RV10.32

ऋषिः  – कवषः ऐलूषः । देवता – विश्वे देवाः । छन्दः – त्रिष्टुप् ।

’प्र सु ग्मन्ता’ इति नवर्चं तृतीयं सूक्तम् । आदितः पञ्च जगत्यः । अथ चतस्रस्त्रिष्टुभः । पूर्ववदृषिदेवते । तथा चानुक्रान्तं – ’प्र सु ग्मंता नव पञ्चाद्या जगत्यः’ इति । गतो विनियोगः ।

This poem by Kavaṣa Ailūṣa has 9 verses and deals with multiple topics (विश्वेदेवाः). Most of them are addressed to Indra or Agni.  Verse 7 exhorts one to seek advice from the wise and follow it.

प्र सु ग्मन्ता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो॑धति ॥ १ ॥

प्र । सु । ग्मन्ता॑ । धि॒य॒सा॒नस्य॑ । स॒क्षणि॑ । व॒रेभिः॑ । व॒रान् । अ॒भि । सु । प्र॒ऽसीद॑तः । अ॒स्माक॑म् । इन्द्रः॑ । उ॒भय॑म् । जु॒जो॒ष॒ति॒ । यत् । सो॒म्यस्य॑ । अन्ध॑सः । बुबो॑धति ॥

(Indra) spurs his horses (ग्मन्ता सु) towards the sacrifice of the devout patron (प्र धियसानस्य सक्षणि), may he come (सु) by favored paths (वरिभिः) to partake of the best offerings (वरान् अभि), of the gracious worshipper (प्रसीदतः). May Indra (इन्द्रः) enjoy (जुजोषति) both our offerings (उभयम्) (i.e. praise and food), when he knows the taste (यत् बुबोधति) of soma (अन्धसः) given by me, the one who acquired soma (सोम्यस्य).

Notes

  • ग्मन्ता = ग्मन्तौ = the two going together
  • सु = सुष्ठु प्रेरयति – spurs on, or सुष्ठु आगच्छतु = come with affection

वी॑न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत । ये त्वा॒ वह॑न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वन्तु वग्व॒नाँ अ॑रा॒धस॑: ॥ २ ॥

वि । इ॒न्द्र॒ । या॒सि॒ । दि॒व्यानि॑ । रो॒च॒ना । वि । पार्थि॑वानि । रज॑सा । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । वह॑न्ति । मुहुः॑ । अ॒ध्व॒रान् । उप॑ । ते । सु । व॒न्व॒न्तु॒ । व॒ग्व॒नान् । अ॒रा॒धसः॑ ॥

O Indra (इन्द्र), lauded by many (पुरुष्टुत)! You pervade (वि यासि) the heavenly luminous worlds (दिव्या रोचना) and the earthly worlds (पार्थिवानि रजसा) ! Those (horses) that carry you (ये त्वा वहन्ति) to the sacrifice (अध्वरान्) again and again (मुहुः), may they gratify us (सु वन्वन्तु) – worshippers (वग्वनान्) without wealth (अराधसः)!

तदिन्मे॑ छन्त्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं॑ पि॒त्रोर॒धीय॑ति । जा॒या पतिं॑ वहति व॒ग्नुना॑ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ॥ ३ ॥

तत् । इत् । मे॒ । छ॒न्त्स॒त् । वपु॑षः । वपुः॑ऽतरम् । पु॒त्रः । यत् । जान॑म् । पि॒त्रोः । अ॒धि॒ऽइय॑ति । जा॒या । पति॑म् । व॒ह॒ति॒ । व॒ग्नुना॑ । सु॒ऽमत् । पुं॒सः । इत् । भ॒द्रः । व॒ह॒तुः । परि॑ऽकृतः ॥

May (Indra) desire (छन्त्सत्) that most magnificent among the magnificent (sacrifices) of mine (तत् वपुषः वपुष्टरम् इत् मे), just as son (पुत्रः) understands (अधीयति) (the value of) his birth (जानम्) from this parents (पित्रोः). The wife (जाया) attracts (वहति) the husband (पतिम्) by her sweet speech (सुमत् वग्नुना), and an auspicious and cultured man (भद्रः परिष्कृतः पुंसः) should be a groom (वहतुः).

