RV10.34

ऋषिः  – कवषः ऐलूषः, अक्षः मौजवान् वा । देवता – अक्षस्तुतिः (1,7,9,12), अक्षकितवनिन्दा (2-6,8,10-11,14), कृषिस्तुतिः (13) । छन्दः – त्रिष्टुप् (1-6,8-14), जगती (7) ।

’प्रावेपाः’ इति चतुर्दशर्चं पञ्चमं सूक्तमैलूषस्य कवषस्यार्षं मुजवतः पुत्रस्याक्षाख्यस्य वा । सप्तमी जगती शिष्टास्त्रयोदश त्रिष्टुभः । अत्र द्वादशी अक्षान् स्तौति नवम्याद्या च सप्तमी । अतस्तावद्देवत्याः । त्रयोदशी कृषिं स्तौति । अतस्तस्याः सा देवता । एवं पञ्च गताः । शिष्टाभिर्नवभिः कितवोऽक्षाश्च निन्द्यन्ते । अतस्ता अपि तद्देवत्याः । तथा चानुक्रान्तं – ’प्रावेपाः षळूना मौजवान्वाक्षोऽक्षकृषिप्रशंसा चाक्षकितवनिन्दा च सप्तमी जगती’ इति । गतो विनियोगः ॥

This poem by Kavaṣa Ailūṣa, also known as the “gambler’s lament” is a poignant description of the fate of one addicted to gambling.  It ends with an exhortation to give up gambling and take to farming (which was relevant in those times).

From this and other writings of Kavaṣa we can piece together a probable sketch of his life.  He must have been a gambler in his earlier days, and must have had a bad reputation.  When he joined a group of ṛṣis  at a sacrifice he was driven away, specifically being called a gambler (कितवः) by them.  He was later accepted as a ṛṣi because of his accomplishments.  He later became the purohita of the king Kuruśravaṇa (Upamaśravas) and his father Mitrātithi (as evidenced by RV10.33).

Although there are many ways to derive the word kitava, here is a colorful explanation given by Sāyaṇa in his commentary on RV5.85.8 – किं तवास्ति सर्वं मया जितमिति वदतीति कितवः – a kitava is so called because he says “what remains that is yours (किं तव अस्ति)?, everything (of yours) has been won by me (सर्वं मया जितम्)”.

प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयन्ति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः । सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥ १ ॥

प्रा॒वे॒पाः । मा॒ । बृ॒ह॒तः । मा॒द॒य॒न्ति॒ । प्र॒वा॒ते॒ऽजाः । इरि॑णे । वर्वृ॑तानाः । सोम॑स्यऽइव । मौ॒ज॒ऽव॒तस्य॑ । भ॒क्षः । वि॒ऽभीद॑कः । जागृ॑विः । मह्य॑म् । अ॒च्छा॒न् ॥

The wobbling (प्रावेपाः) (dice) born on tall trees in windy places (बृहतः प्रवातेजाः), rolling on the dice-board (इरिणे वर्वृतानाः), gladden my heart (मा मादयन्ति), the dice from the Vibhīdaka tree (विभीदकः), the one that keeps (gamblers) awake (जागृविः), delights me (मह्यम् अच्छान्), like the drink (भक्षः) of soma (सोमस्य इव) from the Mujavat mountain (मौजवतस्य).

Note: The nuts of the Vibhīdaka tree were used as dice in Vedic times. This is identified as Terminalia bellica

न मा॑ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् । अ॒क्षस्या॒हमे॑कप॒रस्य॑ हे॒तोरनु॑व्रता॒मप॑ जा॒याम॑रोधम् ॥ २ ॥

न । मा॒ । मि॒मे॒थ॒ । न । जि॒ही॒ळे॒ । ए॒षा । शि॒वा । सखि॑ऽभ्यः । उ॒त । मह्य॑म् । आ॒सी॒त् । अ॒क्षस्य॑ । अ॒हम् । ए॒क॒ऽप॒रस्य॑ । हे॒तोः । अनु॑ऽव्रताम् । अप॑ । जा॒याम् । अ॒रो॒ध॒म् ॥

She (एषा) (my wife) neither got angry (न मिमेथ) nor felt ashamed (न निहीळे) of me (मा); (उत)(on the contrary), she was cordial (शिवा आसीत्) towards my friends(सखिभ्यः) and towards me (उत मह्यम्). For the sake of (हेतोः) addiction to dice (अक्षस्य अक्षस्य), I have abandoned (अहम् अप अरोधम्) my devoted wife (अनुव्रताम् जायाम्)!

