RV10.9

ऋषिः  – त्रिशिराः त्वाष्ट्रः, सिन्धुद्वीपः अम्बरीषः वा । देवता – आपः । छन्दः – गायत्री (1-4,6), वर्धमाना गायत्री (5), प्रतिष्ठा गायत्री (7), अनुष्टुप् (8-9) ।

१०.१.९ – ’आपो हि’ इति नवर्चं नवमं सूक्तम् । अम्बरीषस्य राज्ञः पुत्रः सिन्धुद्वीप ऋषिस्त्वष्टृपुत्रस्त्रिशिरा वा । ’इदमापः’ इत्यादिके द्वे अनुष्टुभौ । ’ईशाना’ इति वर्धमाना । ’आपः पृणीत’ इति प्रतिष्ठा । शिष्टा गायत्र्यः । आपो देवता । तथा चानुक्रान्तम् – ’आपो हि सिन्धुद्वीपो वाम्बरीष आपं गायत्रं द्व्यनुष्टुबन्तं पञ्चमी वर्धमाना सप्तमी प्रतिष्ठा’ इति । गतः सूक्तविनियोगः । आग्निमारुते ’आपो हि ष्ठा’ इत्याद्यास्तिस्रः । सूत्रितं च – ’आपो हि ष्ठेति तिस्रो वियतमप उपस्पृशन्’ (आश्व. श्रौ. ५.२०) इति ॥

This sūkta by Sindhudvīpa Ambarīṣa (or Triśirā Tvāṣṭra) is in praise of the waters, whose healing properties were well known to the ancient ṛṣis. They are all chanted at the beginning of the daily Sandhyāvandana ritual performed by all dvijas.

The last four ṛks (6-9) of this sūkta also occur as ṛks 21-24 of RV1.23.

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ १ ॥

आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ । म॒हे । रणा॑य । चक्ष॑से ॥

O Waters (आपः)! You are indeed the bestowers of happiness (मयोभुवः हि स्थ)! Being such (ताः), make us fit (नः दधातन) to receive energy (ऊर्जे) and excellent delightful insight (महे रणाय चक्षसे)!

Notes

  • ऊर्ज् (declined ऊर्क्, ऊर्जौ, ऊर्जः) is derived from the root ऊर्ज बलप्राणनयोः (चुरादिः) – to give strength, life, and is variously interpreted as food, energy, power, capability, etc. Related words are ऊर्जः (masc.) and ऊर्जा (fem.)
  • दधातन – from धा (to place), hence “place in us (the capability for)”, “make us fit for”

यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ २ ॥

यः । वः॒ । शि॒वऽत॑मः । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ । उ॒श॒तीःऽइ॑व । मा॒तरः॑ ॥

Make us partake (नः भाजयत) in this world (इह) of that most auspicious essence (यः शिवतमः रसः तस्य) of yours (वः), like affectionate mothers (उशतीः मातरः इव)!

तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ ३ ॥

तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ । आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥

We urge you on (वः अरं गमाम) to that (तस्मै) (felicity) whose continued existence (यस्य क्षयाय) your cause to happen (जिन्वथ)! O Waters (आपः)! Bestow progeny on us (च नः जनयथ)!

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥ ४ ॥

शम् । नः॒ । दे॒वीः । अ॒भिष्ट॑ये । आपः॑ । भ॒व॒न्तु॒ । पी॒तये॑ । शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥

May the divine waters (देवी आपः) be conducive to (भवन्तु) our (नः) peace (शम्), what we cherish (अभिष्टये), and for our drinking (पीतये)! May they shower us (नः अभि स्रवन्तु) with well being (शम्) and freedom from fear (योः).

Notes

  • अभिष्टये – from अभि + इष गतौ (तुदादिः) + क्तिन् = अभिष्टिः – obtaining desired result
  • Yāska, in Nirukta 4.19 explains शम् and योः (often used together) as शमनं च रोगाणां यावनं (पृथक्करणं) च भयानाम् ।

ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् ॥ ५ ॥

ईशा॑नाः । वार्या॑णाम् । क्षय॑न्तीः । च॒र्ष॒णी॒नाम् । अ॒पः । या॒चा॒मि॒ । भे॒ष॒जम् ॥

I ask for happiness (भेषजम् याचामि) of the waters (अपः) who are the rulers over cherished wealth (वार्याणाम् ईशानाः) and creators of dwelling places for people (चर्षणीनां क्षयन्तीः).

अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वश॑म्भुवम् ॥ ६ ॥

अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा । अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् ॥

Lord Soma (सोमः) told me that (मे अब्रवीत्) all healing powers (विश्वानि भेषजा) , as well as the warmth that is beneficial to all (विश्वशंभुवं अग्निं च) reside in water (अप्सु अन्तः) .

आप॑: पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३ मम॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥ ७ ॥

आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ । ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥

O waters (आपः)! Fill my body (मम तन्वे पृणीत) with healing power that removes illness (वरूथं भेषजम्), so that I may behold the sun (सूर्यं दृशे) for long (ज्योक् च)!

इ॒दमा॑प॒: प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ । यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥ ८ ॥

इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒ऽइ॒तम् । मयि॑ । यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥

May the waters wash away (आपः प्र वहत) whatever (यत् किं च) wrong-doing exists in me (इदम् दुरितम् मयि), any injury I have inflicted on others (यद् वा अहम् अभिदुद्रोह), any curse I have placed (यत् वा शेपॆ), or any untruth I have told (उत अनृतम्)!

आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि । पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥ ९ ॥

आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ । पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥

Now (अद्य) I enter the waters (आपः अन्वचारिषम्) and unite with its essence (रसेन सम् अगस्महि). O Agni (अग्ने), being with the waters (पयस्वान्) (by residing in them), come to me (आ गहि) and infuse me (who have been purified by the waters) with glory (तं मा वर्चसा सं सृज)!


RV10.8     RV10.10    RV Mandala 10      RigVeda

 

Advertisements