Notes

  • वपुः = form, but here means “one which has a beautiful form”, magnificent
  • छन्त्सत् – desires, from छन्द् (to desire)

तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास॑न्वह॒तुं न धे॒नव॑: । मा॒ता यन्मन्तु॑र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा॑तु॒रिज्जन॑: ॥ ४ ॥

तत् । इत् । स॒धऽस्थ॑म् । अ॒भि । चारु॑ । दी॒ध॒य॒ । गावः॑ । यत् । शास॑न् । व॒ह॒तुम् । न । धे॒नवः॑ ।
मा॒ता । यत् । मन्तुः॑ । यू॒थस्य॑ । पू॒र्व्या । अ॒भि । वा॒णस्य॑ । स॒प्तऽधा॑तुः । इत् । जनः॑ ॥

(Indra)! Illumine alluringly (चारु दीधय) that place (तत् इत् सधस्थम्) (of sacrifice) all around (अभि) where invocations direct (the proceedings) (यत् गावः शासन्), like cows a newly born calf (धेनवः वहतुं न). When speech (यत् माता) first manifested in the group (of worshippers) (मन्तुः यूथस्य पूर्व्या), they became (जनः इत्) the creators of the seven-fold praise (सप्तधातुः वाणस्य अभि) (i.e. hymns composed using seven meters).

प्र वोऽच्छा॑ रिरिचे देव॒युष्प॒दमेको॑ रु॒द्रेभि॑र्याति तु॒र्वणि॑: । ज॒रा वा॒ येष्व॒मृते॑षु दा॒वने॒ परि॑ व॒ ऊमे॑भ्यः सिञ्चता॒ मधु॑ ॥ ५ ॥

प्र । वः॒ । अच्छ॑ । रि॒रि॒चे॒ । दे॒व॒ऽयुः । प॒दम् । एकः॑ । रु॒द्रेभिः॑ । या॒ति॒ । तु॒र्वणिः॑ । ज॒रा । वा॒ । येषु॑ । अ॒मृते॑षु । दा॒वने॑ । परि॑ । वः॒ । ऊमे॑भ्यः । सि॒ञ्च॒त॒ । मधु॑ ॥

The devoted one (देवयुः) (priest) hastened towards (प्र रिरिचे) your station (वः पदम् अच्छ) (sacrifice) (just as) the swift one (एकः तुर्वणिः) (Indra) moves (याति) accompanied by the Rudras (रुद्रेभिः) (i.e Maruts). Blend the sweet (मधु परि सिञ्चत) (soma) (with water) for the protectors (ऊमेभ्यः), in which immortal beings (येषु अमृतेषु) generosity (दावने) is awakened by praise (जरा वा).

Note: देवयुः = one who desires the gods, devoted

नि॒धी॒यमा॑न॒मप॑गूळ्हम॒प्सु प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच । इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥ ६ ॥

नि॒ऽधी॒यमा॑नम् । अप॑ऽगूळ्हम् । अ॒प्ऽसु । प्र । मे॒ । दे॒वाना॑म् । व्र॒त॒ऽपाः । उ॒वा॒च॒ । इन्द्रः॑ । वि॒द्वान् । अनु॑ । हि । त्वा॒ । च॒चक्ष॑ । तेन॑ । अ॒हम् । अ॒ग्ने॒ । अनु॑ऽशिष्टः । आ । अ॒गा॒म् ॥

The protector of the works of the gods (देवानां व्रतपाः) (Indra) told me (मे प्र उवाच) about the one placed (निधीयमानम्) and hidden (अपगूळ्हम्) in the waters (अप्सु) (i.e. Agni). O Agni (अग्ने)! The wise Indra (विद्वान् इन्द्रः) later discovered you (अनु हि त्वा चचक्ष), and instructed by him (तेन अनुशिष्टः), may I go (अहम् आ अगाम्) towards (heaven, with your assistance).