Note: एकपरस्य = एकः परः प्रधानं यस्य – the one who considers one thing the most important (i.e. addicted to it)

द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो वि॑न्दते मर्डि॒तार॑म् । अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि॑न्दामि कित॒वस्य॒ भोग॑म् ॥ ३ ॥

द्वेष्टि॑ । श्व॒श्रूः । अप॑ । जा॒या । रु॒ण॒द्धि॒ । न । ना॒थि॒तः । वि॒न्द॒ते॒ । म॒र्डि॒तार॑म् । अश्व॑स्यऽइव । जर॑तः । वस्न्य॑स्य । न । अ॒हम् । वि॒न्दा॒मि॒ । कि॒त॒वस्य॑ । भोग॑म् ॥

The mother-in-law hates (the gambler) (श्वश्रूः द्वेष्टि), the wife keeps him away (जाया अप रुणद्धि), and the destitute (नाथितः) does not find (न विन्दते) a comforting friend (मर्डितारम्). I do not find (न विन्दामि) any happiness for a gambler (कितवस्य भोगम्), like the value of an old and worn-out horse (जरतः अश्वस्य इव वस्न्यस्य).

अ॒न्ये जा॒यां परि॑ मृशन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१क्षः । पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा॑नीमो॒ नय॑ता ब॒द्धमे॒तम् ॥ ४ ॥

अ॒न्ये । जा॒याम् । परि॑ । मृ॒श॒न्ति॒ । अ॒स्य॒ । यस्य॑ । अगृ॑धत् । वेद॑ने । वा॒जी । अ॒क्षः । पि॒ता । मा॒ता । भ्रात॑रः । ए॒न॒म् । आ॒हुः॒ । न । जा॒नी॒मः॒ । नय॑त । ब॒द्धम् । ए॒तम् ॥

Others (अन्ये) fondle the wife (जायां परि मृशन्ति) of the one (अस्य) whose (यस्य) wealth (वेदने) the powerful dice (वाजी अक्षः) has coveted (अगृधत्). The father (पिता), mother (माता), and brothers (भातरम्) say of him (एनम् आहुः), “We don’t know him (न जानीमः), bind him and take him away (एतं बद्धं नयत)!”

यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः । न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒ एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व ॥ ५ ॥

यत् । आ॒ऽदी॒ध्ये॒ । न । द॒वि॒षा॒णि॒ । ए॒भिः॒ । प॒रा॒यत्ऽभ्यः॑ । अव॑ । हीये॑ । सखि॑ऽभ्यः । निऽउ॑प्ताः । च॒ । ब॒भ्रवः॑ । वाच॑म् । अक्र॑त । एमि॑ । इत् । ए॒षा॒म् । निः॒ऽकृ॒तम् । जा॒रिणी॑ऽइव ॥

When I resolve (यत् आदीध्ये) that I will not play (न दविषाणि) with these (एभिः) (dice), then I am abandoned (अव हीये) by my departing friends (परायद्भ्यः सखिभ्यः). And (च) (when) the tawny (dice) (बभ्रवः) that are thrown down (न्युप्ताः) (on the board) make a rattling sound (वाचम् अक्रत), I go towards (एमि इत्) the place where they are thrown (निष्कृतम्), like a paramour (जारिणी इव) (drawn to the meeting place with her lover).

स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३ शूशु॑जानः । अ॒क्षासो॑ अस्य॒ वि ति॑रन्ति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥ ६ ॥

स॒भाम् । ए॒ति॒ । कि॒त॒वः । पृ॒च्छमा॑नः । जे॒ष्यामि॑ । इति॑ । त॒न्वा॑ । शूशु॑जानः । अ॒क्षासः॑ । अ॒स्य॒ । वि । ति॒र॒न्ति॒ । काम॑म् । प्र॒ति॒ऽदीव्ने॑ । दध॑तः । आ । कृ॒तानि॑ ॥

His body glowing (तन्वा शूशुजानः) , the gambler (कितवः) enquiring (पृच्छमानः) (about the gambling den), goes to it (सभाम् एति), thinking (इति) “I will win (जेष्यामि)”. On the casting (आ दधतः) of the moves (कृतानि) by his adversary (प्रतिदीव्ने), the dice (अक्षासः) stoke (वि तिरन्ति) his desire (अस्य कामम्).

