RV10.95

ऋषिः  – पुरूरवाः ऐलः (1,3,6,8-10,12,14,17), ऊर्वशी (2,4,5,7,11,13,15,16,18) । देवता – ऊर्वशी (1,3,6,8-10,12,14,17), पुरूरवाः (2,4,5,7,11,13,15,16,18) । छन्दः – त्रिष्टुप् ।

१०.८.५ – तत्र ’हये जाये’ इत्यष्टादशर्चं पञ्चमं सूक्तम् त्रैष्टुभम् । अत्रानुक्रमणिका – ’हये द्व्यूनोर्वशीमैळः पुरूरवाः पूर्वोषितां कामात्पुनरासाद्यावरोद्धुमैच्छत्सा तमनिच्छन्ती प्रत्याचष्टे हय इषुर्या कदा सुदेवाऽन्तरिक्षप्रां सचेति तिस्रश्चैळवाक्यं शिष्टा उर्वश्याः’ इति ।…॥

This sūkta is written in the form of a dialog between Purūravas and Urvaśī. The background for this sūkta is a narrative that appears in the Śatapaṭha Brāhmaṇa (11.5.1).

ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु । न नौ॒ मन्त्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ॥ १ ॥

ह॒ये । जाये॑ । मन॑सा । तिष्ठ॑ । घोरे॑ । वचां॑सि । मि॒श्रा । कृ॒ण॒वा॒व॒है॒ । नु । न । नौ॒ । मन्त्राः॑ । अनु॑दितासः । ए॒ते । मयः॑ । क॒र॒न् । पर॑ऽतरे । च॒न । अह॑न् ॥

[Purūravas:] O cruel wife (हये घोरे जाये)! Stay for a while with consideration (मनसा तिष्ठ)! We need (नु कृणवावहै) to have a conversation (मिश्रा वचांसि)! These un-expressed feelings of ours (नौ एते अनुदितासः मन्त्राः) will not give us happiness (मयः न करन्) even (चन) at the last day (परतरे अहन्)!

Note: चन = च + न – निपातसमुदायश्चार्थे । परतरे = highly remote, last

किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ । पुरू॑रव॒: पुन॒रस्तं॒ परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ॥ २ ॥

किम् । ए॒ता । वा॒चा । कृ॒ण॒व॒ । तव॑ । अ॒हम् । प्र । अ॒क्र॒मि॒ष॒म् । उ॒षसा॑म् । अ॒ग्रि॒याऽइ॑व । पुरू॑रवः । पुनः॑ । अस्त॑म् । परा॑ । इ॒हि॒ । दुः॒ऽआ॒प॒ना । वातः॑ऽइव । अ॒हम् । अ॒स्मि॒ ॥

[Urvaśī:] What will we do (किं कृणव) with (mere) talk (एता वाचा)? I have already departed (अहं प्राक्रमिषम्) like the earliest dawn (उषसाम् अग्रिया इव). O Purūravas (पुरूरवः)! Go back again (पुनः परा इहि) to your home (अस्तम्), for I am difficult to catch (दुरापना अस्मि), like the wind (वातः इव)!

In the next verse, Purūravas expresses his despondency.

इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहि॑: । अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ॥ ३ ॥

इषुः॑ । न । श्रि॒ये । इ॒षु॒ऽधेः । अ॒स॒ना । गो॒ऽसाः । श॒त॒ऽसाः । न । रंहिः॑ । अ॒वीरे॑ । क्रतौ॑ । वि । द॒वि॒द्यु॒त॒त् । न । उरा॑ । न । मा॒युम् । चि॒त॒य॒न्त॒ । धुन॑यः ॥

[Purūravas:] The arrow of the quiver (इषुधेः इषुः) is not cast for glory (श्रिये न असना) (i.e. I don’t have the enthusiasm for battle), being swift (रंहिः) I am no longer (न) the raider of cattle (गोसाः) or of hundred-fold riches (शतसाः) (of enemies), my prowess does not shine (न दविद्‍युतत्) in royal duties (क्रतौ) that are (now) without a hero (अवीरे), and my warriors (धुनयः) do not discern (न चितयन्ते) my battle-cry (मायुम्) in the wide (उरौ) (area of battle)!

सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् । अस्तं॑ ननक्षे॒ यस्मि॑ञ्चा॒कन्दिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ॥ ४ ॥

सा । वसु॑ । दध॑ती । श्वशु॑राय । वयः॑ । उषः॑ । यदि॑ । वष्टि॑ । अन्ति॑ऽगृहात् । अस्त॑म् । न॒न॒क्षे॒ । यस्मि॑म् । चा॒कन् । दिवा॑ । नक्त॑म् । श्न॒थि॒ता । वै॒त॒सेन॑ ॥

[Urvaśī:] O Uṣas (उषः)! This (Urvaśī) (सा), offering wealth and food (वसु वयः दधती) to her father-in-law (श्वशुराय) – when she desired (यदि वष्टि) (her husband) she went (ननक्षे) from her father-in-law’s quarters (अन्तिगृहात्) to her home (अस्तम्), where (यस्मिन्), desirous (चाकन्) (of her husband), she was struck (श्नथिता) by his penis (वैतसेन) day and night (दिवा नक्तम्).

Note: The first line is obscure. The second line indicates that Urvaśī (and probably also Purūravas) was addicted to sex.

त्रिः स्म॒ माह्न॑: श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि । पुरू॑र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व१स्तदा॑सीः ॥ ५ ॥

त्रिः । स्म॒ । मा । अह्नः॑ । श्न॒थ॒यः॒ । वै॒त॒सेन॑ । उ॒त । स्म॒ । मे॒ । अव्य॑त्यै । पृ॒णा॒सि॒ । पुरू॑रवः । अनु॑ । ते॒ । केत॑म् । आ॒य॒म् । राजा॑ । मे॒ । वी॒र॒ । त॒न्वः॑ । तत् । आ॒सीः॒ ॥

[Urvaśī:] (O Purūravas) Thrice a day (त्रिः स्म अह्नः) you struck me with your penis (मा वैतसेन श्नथयः), and you have satisfied me (उत मे पृणासि स्म) who am without a co-wife (अव्यत्यै). O Purūravas (पुरूरवः)! I have followed you (अनु आयम्) to your home (ते केतम्). O brave king (वीर राजा)! You became (आसीः) (the satisfier of) my body (मे तन्वः).

Note: अव्यत्यै – सपत्नीभिः सह पर्यायेण पतिमाचछति सा व्यती । अ तादृश्यव्यती । – व्यती = one who co-habits with her husband in turn with other wives, the one who does not do this (i.e. is an exclusive wife) is अव्यती

या सु॑जू॒र्णिः श्रेणि॑: सु॒म्नआ॑पिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी॑ चर॒ण्युः । ता अ॒ञ्जयो॑ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो॑ऽनवन्त ॥ ६ ॥

या । सु॒ऽजू॒र्णिः । श्रेणिः॑ । सु॒म्नेऽआ॑पिः । ह्र॒देऽच॑क्षुः । न । ग्र॒न्थिनी॑। च॒र॒ण्युः । ताः । अ॒ञ्जयः॑ । अ॒रु॒णयः॑ । न । स॒स्रुः॒ । श्रि॒ये । गावः॑ । न । धे॒नवः॑ । अ॒न॒व॒न्त॒ ॥

[Purūravas:] Sujūrṇī (सुजूर्णीः), Śreṇi (श्रेणिः), Sumnaāpi (सुम्नआपिः), Hradecakṣu (ह्रदेचक्षुः), and Granthinī (ग्रन्थिनी) – those (याः) (that came) with (न) the swift-moving (चरण्युः) (Urvaśī), those (ताः) ornamented (अञ्जयः) and glittering (अरुणयः) (apsarases) did not go away (न सस्रुः), like cows that have recently delivered (धेनवः गावः न) that low (अनवन्त) seeking shelter (श्रिये) (desiring to remain in the cow pen).

Note: The context of this is not clear. Maybe he meant that she went away though her companions did not go away.

सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्य१: स्वगू॑र्ताः । म॒हे यत्त्वा॑ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या॑य दे॒वाः ॥ ७ ॥

सम् । अ॒स्मि॒न् । जाय॑माने । आ॒स॒त॒ । ग्नाः । उ॒त । ई॒म् । अ॒व॒र्ध॒न् । न॒द्यः॑ । स्वऽगू॑र्ताः । म॒हे । यत् । त्वा॒ । पु॒रू॒र॒वः॒ । रणा॑य । अव॑र्धयन् । द॒स्यु॒ऽहत्या॑य । दे॒वाः ॥

[Urvaśī:] On his birth (अस्मिन् जायमाने), the apsarases (or wives of the gods) came together (ग्नाः सम् आसत), and (उत) spontaneously flowing rivers (स्वगूर्ताः नद्यः) nourished him (ईम् अवर्धन्). O Purūravas (पुरूरवः)! Hence (यत्) the gods nourished you (देवाः त्वा अवर्धयन्) for the great battle (महे रणाय) and the slaying of the dasyus (दस्युहत्याय).