अक्षे॑त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः । ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं वि॑न्दत्यञ्ज॒सीना॑म् ॥ ७ ॥

अक्षे॑त्रऽवित् । क्षे॒त्र॒ऽविद॑म् । हि । अप्रा॑ट् । सः । प्र । ए॒ति॒ । क्षे॒त्र॒ऽविदा॑ । अनु॑ऽशिष्टः । ए॒तत् । वै॒ । भ॒द्रम् । अ॒नु॒ऽशास॑नस्य । उ॒त । स्रु॒तिम् । वि॒न्द॒ति॒ । अ॒ञ्ज॒सीना॑म् ॥

The one who does not know the path (अक्षेत्रवित्) asked (अप्राट् हि) the one who knows the path (क्षेत्रवित्दम्), and, instructed by the one who knows the path (क्षेत्रविदा अनुशिष्टः), moves forward (सः प्र एति). This is indeed the blessing (एतत् वै भद्रम्) of the instruction (अनुशासनस्य), that one finds (उत विन्दति) the straightforward path (अञ्जसीनां स्रुतिम्).

Note: क्षेत्रम् = path, derived as: क्षि निवासगत्योः – क्षीयते गम्यतेऽनेनेति क्षेत्रं पन्थाः (सायणः)

अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी॑वृतो अधयन्मा॒तुरूध॑: । एमे॑नमाप जरि॒मा युवा॑न॒महे॑ळ॒न्वसु॑: सु॒मना॑ बभूव ॥ ८ ॥

अ॒द्य । इत् । ऊँ॒ इति॑ । प्र । आ॒णी॒त् । अम॑मन् । इ॒मा । अहा॑ । अपि॑ऽवृतः । अ॒ध॒य॒त् । मा॒तुः । ऊधः॑ । आ । ई॒म् । ए॒न॒म् । आ॒प॒ । ज॒रि॒मा । युवा॑नम् । अहे॑ळन् । वसुः॑ । सु॒ऽमनाः॑ । ब॒भू॒व॒ ॥

Today (अद्य इत् उ) Agni came to life (प्राणीत्) and decided to lead (अममन्) these daily activities (इमा अहा); enveloped by effulgence (अपिवृतः), he sucked (अधयत्) the mother’s breast (मातुः ऊधः) (i.e. he consumed offerings produced by the earth). Then the praise (जरिमा) reached this ever youthful one (एनम् युवानम् आ ईम् आप), and he, the bestower of wealth (वसुः), discarding anger (अहेळन्) (i.e. destructive power), became benevolent (सुमना बभूव) (towards his devotees).

Notes

  • प्राणीत् – मथनेन चेष्टितोऽभवत् । ’श्वस प्राणने अन च’ इति धातुः (सायणः) – came to life, generated by churning sticks
  • अममन् – irregular derivation from मन ज्ञाने । व्यत्ययेन श्लुः (सायणः)
  • जरिमा – praise, derived from जर् (to praise) + इमनिच् (उणादिः)

ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ । दा॒न इद्वो॑ मघवान॒: सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥ ९ ॥

ए॒तानि॑ । भ॒द्रा । क॒ल॒श॒ । क्रि॒या॒म॒ । कुरु॑ऽश्रवण । दद॑तः । म॒घानि॑ । दा॒नः । इत् । वः॒ । म॒घ॒ऽवा॒नः॒ । सः । अ॒स्तु॒ । अ॒यम् । च॒ । सोमः॑ । हृ॒दि । यम् । बिभ॑र्मि ॥

O Kalaśa (कलश)! O Kuruśravaṇa (कुरुश्रवण)! We prepare auspicious offerings (भद्रा क्रियाम) for the one who bestows wealth (मघानि ददतः) (Indra). O wealthy patrons (मघवानः)! May he (सः) (Indra), as well as this soma (अयं सोमः च) that I hold in my heart (यं हृदि बिभर्मि), be your benefactor (वः दानः अस्तु इत्)

Notes

  • कलशः – according to Sāyaṇa, means either कलावन् सर्वकलापरिपूर्णः (one skilled in all arts), or द्रोणकलशवन् (one holding a leaf-cup)
  • कुरुश्रवणः may either be the same of a king (son of Trasadasyu – see the next hymn RV10.33), or a reference to Indra – “one who listens to the prayers of the Kurus

RV10.31     RV10.33    RV Mandala 10      RigVeda
Advertisements