अ॒क्षास॒ इद॑ङ्कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णव॑: । कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥ ७ ॥

अ॒क्षासः॑ । इत् । अ॒ङ्कु॒शिनः॑ । नि॒ऽतो॒दिनः॑ । नि॒ऽकृत्वा॑नः । तप॑नाः । ता॒प॒यि॒ष्णवः॑ । कु॒मा॒रऽदे॑ष्णाः । जय॑तः । पु॒नः॒ऽहनः॑ । मध्वा॑ । सम्ऽपृ॑क्ताः । कि॒त॒वस्य॑ । ब॒र्हणा॑ ॥

Dice are indeed (अक्षासः इत्) goads (अङ्कुशिनः) that torment (नोतोदिनः) and destroy (निकृत्वानः), and cause remorse (तपनाः) and agony (तापयिष्णवः). For the winning gambler (जयतः कितवस्य), they are like sons who keep sucking wealth (कुमारदेष्णाः) (from a wealthy father), and for the loser (बर्हणा) they, covered with honey (मध्वा संपृक्ताः) destroy him again (पुनर्हणः). (i.e. his wealth and his reputation).

त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा ।
उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥ ८ ॥

त्रि॒ऽप॒ञ्चा॒शः । क्री॒ळ॒ति॒ । व्रातः॑ । ए॒षा॒म् । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । उ॒ग्रस्य॑ । चि॒त् । म॒न्यवे॑ । न । न॒म॒न्ते॒ । राजा॑ । चि॒त् । ए॒भ्यः॒ । नमः॑ । इत् । कृ॒णो॒ति॒ ॥

Their group (एषाम् व्रातः) of fifty three (त्रिपञ्चाशः) cavort (क्रीळति) (on the board), like the god Savitṛ (देवः सविता इव), true to his word (सत्यधर्मा). They do not bow down (न नमन्ते) even to the anger (मन्यवे) of the infuriated (उग्रस्य चित्), even the king (राजा चित्) bows down to them (एभ्यः नमः इत् कृणोति)!

Note: Apparently fifty three dice were used in dice games during Vedic times

नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते । दि॒व्या अङ्गा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ॥ ९ ॥

नी॒चाः । व॒र्त॒न्ते॒ । उ॒परि॑ । स्फु॒र॒न्ति॒ । अ॒ह॒स्तासः॑ । हस्त॑ऽवन्तम् । स॒ह॒न्ते॒ । दि॒व्याः । अङ्गा॑राः । इरि॑णे । निऽउ॑प्ताः । शी॒ताः । सन्तः॑ । हृद॑यम् । निः । द॒ह॒न्ति॒ ॥

They roll downwards (नीचाः वर्तन्ते) and spring upwards (उपरि स्फुरन्ति), without hands (अहस्तासः) they overpower (सहन्ते) the one with hands (हस्तवन्तम्)! Though being cold to touch (शीताः सन्तः), cast on the board (इरिणे न्युप्ताः), they are glowing charcoals (दिव्याः अङ्गाराः) that burn the heart (हृदयं निर्दहन्ति)!

जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑त॒: क्व॑ स्वित् । ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥ १० ॥

जा॒या । त॒प्य॒ते॒ । कित॒वस्य॑ । ही॒ना । मा॒ता । पु॒त्रस्य॑ । चर॑तः । क्व॑ । स्वि॒त् । ऋ॒ण॒ऽवा । बि॒भ्य॒त् । धन॑म् । इ॒च्छमा॑नः । अ॒न्येषा॑म् । अस्त॑म् । उप॑ । नक्त॑म् । ए॒ति॒ ॥

The abandoned wife (हीना जाया) of the aimlessly wandering gambler (क्व स्वित् चरतः कितवस्य) is tormented (तप्यते), and so is the mother (माता). Indebted (ऋणावा) and fearful (बिभ्यत्), desiring wealth (धनम् इच्छमानः) (by any means), he approaches (उप एति) the homes (अन्येषाम् अस्तम्) of others by night (नक्तम्) (to steal).