The next three verses are spoken by Purūravas.

सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ । अप॑ स्म॒ मत्त॒रस॑न्ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वा॑: ॥ ८ ॥

सचा॑ । यत् । आ॒सु॒ । जह॑तीषु । अत्क॑म् । अमा॑नुषीषु । मानु॑षः । नि॒ऽसेवे॑ । अप॑ । स्म॒ । मत् । त॒रस॑न्ती । न । भु॒ज्युः । ताः । अ॒त्र॒स॒न् । र॒थ॒ऽस्पृशः॑ । न । अश्वाः॑ ॥

[Purūravas:] When I wooed (यत् निषेवे) these accompanying (सचा आसु) (apsarases) who became mortals (मानुषः) abandoning their celestial forms (अमानुषीषु अत्कं जहतीषु), they fled (ताः अप अत्रसन् स्म) from me (मत्) like a frightened doe (तरसन्ती भुज्युः न), or like horses harnessed to a chariot (रथस्पृशः अश्वाः न).

यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभि॒: क्रतु॑भि॒र्न पृ॒ङ्क्ते । ता आ॒तयो॒ न त॒न्व॑: शुम्भत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दन्द॑शानाः ॥ ९ ॥

यत् । आ॒सु॒ । मर्तः॑ । अ॒मृता॑सु । नि॒ऽस्पृक् । सम् । क्षो॒णीभिः । क्रतु॑ऽभिः । न । पृ॒ङ्क्ते । ताः । आ॒तयः॑ । न । त॒न्वः॑ । शु॒म्भ॒त॒ । स्वाः । अश्वा॑सः । न । क्री॒ळयः॑ । दन्द॑शानाः ॥

[Purūravas:] When a mortal (यत् मर्तः), sporting freely (निस्पृक्) among these immortal (आसु अमृतासु) (apsarases) interacts with them (सं पृङ्क्ते) using words and actions (क्षॊणीभिः क्रतुभिः न), they, in the form of swans (ताः आतयः) do not reveal their true forms (स्वाः तन्वः न शुम्भत) like playful horses (क्रीळयः अश्वासः न) biting (दन्दशानाः) (on a bit) (i.e. playful horses do not reveal their true nature).

वि॒द्युन्न या पत॑न्ती॒ दवि॑द्यो॒द्भर॑न्ती मे॒ अप्या॒ काम्या॑नि । जनि॑ष्टो अ॒पो नर्य॒: सुजा॑त॒: प्रोर्वशी॑ तिरत दी॒र्घमायु॑: ॥ १० ॥

वि॒ऽद्युत् । न । या । पत॑न्ती । दवि॑द्योत् । भर॑न्ती । मे॒ । अप्या॑ । काम्या॑नि । जनि॑ष्टो॒ इति॑ । अ॒पः । नर्यः॑ । सुऽजा॑तः । प्र । उ॒र्वशी॑ । ति॒र॒त॒ । दी॒र्घम् । आयुः॑ ॥

[Purūravas:] She who flashes (या दविद्योत्) like a streak of lightning (पतन्ती विद्युत् न), bringing me the desired (मे काम्यानि भरन्ती) (waters) from the heavens (अप्या) has given birth (जनिष्टो) to a noble, capable, and benevolent son (सुजातः अपः नर्यः). Urvaśī (उर्वशी) has prolonged my life (दीर्घम् आयुः प्र तिरत)!

ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या॑य॒ हि द॒धाथ॒ तत्पु॑रूरवो म॒ ओज॑: । अशा॑सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णो॒: किम॒भुग्व॑दासि ॥ ११ ॥

ज॒ज्ञि॒षे । इ॒त्था । गो॒ऽपीथ्या॑य । हि । द॒धाथ॑ । तत् । पु॒रू॒र॒वः॒ । मे॒ । ओजः॑ । अशा॑सम् । त्वा॒ । वि॒दुषी॑ । सस्मि॑न् । अह॑न् । न । मे॒ । आ । अ॒शृ॒णोः॒ । किम् । अ॒भुक् । व॒दा॒सि॒ ॥

[Urvaśī:] O Purūravas (पुरूरवः) ! Thus you have been born (इत्था जज्ञिषे हि) to protect the earth (गोपीथ्याय) , hence you have placed your potency in me (तत् मे ओजः दधाथ)! I, who know my duty (विदुषी) have been under your command every day (सस्मिन् अहन् त्वा अशासम्). You did not listen to me (मे न आशृणोः), why do you address me now (किम् वदासि), having neglected by instruction (अभुक्)?

