RV10.63

ऋषिः  – गयः प्लातः । देवता – विश्वे देवाः (1-14,17), पथ्या स्वस्तिः (15,16) । छन्दः – जगती (1-14), जगती त्रिष्टुप् वा (15), त्रिष्टुप् (16,17) ।

१०.५.३ – ’परावतो ये’ इति सप्तदशर्चं तृतीयं सूक्तं प्लतेः पुत्रस्य गयस्यार्षम् । षोडशीसप्तदश्यौ त्रिष्टुभौ । पञ्चदशी त्रिष्टुब्जगती वा । शिष्टाश्चतुर्दश जगत्यः । ’स्वस्ति नः पथ्यासु’ इति द्वे पथ्यास्वस्तिदेवताके । शिष्टा वैश्वदेव्यः । तथा चानुक्रन्तं – ’परावतस्त्र्यूना गयः प्लातो द्वित्रिष्टुबन्तं तु स्वस्ति नस्त्रिष्टुब्वा सह सोत्तरया पथ्यास्वस्तिदेवत्या ’ इति । पृष्ठ्याभिप्लवषडहयोस्तृतीयेऽहनि वैश्वदेवशस्त्र एतत्सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च – ’ अनश्वो जातः परावतो य इति वैश्वदेवम्’ (आश्व. श्रौ. ७.७) इति ॥

This sūkta by Gaya the son of Plati is addressed to various gods. Verses 3 through 14 end with the word स्वस्तये (for well-being), and the last verse mentions his name and lineage. The first verse mentions Yayāti the son of Nahuṣa. Verse 10 is well known and is recited just before commencing a journey on a boat, and it is said that Rāma recited this passage before boarding the boat at the beginning of his vanavāsa.

प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः । य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ॥ १ ॥

प॒रा॒ऽवतः॑ । ये । दिधि॑षन्ते । आप्य॑म् । मनु॑ऽप्रीतासः । जनि॑म । वि॒वस्व॑तः । य॒यातेः॑ । ये । न॒हु॒ष्य॑स्य । ब॒र्हिषि॑ । दे॒वाः । आस॑ते । ते । अधि॑ । ब्रु॒व॒न्तु॒ । नः॒ ॥

Those gods who (ये देवाः), having come from afar (ये परावतः), forge a bond with men (आप्यम् दिधिषन्त) and, being gratified by men (मनुप्रीतासः) sustain the lives of mortals (विवस्वतः जनिम), those who take their seats (ये आसते) in the sacrifice of Yayati the son of Nahuṣa (ययातेः नहुष्यस्य बर्हिषि), may they (ते) speak favorably on our behalf (नः अधि ब्रुवन्तु).

Notes

  • दिधिषन्त – from धिष धारणे (जुहोत्यादिः), accepted by some although the dhātupāṭha has धिष शब्दे
  • विवस्वतः जनिम = विवस्वतपुत्रस्य मनोः जन्मानि मनुष्यान् धारयन्ति

विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वन्द्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः । ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव॑म् ॥ २ ॥

विश्वा॑ । हि । वः॒ । न॒म॒स्या॑नि । वन्द्या॑ । नामा॑नि । दे॒वाः॒ । उ॒त । य॒ज्ञिया॑नि । वः॒ । ये । स्थ । जा॒ताः । अदि॑तेः । अ॒त्ऽभ्यः । परि॑ । ये । पृ॒थि॒व्याः । ते । मे॒ । इ॒ह । श्रु॒त॒ । हव॑म् ॥

(O Gods) (देवाः)! All of your names (वः विश्वा नामानि) are indeed worthy of obeisance (नमस्यानि हि) and praise (वन्द्या), and (उत) you are worthy of worship (वः यज्ञियानि). Those who manifest (ये जताः स्थ) from the heavenly skies (अदितेः अद्भ्यः) and on earth (पृथिव्याः पति), may they listen (ते श्रुत) to this invocation of mine (मे हवम्) here (इह)!

Note: अदितेः = अदीनात् द्‍युलोकात् , अद्भ्यः = अन्तरिक्षात्

येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पय॑: पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः । उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥ ३ ॥

येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः । उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । स्वप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥

For whom mother (earth) (येभ्यः माता) exudes sweet milk (मधुमत् पयः पिन्वते) and the endless sky (अदितिः द्यौः) covered with clouds (अद्रिबर्हाः) pours water (पीयूषम्), adore (अनु मद) those gods (तान् आदित्यान्), who derive their power by praise (उक्थशुष्मान्), bringers of rain (वृषभरान्), and doers of good deeds (स्वप्नसः), for well-being (स्वस्तये)!

नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः । ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥ ४ ॥

नृ॒ऽचक्ष॑सः । अनि॑ऽमिषन्तः । अ॒र्हणा॑ । बृ॒हत् । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ । ज्यो॒तिःऽर॑थाः । अहि॑ऽमायाः । अना॑गसः । दि॒वः । व॒र्ष्माण॑म् । व॒स॒ते॒ । स्व॒स्तये॑ ॥

The gods (देवासः) watching over people with unblinking eyes (अनिमिषन्तः नृचक्षसः), deserving worship (अर्हणा) attained supreme immortality (बृहन् अमृतत्वम् आनशुः). The sinless ones (अनागसः) with shining chariots (ज्योतीरथाः) and unimpaired intelligence (अहिमायाः) dwell at the apex of heaven (दिवः वर्ष्माणं वसते) for the well-being (स्वस्तये) (of all).

स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् । ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥ ५ ॥

स॒म्ऽराजः॑ । ये । सु॒ऽवृधः॑ । य॒ज्ञम् । आ॒ऽय॒युः । अप॑रिऽह्वृताः । द॒धि॒रे । दि॒वि । क्षय॑म् । तान् । आ । वि॒वा॒स॒ । नम॑सा । सु॒वृ॒क्तिऽभिः॑ । म॒हः । आ॒दि॒त्यान् । अदि॑तिम् । स्व॒स्तये॑ ॥

Those who rule over everyone (ये सम्राजः) who are fully evolved (सुवृधः), come to sacrifices (यज्ञम् आययुः), and, being unimpaired (अपरिह्वृताः), make their abode in heaven (दिवि क्षयं दधिरे). Serve (आ विवास) those great gods (तान् महः आदित्यान्) and Aditi (अदितिम्) with obeisance (नमसा) and fine praises (सुवृक्तिभिः) for well-being (स्वसतये)!

को व॒: स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ । को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो न॒: पर्ष॒दत्यंह॑: स्व॒स्तये॑ ॥ ६ ॥

कः । वः॒ । स्तोम॑म् । रा॒ध॒ति॒ । यम् । जुजो॑षथ । विश्वे॑ । दे॒वा॒सः॒ । म॒नु॒षः॒ । यति॑ । स्थन॑ । कः । वः॒ । अ॒ध्व॒रम् । तु॒वि॒ऽजा॒ताः॒ । अर॑म् । क॒र॒त् । यः । नः॒ । पर्ष॑त् । अति॑ । अंहः॑ । स्व॒स्तये॑ ॥

Who (कः) (O gods) (other than me), whom you inspire (यं जुजोषथ) composes a praise for you (वः स्तोमं राधति)? O mortals and gods (मनुषः विश्वे देवासः)! How many are you (यति स्थन)? Benefactors of many (तुविजाताः)! Which patron (कः) (other than me) performs a sacrifice (अध्वरं करत्) appropriate for you (वः अरम्)? (And who performs a sacrifice) which (यः) takes us beyond sin (नः अंहः अति पर्षत्), for our well-being (स्वस्तये)?

Note: तुविजाताः – from तुवि – listed among the twelve synonyms for “many” (द्वादश बहुनामानि) in Nighaṇṭu 3.1, and जातः – “born” – बहूनामुपकारतया समुत्पन्नाः – born for the welfare of many

येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनु॒: समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः । त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा न॑: कर्त सु॒पथा॑ स्व॒स्तये॑ ॥ ७ ॥

येभ्यः॑ । होत्रा॑म् । प्र॒थ॒माम् । आ॒ऽये॒जे । मनुः॑ । समि॑द्धऽअग्निः । मन॑सा । स॒प्त । होतृ॑ऽभिः । ते । आ॒दि॒त्याः॒ । अभ॑यम् । शर्म॑ । य॒च्छ॒त॒ । सु॒ऽगा । नः॒ । क॒र्त॒ । सु॒ऽपथा॑ । स्व॒स्तये॑ ॥

For whom (येभ्यः), Manu (मनुः), having properly kindled a fire (समिद्धाग्निः), offered the first sacrifice (प्रथमाम् होत्राम् आयेजे) by his mind (मनसा) and seven priests (सप्त होतृभिः), may those gods (ते आदित्याः) give us fearlessness and happiness (अभयं शर्म यच्छत) and build (कर्त) easy to travel and pleasant paths (सुगाः सुपथा) for our well-being (नः स्वस्तये)!