Notes

  • क्व स्वित् = wherever his mind takes him, i.e. aimlessly
  • अस्तम् – listed among the 21 names for house (Nighantu 3.4)

स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनि॑म् । पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरन्ते॑ वृष॒लः प॑पाद ॥ ११ ॥

स्त्रिय॑म् । दृ॒ष्ट्वाय॑ । कि॒त॒वम् । त॒ता॒प॒ । अ॒न्येषा॑म् । जा॒याम् । सुऽकृ॑तम् । च॒ । योनि॑म् । पू॒र्वा॒ह्णे । अश्वा॑न् । यु॒यु॒जे । हि । ब॒भ्रून् । सः । अ॒ग्नेः । अन्ते॑ । वृ॒ष॒लः । प॒पा॒द॒ ॥

The gambler (कितवम्) burns with envy (तताप) on seeing a woman (स्त्रियं दृष्ट्वाय), another’s wife (अन्येषां जायाम्), and his well-established dwelling (सुकृतं योनिं च). He (सः) yokes (युयुजे हि) the tawny horses (बभ्रून् अश्वान्) in the morning and the sinner (वृषलः) sinks down (पपाद) (exhausted) when the fire dies out (अग्नेः अन्ते).

Notes

  • कितवम् – should be interpreted as कितवः
  • योनिः – listed among the 21 names for house (Nighantu 3.4)
  • Yoking the tawny horses is a metaphor for playing dice

यो व॑: सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ । तस्मै॑ कृणोमि॒ न धना॑ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥ १२ ॥

यः । वः॒ । से॒ना॒ऽनीः । म॒ह॒तः । ग॒णस्य॑ । राजा॑ । व्रात॑स्य । प्र॒थ॒मः । ब॒भूव॑ । तस्मै॑ । कृ॒णो॒मि॒ । न । धना॑ । रु॒ण॒ध्मि॒ । दश॑ । अ॒हम् । प्राचीः॑ । तत् । ऋ॒तम् । व॒दा॒मि॒ ॥

(O dice)! Whoever (यः) is the commander-in-chief (वः सेनानीः बभूव) of your hordes (गणस्य), the king (राजा), the foremost (प्रथमः) of your tribe (व्रातस्य), I bow to him (अहम् तस्मै कृणोमि) with ten fingers (i.e. joined palms) facing east (दश प्राचीः), and I will not covet wealth (न धना रुणध्मि) – this I say truthfully (तत् ऋतं वदामि).

अ॒क्षैर्मा दी॑व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः । तत्र॒ गाव॑: कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥ १३ ॥

अ॒क्षैः । मा । दी॒व्यः॒ । कृ॒षिम् । इत् । कृ॒ष॒स्व॒ । वि॒त्ते । र॒म॒स्व॒ । ब॒हु । मन्य॑मानः । तत्र॑ । गावः॑ । कि॒त॒व॒ । तत्र॑ । जा॒या । तत् । मे॒ । वि । च॒ष्टे॒ । स॒वि॒ता । अ॒यम् । अ॒र्यः ॥

O gambler (कितव)! Do not play with dice (अक्षैः मा दीव्यः), engage in farming (कृषिं इति कृषस्व), enjoy the wealth gained thereby (वित्ते रमस्व), considering it to be sufficient (बहु मन्यमानः)! There (in farming) are the cattle (तत्र गावः), there is your wife (तत्र जाया) (i.e. you will find happiness in them), that is what the lord Savitṛ (अयम् अर्यः सविता) has told me (तत् मे वि चष्टे).

मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता॑ नो॒ मा नो॑ घो॒रेण॑ चरता॒भि धृ॒ष्णु । नि वो॒ नु म॒न्युर्वि॑शता॒मरा॑तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥ १४ ॥

मि॒त्रम् । कृ॒णु॒ध्व॒म् । खलु॑ । मृ॒ळत॑ । नः॒ । मा । नः॒ । घो॒रेण॑ । च॒र॒त॒ । अ॒भि । धृ॒ष्णु । नि । वः॒ । नु । म॒न्युः । वि॒श॒ता॒म् । अरा॑तिः । अ॒न्यः । ब॒भ्रू॒णाम् । प्रऽसि॑तौ । नु । अ॒स्तु॒ ॥

(O dice!) Make us your friend (मित्रं कृणुध्वम् खलु), soothe us (नः मृळत), do not deal with us (नः मा चरत) using unbearable ferocity (अभि घोरेण धृष्णु)! May your fury (वः मन्युः नु) rest in our enemy (अरातिः नि विशताम्), and may another (अन्यः) (i.e our enemy) fall into the grip (प्रसितौ अस्तु) of the tawny (बभूणाम्) (dice).

Note: प्रसितिः = प्रकृष्टेन सिनाति – that which binds completely


RV10.33     RV10.35    RV Mandala 10      RigVeda
Advertisements