready with the offering (हविष्मन्तः हि भूत) and desirous (उशन्तः) (of making the offering), approach the waters (अपः अच्छ इत), (equally) desirous (उशतीः) (of receiving it). Deft-handed (सुहस्ताः), now (अद्य) pour down (आ अस्यध्वम्) the wave (ऊर्मिम्) (of soma) – the one (तम्) which is red (अरुणः), streaming down (सुपर्णः) and looking down (अव चष्टे) on the waters (याः अपः).

Note: This seems to be a poetic description of pouring the soma into water to mix it in.

अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वम् । स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ॥ ३ ॥

अध्व॑र्यवः । अ॒पः । इ॒त॒ । स॒मु॒द्रम् । अ॒पाम् । नपा॑तम् । ह॒विषा॑ । य॒ज॒ध्व॒म् । सः । वः॒ । द॒द॒त् । ऊ॒र्मिम् । अ॒द्य । सुऽपू॑तम् । तस्मै॑ । सोम॑म् । मधु॑ऽमन्तम् । सु॒नो॒त॒ ॥

O Adhvaryus (अध्वर्यवः)! Go to the river (समुद्रम् इत) (to bring) water (अपः), and worship (यजध्वम्) Apāṃ Napāt (अपाम् नपातम्) with your offering (हविषा). May he give you today (सः अद्य वः ददत्) a purified wave (सुपूतम् ऊर्मिम्) (i.e. yield of water), press out (सुनुत) the sweet soma (मधुमन्तम् सोमम्) for him (तस्मै)!

Note: Here Apāṃ Napāt seems to refer to a reservoir of water.

यो अ॑नि॒ध्मो दीद॑यद॒प्स्व१न्तर्यं विप्रा॑स॒ ईळ॑ते अध्व॒रेषु॑ । अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्या॑य ॥ ४ ॥

यः । अ॒नि॒ध्मः । दीद॑यत् । अ॒प्ऽसु । अ॒न्तः । यम् । विप्रा॑सः । ईळ॑ते । अ॒ध्व॒रेषु॑ । अपा॑म् । न॒पा॒त् । मधु॑ऽमतीः । अ॒पः । दाः॒ । याभिः॑ । इन्द्रः॑ । व॒वृ॒धे । वी॒र्या॑य ॥

The one (यः) who flashes (दीदयत्) in the waters (अप्सु अन्तः) (i.e clouds) without fuel (अनिध्मः), whom (यम्) the wise (विप्रासः) glorify (ईळते) in sacrifices (अध्वरेषु) – O Apāṃ Napāt (अपाम् नपात्)! Give us (दाः) sweet waters (मधुमतीः अपः) (i.e rain), by which (याभिः) (when mixed with soma), Indra (इन्द्रः) grows (ववृधे) in prowess (वीर्याय).

Note: In this verse it is clear that Apāṃ Napāt refers to Agni (as lightning), and is derived as: जलस्य न पालकम् – संतापेन शोषकम् – one who does not protect water, i.e. dries it out with his heat

याभि॒: सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि॑र्युव॒तिभि॒र्न मर्य॑: । ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे॑हि॒ यदा॑सि॒ञ्चा ओष॑धीभिः पुनीतात् ॥ ५ ॥

याभिः॑ । सोमः॑ । मोद॑ते । हर्ष॑ते । च॒ । क॒ल्या॒णीभिः॑ । यु॒व॒तिऽभिः । न । मर्यः॑ । ताः । अ॒ध्व॒र्यो॒ इति॑ । अ॒पः । अच्छ॑ । परा॑ । इ॒हि॒ । यत् । आ॒ऽसि॒ञ्चाः । ओष॑धीभिः । पु॒नी॒ता॒त् ॥

By which (याभिः) (waters) Soma (सोमः) exults and delights (मोदते हर्षते च), like a man (मर्यः न) with charming young women (कल्याणीभिः युवतिभिः), O Adhvaryus (अध्वर्यवः)! Go to bring (अच्छ परा इहि) those waters (ताः अपः) , and infuse (आसिञ्चाः) and purify them (पुनीतात्) with herbs (ओषधीभिः)!