Note: होत्राम् – हूयन्ते हवींष्यत्रेति होत्रा यज्ञः । यद्वा । आहुहन्ते देवाः स्तुतिभिरत्रेति ।

य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः । ते न॑: कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥ ८ ॥

ये । ईशि॑रे । भुव॑नस्य । प्रऽचे॑तसः । विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । मन्त॑वः । ते । नः॒ । कृ॒तात् । अकृ॑तात् । एन॑सः । परि॑ । अ॒द्य । दे॒वा॒सः॒ । पि॒पृ॒त॒ । स्व॒स्तये॑ ॥

Those wise and omniscient gods (ये प्रचेतसः मन्तवः) who rule over (ईशिरे) the entire world (विश्वस्य भुवनस्य) (including everything that is) stationary (स्थातुः) and moveable (जगतः च) , may those gods (ते देवासः) today (अद्य) free us completely (परि पिपृत) from committed (कृतात्) and uncommitted (अकृतात्) sins (एनसः), for our well-being (नः स्वस्तये)!

भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् । अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुत॑: स्व॒स्तये॑ ॥ ९ ॥

भरे॑षु । इन्द्र॑म् । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ । अं॒हः॒ऽमुच॑म् । सु॒ऽकृत॑म् । दैव्य॑म् । जन॑म् । अ॒ग्निम् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । द्यावा॑पृथि॒वी इति॑ । म॒रुतः॑ । स्व॒स्तये॑ ॥

We invoke Indra (इन्द्रं हवामहे), the one who frees us from sin (अंहोमुचम्) and easy to invoke (सुहवम्), in battles (भरेषु), and also the divine beings who help us (सुकृतं देव्यं जनम्) – Agni (अग्निम्), Mitra (मित्रम्), Varuṇa (वरुणम्), Bhaga (भगम्), heaven and earth (द्यावापृथिवी), and the Maruts (मरुतः) for wealth (सातये) and well-being (स्वस्तये)!

सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् । दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥ १० ॥

सु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् । दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्राम् । अना॑गसम् । अस्र॑वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥

We ascend (आ रुहेम), for our well-being (स्वस्तये) heaven (द्याम्), the divine boat (दैवीं नावम्) that ferries us safely (सुत्रामाणम्), is wide (पृथिवीम्), sinless (अनेहसम्), well-protective (सुशर्माणम्), unbroken (अदितिम्), leader on the right path (सुप्रणीतिम्), well-oared (स्वरित्राम्), faultless (अनागसम्), and un-decaying (अस्रवन्तीम्)!

विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुत॑: । स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥ ११ ॥

विश्वे॑ । य॒ज॒त्राः॒ । अधि॑ । वो॒च॒त॒ । ऊ॒तये॑ । त्राय॑ध्वम् । नः॒ । दुः॒ऽएवा॑याः । अ॒भि॒ऽह्रुतः॑ । स॒त्यया॑ । वः॒ । दे॒वऽहू॑त्या । हु॒वे॒म॒ । शृ॒ण्व॒तः । दे॒वाः॒ । अव॑से । स्व॒स्तये॑ ॥

All adorable (gods) (विश्वे यजत्राः)! Speak on our behalf (अधि वोचत) for our protection (ऊतये), protect us (नः त्रायध्वम्) from malignant adversity (अभिह्रुतः दुरेवयाः)! Gods who listen (to our praise) (शृण्वतः देवाः)! We invoke you (हुवेम) with sincere praise (सत्यया देवहूत्या) for protection (स्वस्तये) and well-being (स्वस्तये)!

Note: देवहूत्या – देवा हूयन्तेऽनयेति देवहूतिः स्तुतिः ।

अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः । आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु ण॒: शर्म॑ यच्छता स्व॒स्तये॑ ॥ १२ ॥

अप॑ । अमी॑वाम् । अप॑ । विश्वा॑म् । अना॑हुतिम् । अप॑ । अरा॑तिम् । दुः॒ऽवि॒दत्रा॑म् । अ॒घ॒ऽय॒तः । आ॒रे । दे॒वाः॒ । द्वेषः॑ । अ॒स्मत् । यु॒यो॒त॒न॒ । उ॒रु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । स्व॒स्तये॑ ॥

O gods (देवाः)! Remove (अप) (from us) disease (अमीवाम्), all tendencies to not invoke gods (विश्वाम् अनाहुतिम्), and miserliness (अरातिम्)! Furthermore, remove and cast far away from us (अस्मत् आरे युयोतन) the malice of the evil one (अघायतः दुर्विदत्राम्) and those who hate us (द्वेषः), and grant us ample happiness (उरु शर्म यच्छत) for our well-being (स्वस्तये)!

