RV10.33

ऋषिः  – कवषः ऐलूषः । देवता – विश्वे देवाः (1), इन्द्रः (2-3), कुरुश्रवणस्त्रासदस्यवः (4-5), उपमश्रवाः मैत्रातिथिः (6-9) । छन्दः – त्रिष्टुप् (1), बृहती (2), सतोबृहती (3), गायत्री (4-9) ।

अथाष्टमोऽध्याय प्रारभ्यते । तत्र ’प्र मा’ इति नवर्चं चतुर्थं सूक्तमैलूषस्य कवषस्यार्षम् । आद्या त्रिष्टुप् सा च वैश्वदेवी । द्वितीयातृतीये बृहतीसतोबृहत्यौ ऐन्द्र्यौ । पराः षड्गायत्र्यः । ’कुरुश्रवणमावृणि’ इति द्वाभ्यां त्रसदस्युपुत्रस्य कुरुश्रवणनाम्नो राज्ञो दानं तुष्टाव । अतस्तद्देवताके । अथ ’यस्य प्रस्वादसः’ इत्यादिभिश्चतसृभिर्मित्रातिथिनाम्नि राज्ञि परलोकं गते शोकाभिभूतं तस्य पुत्रमुपश्रवोनामानं कवष ऋषिः स्नेहवशादभिगत्य विगतशोकमकरोत् । अतसतां तद्देवताकम् । तथा चानुक्रान्तं – ’प्र माद्या वैश्वदैव्यैन्द्रः प्रगाथः परा गायत्र्यो द्वे कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुतिः पराभिर्मृते मित्रातिथौ राज्ञि तत्स्नेहादृषिरुपमश्रवसं पुत्रमस्य व्यशोकयत् ’ इति । गतो विनियोगः ।

This hymn by Kavaṣa is interesting and somewhat unusual.  Verse 1 is in praise of various gods (with a hint of evil foreboding). Verses 2 and 3 are addressed to Indra, but clearly indicate that the poet is suffering from some mental anguish, the source of which is not clear.   Verses 4 and 5 (called dānastutis) are in praise of the king Kuruśravaṇa, son of Trasadasyu.  The remaining verses (6 to 9) are a touching composition by Kavaṣa used to console Upamaśravas (whom some identify with Kuruśravaṇa) on the death of his father Mitrātithi.  This is stated in the sarvānukramaṇī (the traditional index of the Ṛgveda ) and quoted by Sāyaṇa.

प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण । विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दु॒:शासु॒रागा॒दिति॒ घोष॑ आसीत् ॥ १ ॥

प्र । मा॒ । यु॒यु॒ज्रे॒ । प्र॒ऽयुजः॑ । जना॑नाम् । वहा॑मि । स्म॒ । पू॒षण॑म् । अन्त॑रेण । विश्वे॑ । दे॒वासः॑ । अध॑ । माम् । अ॒र॒क्ष॒न् । दुः॒ऽशासुः॑ । आ । अ॒गा॒त् । इति॑ । घोषः॑ । आ॒सी॒त् ॥

The wishes of the patrons (जनानां प्रयुजः) have induced me (मा प्र युयुज्रे) (to approach Kuruśravaṇa). On the path (अन्तरेण) I carry (वहामि स्म) (the friendship of) Pūṣan (पूषणम्).  All the gods (विश्वे देवासः) have protected me (माम् अरक्षन्) on the path (अध), and there was a loud cry (घोषः आसीत्), “Duḥśāsu is approaching (दुःशासुः आगात्)!”

Notes

  • Pūṣan is the god who helps one during a journey
  • Duḥśāsu seems to be someone that caused fear, and it is not clear why he is being mentioned

सं मा॑ तपन्त्य॒भित॑: स॒पत्नी॑रिव॒ पर्श॑वः । नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः ॥ २ ॥

सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ । स॒पत्नीः॑ऽइव । पर्श॑वः । नि । बा॒ध॒ते॒ । अम॑तिः । न॒ग्नता॑ । जसुः॑ । वेः । न । वे॒वी॒य॒ते॒ । म॒तिः ॥

My ribs (पर्शवः) torment me (मा सं तपन्ति) from both sides (अभितः) (probably because of hunger) like rival wives (सपत्नीरिव). Vile thoughts (अमतिः), nakedness (नग्नता), and exhaustion (जसुः) bother me (नि बाधते), and my mind trembles (मतिः वेवीयते) like that of a bird (वेः न) (out of fear of the hunter).

मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑ स्तो॒तारं॑ ते शतक्रतो । स॒कृत्सु नो॑ मघवन्निन्द्र मृळ॒याधा॑ पि॒तेव॑ नो भव ॥ ३ ॥

मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । स॒कृत् । सु । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । मृ॒ळ॒य॒ । अध॑ । पि॒ताऽइ॑व । नः॒ । भ॒व॒ ॥

O wealthy (मघवन्) Indra (इन्द्र) of many deeds (शतक्रतो)! Anguished thoughts (आध्यः) are gnawing (अदन्ति) at me, your devotee (ते स्तोतारम्), as rats (मूषः) gnaw at weaver’s threads (शिश्ना). Soothe us (नः सु मृळय) quickly (सकृत्), and be like a father to us (अध नः पितेव भव)!

कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवम् । मंहि॑ष्ठं वा॒घता॒मृषि॑: ॥ ४ ॥

कु॒रु॒ऽश्रव॑णम् । अ॒वृ॒णि॒ । राजा॑नम् । त्रास॑दस्यवम् । मंहि॑ष्ठम् । वा॒घता॑म् । ऋषिः॑ ॥

I, the ṛṣi (ऋषिः) asked the most generous (मंहिष्ठम्) king Kuruśravaṇa (कुरुश्रवणम् राजानम्), son of Trasadasyu (त्रासदस्यवम्), for wealth (आवृणि) for the sake of the priests (वाघताम्).

यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साधु॒या । स्तवै॑ स॒हस्र॑दक्षिणे ॥ ५ ॥

यस्य॑ । मा॒ । ह॒रितः॑ । रथे॑ । ति॒स्रः । वह॑न्ति । सा॒धु॒ऽया । स्तवै॑ । स॒हस्र॑ऽदक्षिणे ॥

Whose three horses (यस्य तिस्रः हरितः) carry me forward (साधुया वहन्ति) on the chariot (रथे). I praise him (स्तवै) in this bounteous sacrifice (सहस्रदक्षिणे).

यस्य॒ प्रस्वा॑दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः । क्षेत्रं॒ न र॒ण्वमू॒चुषे॑ ॥ ६ ॥

यस्य॑ । प्रऽस्वा॑दसः । गिरः॑ । उ॒प॒मऽश्र॑वसः । पि॒तुः । क्षेत्र॑म् । न । र॒ण्वम् । ऊ॒चुषे॑ ॥

The speech (गिरः) of the father of Upamaśravas (यस्य उपमश्रवसः पितुः) is extremely delightful (प्रस्वादसः), as a fertile piece of land (रण्वं क्षेत्रम्) is to a supplicant (ऊचुषे)!

Note: This and the following three ṛks were composed by Kavaṣa to console Upamaśravas on the death of his father Mitrātithi (see introduction). Some scholars think that Mitrātithi is just another name of Kuruśravaṇa.

अधि॑ पुत्रोपमश्रवो॒ नपा॑न्मित्रातिथेरिहि । पि॒तुष्टे॑ अस्मि वन्दि॒ता ॥ ७ ॥

अधि॑ । पु॒त्र॒ । उ॒प॒म॒ऽश्र॒वः॒ । नपा॑त् । मि॒त्र॒ऽअ॒ति॒थेः॒ । इ॒हि॒ । पि॒तुः । ते॒ । अ॒स्मि॒ । व॒न्दि॒ता ॥

O son Upamaśravas (पुत्र उपमश्रवः), son of Mitrātithi (मित्रातिथेः नपात्)! Come to me (अधि इति), I am (अस्मि) your father’s admirer (ते पितुः वन्दिता)!

NoteSāyaṇa interprets नपात् as “son”. Some scholars interpret it to mean “grandson”. However the sarvānukramaṇī clearly states that the देवता of verses 6-9 is उपमश्रवाः मैत्रातिथिः (i.e. Upamaśravas, the son of Mitrātithi).

यदीशी॑या॒मृता॑नामु॒त वा॒ मर्त्या॑नाम् । जीवे॒दिन्म॒घवा॒ मम॑ ॥ ८ ॥

यत् । ईशी॑य । अ॒मृता॑नाम् । उ॒त । वा॒ । मर्त्या॑नाम् । जीवे॑त् । इ॒त् । म॒घऽवा॑ । मम॑ ॥

And if (उत यत्) I were the ruler (ईशीय) of immortals (अमृतानाम्) and mortals (मर्त्यानां वा), my benefactor (Mitrātithi) would have lived (मम मघवा जीवेत् इत्). (Therefore there is nothing I can do to revive him).

न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति । तथा॑ यु॒जा वि वा॑वृते ॥ ९ ॥

न । दे॒वाना॑म् । अति॑ । व्र॒तम् । श॒तऽआ॑त्मा । च॒न । जी॒व॒ति॒ । तथा॑ । यु॒जा । वि । व॒वृ॒ते॒ ॥

No one, even though a hundred years old (शतात्मा चन), lives more than (न अति जीवति) what has been ordained by the gods (देवानाम् व्रतम्). Thus he is separated (तथा वि ववृते) from his dear ones (युजा). (Therefore, do not grieve on the death of your father).


RV10.32     RV10.34    RV Mandala 10      RigVeda
Advertisements