ए॒वेद्यूने॑ युव॒तयो॑ नमन्त॒ यदी॑मु॒शन्नु॑श॒तीरेत्यच्छ॑ । सं जा॑नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो॑ धि॒षणाप॑श्च दे॒वीः ॥ ६ ॥

ए॒व । इत् । यूने॑ । यु॒व॒तयः॑ । न॒म॒न्त॒ । यत् । ई॒म् । उ॒शन् । उ॒श॒तीः । एति॑ । अच्छ॑ । सम् । जा॒न॒ते॒ । मन॑सा । सम् । चि॒कि॒त्रे । अ॒ध्व॒र्यवः॑ । धि॒षणा॑ । आपः॑ । च॒ । दे॒वीः ॥

In this (एव इत्) way young women (युवतयः) bow to the youth (यूने नमन्त), and, desirous (उशन्), he approaches (अच्छ एति) the longing ones (ईम् उशतीः). O Adhvaryus (अध्वर्यवः)! Your speech (धिषणा) and the divine waters (देवीः आपः च) know each other by their minds (मनसा सं जानते) and cherish each other (सं चिकित्रे)!

यो वो॑ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रमु॑ञ्चत् । तस्मा॒ इन्द्रा॑य॒ मधु॑मन्तमू॒र्मिं दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥ ७ ॥

यः । वः॒ । वृ॒ताभ्यः॑ । अकृ॑णोत् । ऊँ॒ इति॑ । लो॒कम् । यः । वः॒ । म॒ह्याः । अ॒भिऽश॑स्तेः । अमु॑ञ्चत् । तस्मै॑ । इन्द्रा॑य । मधु॑ऽमन्तम् । ऊ॒र्मिम् । दे॒व॒ऽमाद॑नम् । प्र । हि॒णो॒त॒न॒ । आ॒पः ॥

Who (यः) made a way for you (वः लोकम् अकृणोत् उ), surrounded as you were (वृताभ्यः) (by clouds), who (यः) liberated you (वः अमुञ्चत्) from the mighty predicament (मह्याः अभिशस्तेः), O waters (आपः)! Send forth towards (प्र हिनोतन) that Indra (तस्मै इन्द्राय) a sweet wave (मधुमन्तम् ऊर्मिम्) that delights the gods (देवमादनम्)!

प्रास्मै॑ हिनोत॒ मधु॑मन्तमू॒र्मिं गर्भो॒ यो व॑: सिन्धवो॒ मध्व॒ उत्स॑: । घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो॑ रेवतीः शृणु॒ता हवं॑ मे ॥ ८ ॥

प्र । अ॒स्मै॒ । हि॒नो॒त॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । गर्भः॑ । यः । वः॒ । सि॒न्ध॒वः॒ । मध्वः॑ । उत्सः॑ । घृ॒तऽपृ॑ष्ठम् । ईड्य॑म् । अ॒ध्व॒रेषु॑ । आपः॑ । रे॒व॒तीः॒ । शृ॒णु॒त । हव॑म् । मे॒ ॥

O flowing waters (सिन्धवः)! That overflowing sweetness (यः मध्वः उत्सः) which is your essence (गर्भः), send forth (प्र हिनोत) a sweet wave (मधुमन्तम् ऊर्मिम्) towards him (अस्मै) , covered with ghee (घृतपृष्ठम्) and adored in sacrifices (अध्वरेषु ईड्यम्). O prosperous waters (रेवतीः आपः)! Listen to my call (मे हवम् शृणुत)!