अरि॑ष्ट॒: स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ । यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥ १३ ॥

अरि॑ष्टः । सः । मर्तः॑ । विश्वः॑ । ए॒ध॒ते॒ । प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । यम् । आ॒दि॒त्या॒सः॒ । नय॑थ । सु॒नी॒तिऽभिः॑ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । स्व॒स्तये॑ ॥

O gods (आदित्याः)! That mortal (यम्) whom you lead with proper guidance (सुनीतिभिः नयथ) beyond all adversities (विश्वानि दुरिता अति) for his well-being (स्वस्तये), every such mortal (विश्वः सः मर्तः) prospers unharmed (अरिष्टः एधते), and, adhering to his duty (धर्मणः परि), dwells happily with his progeny (प्रजाभिः प्र जायते)!

यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ । प्रा॒त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये॑ ॥ १४ ॥

यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । शूर॑ऽसाता । म॒रु॒तः॒ । हि॒ते । धने॑ । प्रा॒तः॒ऽयावा॑नम् । रथ॑म् । इ॒न्द्र॒ । सा॒न॒सिम् । अरि॑ष्यन्तम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥

O Gods (देवासः)! That chariot you protect (यम् अवथ) in battle (वाजसातौ) and O Maruts (मरुतः)! (That chariot) employed for (winning) wealth (धने हिते) (you protect) in battle (शूरसाता), O Indra (इन्द्र)! We mount that coveted (सानसिम्) and irresistible (अरिष्यन्तम्) chariot (रथम् आ रुहेम) that sets out (for battle) early in the morning (प्रातर्यावानम्), for our well-being (स्वस्तये)!

Note: शूरसाता – संग्रामनामैतत् शुराः स्यन्ति खिद्यन्तेऽत्रेति शूराः सीयन्ते विनाश्यन्ते योद्धृभिरत्रेति ।

स्व॒स्ति न॑: प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य१प्सु वृ॒जने॒ स्व॑र्वति । स्व॒स्ति न॑: पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ॥ १५ ॥

स्व॒स्ति । नः॒ । प॒थ्या॑सु । धन्व॑ऽसु । स्व॒स्ति । अ॒प्ऽसु । वृ॒जने॑ । स्वः॑ऽवति । स्व॒स्ति । नः॒ । पु॒त्र॒ऽकृ॒थेषु॑ । योनि॑षु । स्व॒स्ति । रा॒ये । म॒रु॒तः॒ । द॒धा॒त॒न॒ ॥

O Maruts (मरुतः)! Create well-being for us (नः स्वस्ति) in fertile lands (पथ्यासु), in barren lands (धन्वसु), in the waters (उदकेषु), in the midst of hostile armies (स्वर्वति वृजने), in the son-bearing wombs (पुत्रकृथेषु योनिषु) (of our wives, so that the embryos are protected), and place in us well-being for prosperity (राये स्वस्ति दधातन)!

Note: पथ्यासु – पथियोग्येषु सोदकेषु देशेषु – lands that have potable water

स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ । सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥ १६ ॥

स्व॒स्तिः । इत् । हि । प्रऽप॑थे । श्रेष्ठा॑ । रेक्ण॑स्वती । अ॒भि । या । वा॒मम् । एति॑ । सा । नः॒ । अ॒मा । सो इति॑ । अर॑णे । नि । पा॒तु॒ । सु॒ऽआ॒वे॒शा । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥

(The earth) who creates safe paths for us (प्रपथे स्वस्तिः इत्), who possesses the most prized wealth (या श्रेष्ठा रेक्णस्वती), and who (या) visits the grand sacrifices (वामम् अभि एति), may she (सा) protect our dwelling (नः अमा), may she (सो = सा + उ) always protect us (नि पातु) on paths (अरणे) and may she, protected by the gods (देवगोपा) be for us (भवतु) a pleasant abode (सु आवेशा)!

ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी । ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥ १७ ॥

ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी । ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥

O Aditi (अदिते) and all the gods (विश्वे आदित्याः)! The wise son of Plati (प्लतेः मनीषी सूनुः) has thus glorified you (वः एव अवीवृधत्), and the divine beings (दिव्यः जनः) by the grace of whom men become lords (of wealth) (अमर्त्येन नरः ईशानासः) have been praised by Gaya (गयेन अस्तावि)!

Notes

  • अवीवृधत् – वृध् + णिच् + लुङ्
  • अस्तावि – स्तु + लुङ् (कर्मणि) – passive past tense (aorist)

RV10.62     RV10.64    RV Mandala 1      RigVeda

 

Advertisements