Notes

  • गोपीथ्याय – गौः पृथिवी । पीथं पालनम् । स्वार्थिकस्तद्धितः । भूमे रक्षणाय ।
  • The conditions laid by Urvaśī are mentioned in Śatapaṭha Brāhmaṇa (11.5.1.1)

क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् । को दम्प॑ती॒ सम॑नसा॒ वि यू॑यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ॥ १२ ॥

क॒दा । सू॒नुः । पि॒तर॑म् । जा॒तः । इ॒च्छा॒त् । च॒क्रन् । न । अश्रु॑ । व॒र्त॒य॒त् । वि॒ऽजा॒नन् । कः । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । वि । यू॒यो॒त् । अध॑ । यत् । अ॒ग्निः । श्वशु॑रेषु । दीद॑यत् ॥

[Purūravas:] When will the son born of you (कदा जातः सूनुः) desire his father (पितरम् इच्छात्), and (न) recognizing him (विजानजन्), shed tears (अश्रु वर्तयत्), crying aloud (चक्रन्)? Which son (कः) will cause husband and wife (दम्पती) who are united in mind (समनसा), to separate (वि युयोत्), now that (अध) the fire (यत् अग्निः) shines (दीदयत्) in the (home of your) parents-in-law (श्वशुरेषु)?

Note: The last phrase is unclear. Sāyaṇa interprets अग्निः as the embryo growing in Urvaśī

प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्र॑न्ददा॒ध्ये॑ शि॒वायै॑ । प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ माप॑: ॥ १३ ॥

प्रति॑ । ब्र॒वा॒णि॒ । व॒र्तय॑ते । अश्रु॑ । च॒क्रन् । न । क्र॒न्द॒त् । आ॒ऽध्ये॑ । शि॒वायै॑ । प्र । तत् । ते॒ । हि॒न॒व॒ । यत् । ते॒ । अ॒स्मे इति॑ । परा॑ । इ॒हि॒ । अस्त॑म् । न॒हि । मू॒र॒ । मा॒ । आपः॑ ॥

[Urvaśī:] (Purūravas!), I say to you (प्रति ब्रवाणि) – (your son) will shed tears (अश्रु वर्तयते) and (न) cry out aloud (चक्रन् क्रन्दत्) on the arrival of the desired auspicious one (आध्ये शिवायै) (i.e. you). I will send (प्र हिनुव) that son, place by you in me (यत् ते अस्मे) to you (तत् ते) . O fool (मूर)! Return home (अस्तम् परा इहि), you cannot obtain me (मा नहि आपः)!

सु॒दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्परा॒वतं॑ पर॒मां गन्त॒वा उ॑ । अधा॒ शयी॑त॒ निॠ॑तेरु॒पस्थेऽधै॑नं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ॥ १४ ॥

सु॒ऽदे॒वः । अ॒द्य । प्र॒ऽपते॑त् । अना॑वृत् । प॒रा॒ऽवत॑म् । प॒र॒माम् । गन्त॒वै । ऊँ॒ इति॑ । अध॑ । शयी॑त । निःऽऋ॑तेः । उ॒पऽस्थे । अध॑ । ए॒न॒म् । वृकाः॑ । र॒भ॒सासः॑ । अ॒द्युः ॥

[Purūravas:] May the one who sports with you (सुदेवः) now depart (अस्य प्रपतेत्) and proceed to a distant region (परमां परावतं गन्तवै उ), never to return (अनावृत्)! Either (अध) may he lie down (शयीत) on the lap (उपस्थे) of the earth (or misfortune) (निर्ॠतेः) (i.e. give up his life), or (अध) may the violent wolves (रभसासः वृकाः) devour him (एनम् अद्युः)!