Notes

  • The word सिन्धुः comes from the root स्यन्द् – to flow, derived using स्यन्देः सम्प्रसारणं धश्च (उ० ११)
  • The term घृतपृष्ठम् indicates that this refers to Agni

तं सि॑न्धवो मत्स॒रमि॑न्द्र॒पान॑मू॒र्मिं प्र हे॑त॒ य उ॒भे इय॑र्ति । म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तन्तुं॑ वि॒चर॑न्त॒मुत्स॑म् ॥ ९ ॥

तम् । सि॒न्ध॒वः॒ । म॒त्स॒रम् । इ॒न्द्र॒ऽपान॑म् । ऊ॒र्मिम् । प्र । हे॒त॒ । यः । उ॒भे इति॑ । इय॑र्ति । म॒द॒ऽच्युत॑म् । औ॒शा॒नम् । न॒भः॒ऽजाम् । परि॑ । त्रि॒ऽतन्तु॑म् । वि॒ऽचर॑न्तम् । उत्स॑म् ॥

O flowing waters (सिन्धवः)! Send forth (प्र हेत) that delightful wave (मत्सरम् ऊर्मिम्), that reaches both worlds (उभे इयर्ति) (here and hereafter), fit for Indra (इन्द्रपानम्), releasing rapture (मदच्युतम्), desirous (औशानम्) , born in the sky (नभोजाम्) (as rain), extending the three worlds all around (परि त्रितन्तुम्), moving in all directions (विचरन्तम्), and overflowing (उत्सम्).

Note: Sāyaṇa interprets औशानम् as “desirous of mixing with soma

आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चर॑न्तीः । ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो व॑न्दस्व स॒वृध॒: सयो॑नीः ॥ १० ॥

आ॒ऽवर्वृ॑ततीः । अध॑ । नु । द्वि॒ऽधाराः॑ । गो॒षु॒ऽयुधः॑ । न । नि॒ऽय॒वम् । चर॑न्तीः । ऋषे॑ । जनि॑त्रीः । भुव॑नस्य । पत्नीः॑ । अ॒पः । व॒न्द॒स्व॒ । स॒ऽवृधः॑ । सऽयो॑नीः ॥

O ṛṣi (ऋषे)! Now (अध) extol (वन्दस्व) these waters (अपः), swirling (आवर्वृततीः) with two streams (द्विधाराः), falling on barley fields (नियवम् चरन्तीः) like cattle raiders (गोषुयुधः न) , creators of the worlds (भुवनस्य जनित्रीः), protectors (पत्नीः), of the same origin (सयोनीः), and growing together (सवृधः).

Note: This verse is obscure. Sāyaṇa interprets नियवम् as “moving towards soma” and सयोनीः and स्वृधः as referring to the closeness between the waters and soma.

हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नाम् । ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूध॑: श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥ ११ ॥

हि॒नोत॑ । नः॒ । अ॒ध्व॒रम् । दे॒व॒ऽय॒ज्या । हि॒नोत॑ । ब्रह्म॑ । स॒नये॑ । धना॑नाम् । ऋ॒तस्य॑ । योगे॑ । वि । स्य॒ध्व॒म् । ऊधः॑ । श्रु॒ष्टी॒ऽवरीः॑ । भू॒त॒न॒ । अ॒स्मभ्य॑म् । आ॒पः॒ ॥

(O priests!) Send forth (हिनोत) our sacrifice (नः अध्वरम्) for worshipping the gods (देवयज्या), and send forth (हिनोत) the prayer (ब्रह्म) for obtaining wealth (धनानाम् सनये)! O waters (आपः)! Release your udders (ऊधः वि स्यध्वम्) (i.e. rain down) for the success of the sacrifice (ॠतस्य योगे) and become (भूतन) the fulfiller of our desires (अस्मभ्यम् श्रुष्टीवरीः)!

आपो॑ रेवती॒: क्षय॑था॒ हि वस्व॒: क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च । रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नी॒: सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥ १२ ॥

आ॒पः । रे॒व॒तीः॒ । क्षय॑थ । हि । वस्वः॑ । क्रतु॑म् । च॒ । भ॒द्रम् । बि॒भृ॒थाम् । अमृत॑म् । च॒ । रा॒यः । च॒ । स्थ । सु॒ऽअ॒प॒त्यस्य॑ । पत्नीः॑ । सर॑स्वती । तत् । गृ॒ण॒ते । वयः॑ । धा॒त् ॥

O prosperous waters (रेवतीः आपः)! You rule over (क्षयथ हि) all treasures (वस्वः), and support (बिभृथाम्) the auspicious sacrifice (भद्रम् क्रतुम् च) and immortality (अमृतम् च). You are the protectors (पत्नीः स्थ) of wealth (रायः) and worthy progeny (अवपत्यस्य च). May Sarasvatī (सरस्वती) give long life (वयः धात्) to the extoller (गृणते)!

प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि । अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तीः ॥ १३ ॥

प्रति॑ । यत् । आपः॑ । अदृ॑श्रम् । आ॒ऽय॒तीः । घृ॒तम् । पयां॑सि । बिभ्र॑तीः । मधू॑नि । अ॒ध्व॒र्युऽभिः॑ । मन॑सा । स॒म्ऽवि॒दा॒नाः । इन्द्रा॑य । सोम॑म् । सुऽसु॑तम् । भर॑न्तीः ॥

O waters (आपः)! When I see you (यत् अदृश्रम्), coming towards me (प्रति आयतीः), bearing (बिभ्रतीः) ghee (घृतम्), streams of milk (पयांसि) and honey (मधूनि), concurring with their mind (मनसा संविदानाः) with the Adhvaryus (अध्वर्युभिः), and bearing (भरन्तीः) well pressed out soma (सुषुतम् सोमम्) for Indra (इन्द्राय), (then I worship you).

एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः । नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥ १४ ॥

आ । इ॒माः । अ॒ग्म॒न् । रे॒वतीः॑ । जी॒वऽध॑न्याः । अध्व॑र्यवः । सा॒दय॑त । स॒खा॒यः॒ । नि । ब॒र्हिषि॑ । ध॒त्त॒न॒ । सो॒म्या॒सः॒ । अ॒पाम् । नप्त्रा॑ । स॒म्ऽवि॒दा॒नासः॑ । ए॒नाः॒ ॥

These prosperous (इमाः रेवतीः), life-giving (जीवधन्याः) (waters) have arrived (आ अग्मन्). O Adhvaryu friends (अध्वर्यवः सखायः)! Seat them (सादयत)! O soma-bringers (सोम्यासः)! Being in accord (संविदानासः) with these waters (एनाः अपाम् नप्त्रा), seat them (नि धत्तन) on the sacred grass (बर्हिषि).

आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदन्देव॒यन्ती॑: । अध्व॑र्यवः सुनु॒तेन्द्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥ १५ ॥

आ । अ॒ग्म॒न् । आपः॑ । उ॒श॒तीः । ब॒र्हिः । आ । इ॒दम् । नि । अ॒ध्व॒रे । अ॒स॒द॒न् । दे॒व॒ऽयन्तीः॑ । अध्व॑र्यवः । सु॒नु॒त । इन्द्रा॑य । सोम॑म् । अभू॑त् । ऊँ॒ इति॑ । वः॒ । सु॒ऽशका॑ । दे॒व॒ऽय॒ज्या ॥

The longing waters (उशतीः आपः), have come (आ अग्मन्) to this sacred grass (बर्हिः). Having come (आ), and desiring (to please) the gods (देवयन्तीः), they have taken their seat (आ असदन्) in this sacrifice (अध्वरे). O Adhvaryus (अध्वर्यवः)! Press out the soma (सोमम् सुनुत) for Indra (इन्द्राय)! May your worship of gods (वः देवयज्या) by fruitful (सुशका अभूत् उ)!


RV10.29     RV10.31    RV Mandala 10      RigVeda
Advertisements