Note: सुदेवः = त्वया सह सुक्रीडः पतिः ।

पुरू॑रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका॑सो॒ अशि॑वास उ क्षन् । न वै स्त्रैणा॑नि स॒ख्यानि॑ सन्ति सालावृ॒काणां॒ हृद॑यान्ये॒ता ॥ १५ ॥

पुरू॑रवः । मा । मृ॒थाः॒ । मा । प्र । प॒प्तः॒ । मा । त्वा॒ । वृका॑सः । अशि॑वासः । ऊँ॒ इति॑ । क्ष॒न् । न । वै । स्त्रैणा॑नि । स॒ख्यानि॑ । स॒न्ति॒ । सा॒ला॒वृ॒काणा॑म् । हृद॑यानि । ए॒ता ॥

[Urvaśī:] O Purūravas (पुरूरवः)! Do not die (मा मृथाः), do not fall down (मा प्र पप्तः), and may not the inauspicious wolves (अशिवासः वृकासः) devour you (त्वा मा उ क्षन्)! Female friendships (स्त्रैणानि सख्यानि) do not indeed exist (न वै सन्ति); their hearts (एता हृदयानि) are like those of jackals (सालावृकाणाम्)!

Notes

  • पप्तः = पत् + लुङ् (अङ्) = पत् + अ +स् = पप्त् + अस् [by पतः पुम् (७।४।१९)] = पप्तः
  • सालावृकः – कुक्कुरः । शृगालः । तरक्षुः । इति केचित् ॥ तालव्यशकारादिश्चायम् (शब्दकल्पद्रुमः)

यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्री॑: श॒रद॒श्चत॑स्रः । घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥ १६ ॥

यत् । विऽरू॒पा । अच॑रम् । मर्त्ये॑षु । अव॑सम् । रात्रीः॑ । श॒रदः॑ । चत॑स्रः । घृ॒तस्य॑ । स्तो॒कम् । स॒कृत् । अह्नः॑ । आ॒श्ना॒म् । तात् । ए॒व । इ॒दम् । त॒तृ॒पा॒णा । च॒रा॒मि॒ ॥

[Urvaśī:] When, in a different form (यत् विरूपा), I moved among mortals (मर्त्येषु अचरम्) and dwelt (with them) for four delightful autumns (चतस्रः रात्रीः शरदः अवसम्) then I partook of (आश्नाम्) a small amount of ghee (घृतस्य स्तोकम्) once every day (सकृत् अह्नः), and now I live (इदम् चरामि), satiated (तातृपाणा) by that alone (तात् एव).

Notes

  • रात्रीः = प्ररमयित्रीः (सायणः)
  • The meaning of the reference to the small amount of ghee is not clear

अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः । उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥ १७ ॥

अ॒न्त॒रि॒क्ष॒ऽप्राम् । रज॑सः । वि॒ऽमानी॑म् । उप॑ । शि॒क्षा॒मि॒ । उ॒र्वशी॑म् । वसि॑ष्ठः । उप॑ । त्वा॒ । रा॒तिः । सु॒ऽकृ॒तस्य॑ । तिष्ठा॑त् । नि । व॒र्त॒स्व॒ । हृद॑यम् । त॒प्य॒ते॒ । मे॒ ॥

[Purūravas:] I, being exalted (वसिष्ठः), command Urvaśī (उर्वशीम् उप् शिक्षामि) the one who fills the atmosphere (अन्तरिक्षप्राम्) and the maker of rain (रजसः विमानीम्). May the bestower of good deeds (सुकृतस्य रातिः) abide by you (त्वा उप तिष्ठात्)! My heart burns (मे हृदयं तप्यते), do come back (नि वर्तस्व)!

Note: वसिष्ठः – समानानां मध्येऽतिशयेन वासयिता

इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युब॑न्धुः । प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥ १८ ॥

इति॑ । त्वा॒ । दे॒वाः । इ॒मे । आ॒हुः॒ । ऐ॒ळ॒ । यथा॑ । ई॒म् । ए॒तत् । भव॑सि । मृ॒त्युऽब॑न्धुः । प्र॒ऽजा । ते॒ । दे॒वान् । ह॒विषा॑ । य॒जा॒ति॒ । स्वः॒ऽगे । ऊँ॒ इति॑ । त्वम् । अपि॑ । मा॒द॒या॒से॒ ॥

[Urvaśī:] O son of Iḻā (ऐळः)! These gods (इमे देवाः) have thus spoken to you (त्वा इति आहुः) – because (यथा ईम्) you are subject to death (एतत् मृत्युबन्धुः भवसि), your descendant (ते प्रजा) (son) will worship the gods through oblations (देवान् हविषा यजाति), and you will also (त्वम् अपि) rejoice (मादयासे उ) in heaven (स्वर्गे)!


RV10.94     RV10.96    RV Mandala 10      RigVeda

 

Advertisements