RV10.97

ऋषिः  – भिषक् आथर्वणः । देवता – ओषधयः । छन्दः – अनुष्टुप् ।

‘या ओषधी:” इति त्रयोविंशत्यृचं सप्तमं सूक्तम् । अथर्वणः पुत्रस्य भिषङ्नाम्न आर्षम् । आनुष्टुभमोषधिदेवताकम् । तथा चानुक्रान्तं – ’या ओषधीस्त्र्यधिकाथर्वणो भिषगोषधिस्तुतिरानुष्टुभम्’ इति । दीक्षितानां ज्वराद्युपतापे संजातेऽनेन सूक्तेन मार्जयेत् । सूत्रितं च – ’ओषधिसूक्तेन चाप्लाव्यानुमृजेत् (आश्व. श्रौ. ६.९) इति ॥

This is the only sūkta in the entire Ṛgveda devoted exclusively to healing and medicinal herbs. The ṛṣi of this sūkta is Bhiṣak, son of Atharvan, which is an indication that Atharvan was one of the earliest known sages associated with medicine and healing.  That is why the Atharvaveda contains many more sūktas on this topic.

This entire sūkta, with more mantras included appears in the Mādhyandina Saṃhitā (12.75) of the Shuklayajurveda. I have also used the commentaries by Uvaṭa and Mahīdhara in the translation of this sūkta.

या ओष॑धी॒: पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥ १ ॥

याः । ओष॑धीः । पूर्वा॑ । जा॒ताः । दे॒वेभ्यः॑ । त्रि॒ऽयु॒गम् । पु॒रा । मनै॑ । नु । ब॒भ्रूणा॑म् । अ॒हम् । श॒तम् । धामा॑नि । स॒प्त । च॒ ॥

Those ancient medicinal herbs (याः ओषधीः) that were first born from the three seasons in ancient times (त्रियुगं देवेभ्यः पूर्वाः पुरा जाताः), I know (अहं मनै नु) the one hundred and seven abodes (शतं सप्त च) of those ripe herbs (बभ्रूणां धामानि).

Notes

  • This mantra is explained in the Śapathabrāhmaṇa (7.2.4.26) as follows: या ओषधीः पूर्वा जताः । देवेभ्यस्त्रियुगं पुरेत्यृतवो व देवास्तेभ्य एतास्त्रिः पुरा जायन्ते वसन्ता प्रावृषि शरदि मनै नु ब्रभूणामहमिति सोमो वै बभ्रुः सौम्या ओषधय औषधः पुरुषः शतं धामानीति यदिदं शतायुः शतर्द्धः शतवीर्य एतानि हास्य तानि शतं धामानि सप्त चेति य एवेमे सप्त शिर्षान्प्राणास्तानेतदाह ॥ (श. ब्रा. ७.२.४.२६). It is also explained the the Nirukta (9.28)
  • देवाः = ऋतवः (seasons)
  • त्रियुगम् = the three seasons (spring, rainy, winter) which span the entire year
  • बभ्रूणाम् = of tawny color, signifying their ripeness and readiness to be used
  • शतम् = hundred years, the span of a human life
  • सप्त = the seven parts of the head (ears, eyes, nostrils, mouth)
  • Alternately 107 could be the number of species of herbs or the places in the human body where they have effects

श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुह॑: । अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥ २ ॥

श॒तम् । वः॒ । अ॒म्ब॒ । धामा॑नि । स॒हस्र॑म् । उ॒त । वः॒ । रुहः॑ । अध॑ । श॒त॒ऽक्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥

Mother (अम्ब)! Your abodes (वः धामानि) are in the hundreds (शतम्), and your proliferations (वः रुहः) are in the thousands (सहस्रम्). Performers of innumerable deeds (शतक्रत्वः)! Make this patient of mine (यूयं इमम् मे) free of disease (अगदं कृत)!

ओष॑धी॒: प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुध॑: पारयि॒ष्ण्व॑: ॥ ३ ॥

ओष॑धीः । प्रति॑ । मो॒द॒ध्व॒म् । पुष्प॑ऽवतीः । प्र॒ऽसूव॑रीः । अश्वाः॑ऽइव । स॒ऽजित्व॑रीः । वी॒रुधः॑ । पा॒र॒यि॒ष्ण्वः॑ ॥

O herbs (ओषधयः) who are with flowers (पुष्पवतीः), multiplying (प्रसूवरीः), victorious like horses (अश्वा इव सजित्वरीः) (in battle), growing (वीरुधः), and curing (पारयिष्णवः), be joyful (प्रति मोदद्वम्)!

Note: पारयिष्णवः – those who take one across (i.e. beyond disease to a state of well being). This concept is also used in the last but one mantra.

ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥ ४ ॥

ओष॑धीः । इति॑ । मा॒त॒रः॒ । तत् । वः॒ । दे॒वीः॒ । उप॑ । ब्रु॒वे॒ । स॒नेय॑म् । अश्व॑म् । गाम् । वासः॑ । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥

O mothers, divine healing herbs (मातरः देवीः पूरुष ओषधीः)! I declare this to you (तत् वः इति उप ब्रुवे), that I am prepared to give (सनेयम्) horses (अश्वम्), cattle (गाम्), garments (वासः), even myself (आत्मानम्) for your sake (तव)!

अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥ ५ ॥

अ॒श्व॒त्थे । वः॒ । नि॒ऽसद॑नम् । प॒र्णे । वः॒ । व॒स॒तिः । कृ॒ता । गो॒ऽभाजः॑ । इत् । किल॑ । अ॒स॒थ॒ । यत् । स॒नव॑थ । पुरु॑षम् ॥

Your dwelling place (वः निषदनम्) is in the Aśvattha (अश्वत्थे), and you home (वः वसतिः) is in the Palāśa (पर्णे कृता). You are born of the earth (गोभाजः किल असथ), by which you serve man (यत् पुरुषम् सनवथ).

यत्रौष॑धीः स॒मग्म॑त॒ राजा॑न॒: समि॑ताविव । विप्र॒: स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥ ६ ॥

यत्र॑ । ओष॑धीः । स॒म्ऽअग्म॑त । राजा॑नः । समि॑तौऽइव । विप्रः॑ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षः॒ऽहा । अ॒मी॒व॒ऽचात॑नः ॥

When the herbs go (यत्र ओषधीः समग्मत) like (victorious) kings in battle (राजानः समिताविव) the wise person (सः विप्रः) (who administers them), slayer of evil (रक्षोहा) and destroyer of disease (अमीवचातनः) is known as a healer (भिषक् उच्यते).

अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ ७ ॥

अ॒श्व॒ऽव॒तीम् । सो॒म॒ऽव॒तीम् । ऊ॒र्जय॑न्तीम् । उत्ऽओ॑जसम् । आ । अ॒वि॒त्सि॒ । सर्वाः॑ । ओष॑धीः । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥

I know well (आ अवित्सि) all the herbs (सर्वाः ओषधीः) that are powerful (अश्वावतीम्), soothing (सोमावतीम्), strengthening (ऊर्जयन्तीम्) and invigorating (उदोजसाम्), and (I administer them) to this person (अस्मै) for removing distress (अरिष्टतातये).

उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥ ८ ॥

उत् । शुष्माः॑ । ओष॑धीनाम् । गावः॑ । गो॒ष्ठात्ऽइ॑व । ई॒र॒ते॒ । धन॑म् । स॒नि॒ष्यन्ती॑नाम् । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥

O (afflicted) person (पूरुष)! The healing powers (ओषधीनां शुष्माः) of the herbs stream forth (उत् ईरते) like cattle from a stall (गावः गोष्ठात् इव) desiring to provide well being to your body (तव आत्मानम् धनं सनिष्यन्तीनाम्).

इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्रिणी॑: स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥ ९ ॥

इष्कृ॑तिः । नाम॑ । वः॒ । मा॒ता । अथो॒ इति॑ । यू॒यम् । स्थ॒ । निःऽकृ॑तीः । सी॒राः । प॒त॒त्रिणीः॑ । स्थ॒न॒ । यत् । आ॒मय॑ति । निः । कृ॒थ॒ ॥

Your mother is called “the reliever of distress” (वः माता निष्कृतिः) , therefore (अथ) you are also relivers of distress (यूयम् निष्कृतीः स्थ). You are like rivers with wings (सीराः पतत्रिणीः स्थन) (i.e. that flow everywhere), by which you cure an afflicted person (यत् आमयति निष्कृथ).

Notes

  • इष्कृतिः is a variation of निष्कृतिः (with the न् elided), which means निष्करोति व्याधिम् – that which removes disease
  • सीराः is listed among the names for “river” in Nighaṇṭu 1.13

अति॒ विश्वा॑: परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धी॒: प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३ रप॑: ॥ १० ॥

अति॑ । विश्वाः॑ । प॒रि॒ऽस्थाः । स्ते॒नःऽइ॑व । व्र॒जम् । अ॒क्र॒मुः॒ । ओष॑धीः । प्र । अ॒चु॒च्य॒वुः॒ । यत् । किम् । च॒ । त॒न्वः॑ । रपः॑ ॥

All the herbs that pervade the body (विश्वा: परिष्ठाः) overcome (the disease) (अति अक्रमुः) just as a thief the cow-pen (स्तेनः इव व्रजम्), and remove (प्राचुच्यवुः) whatever disease body has (यत् किं च तन्वः रपः)

Notes

  • परिस्थाः – परितः स्थिताः ओषधयः
  • स्तेनः इव व्रजम् – just as a cattle thief breaks the a cow-pen and releases the cows, the medicinal herbs release the disease from the body

यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥ ११ ॥

यत् । इ॒माः । वा॒जय॑न् । अ॒हम् । ओष॑धीः । हस्ते॑ । आ॒ऽद॒धे । आ॒त्मा । यक्ष्म॑स्य । न॒श्य॒ति॒ । पु॒रा । जी॒व॒ऽगृभः॑ । य॒था॒ ॥

When (यत्) I hold these strengthening herbs (इमाः वाजयन् ओषधीः) in my hand (अहं हस्ते आदधे), the soul of the affliction (यक्ष्मस्य आत्मा) is destroyed (नश्यति), just as one is rescued from the jaws of death (पुरा जीवगृभः यथा)

Note: जीवगृभः – from ग्रह् (to hold) – that which takes away life

यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥ १२ ॥

यस्य॑ । ओ॒ष॒धीः॒ । प्र॒ऽसर्प॑थ । अङ्ग॑म्ऽअङ्गम् । परुः॑ऽपरुः । ततः॑ । यक्ष्म॑म् । वि । बा॒ध॒ध्वे॒ । उ॒ग्रः । म॒ध्य॒म॒शीःऽइ॑व ॥

O herbs (ओषधीः)! Whose every limb (अङ्गमङ्गम्) and every joint (परुष्परुः) you pervade (प्रसर्पथ), you banish the disease (यक्ष्मं वि बाधध्वे) from those limbs (ततः), like a fierce warrior (उग्रः) who strikes at the tender regions of the enemy (मध्यमशीः इव).

Note: मध्यमशीः – मध्ये देहमध्ये भवं मध्यमं मर्मभागं शृणाति हिनस्ति (महीधरः) – one who tears the middle part of the body that is the tender region – मध्यम + शॄ + क्विप् using ॠत इद्धातोः (पा. ७।१।१००)

सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥ १३ ॥

सा॒कम् । य॒क्ष्म॒ । प्र । प॒त॒ । चाषे॑ण । कि॒कि॒दी॒विना॑ । सा॒कम् । वात॑स्य । ध्राज्या॑ । सा॒कम् । न॒श्य॒ । नि॒ऽहाक॑या ॥

O affliction (यक्ष्म)! Exit (the afflicted) (प्र पत) with by vomiting (चाषेण), coughing (किकिदीविना), the force of wind (वातस्य ध्राज्या), and get destroyed (नश्य) along with cries of pain (निहाकया साकम्).

Notes

  • The traditional interpretation is that चाषः and किकिदीवि are types of birds (किकिदीवि is a bird that makes the sound किकि), and there is support for this in much of the Veda, where one frequently encounters the belief that a disease can be removed by transferring it to a bird, animal, place, or person. The alternate interpretation (used here and which makes more sense) is given by Mahīdhara, where चाषः , किकिदीवि, and वातः correspond to the problems cause by excess पित्तः, कफः and वातः
  • निहाकया – यया पीडया कया रुजा निहतोऽस्मि हा कष्टमिति शब्दं करोति सा निहाका सर्वाङ्गवेदना , तया साकं हे यक्ष्म नाशय (महीधरः)

अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वा॑: संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वच॑: ॥ १४ ॥

अ॒न्या । वः॒ । अ॒न्याम् । अ॒व॒तु॒ । अ॒न्या । अ॒न्यस्याः॑ । उप॑ । अ॒व॒त॒ । ताः । सर्वाः॑ । स॒म्ऽवि॒दा॒नाः । इ॒दम् । मे॒ । प्र । अ॒व॒त॒ । वचः॑ ॥

(O herbs!) May one among you (वः अन्या) protect (i.e. work with) another (अन्याम् अवतु) and may one (अन्या) help the work of another (अन्यस्याः उपावत) – may all of them working together (ताः सर्वाः संविदानाः) follow this instruction of mine (मे इदं वचः प्रावत).

Note: This indicates that the Vedic people knew about the synergistic effects of administering several medicines together

याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी॑: । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥ १५ ॥

याः । फ॒लिनीः॑ । याः । अ॒फ॒लाः । अ॒पु॒ष्पाः । याः । च॒ । पु॒ष्पिणीः॑ । बृह॒स्पति॑ऽप्रसूताः । ताः । नः॒ । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥

Those (medicinal plants) with fruits (याः फलिनीः), those without fruits (याः अफलाः), those with flowers (याः पुष्पिणीः), and those without flowers (च याः अपुष्पाः), may they (ताः), impelled by Bṛhaspati (बृहस्पतिप्रसूताः) (i.e. by the physician), free us from affliction (नः अंहसः मुञ्चन्तु)!

मु॒ञ्चन्तु॑ मा शप॒थ्या॒३दथो॑ वरु॒ण्या॑दु॒त । अथो॑ य॒मस्य॒ पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥ १६ ॥

मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या॑त् । अथो॒ इति॑ । व॒रु॒ण्या॑त् । उ॒त । अथो॒ इति॑ । य॒मस्य॑ । पड्बी॑शात् । सर्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥

(May the herbs) release me (मा मुञ्चतु) from the agony caused by ill-treating another (शपथ्यात्), from the (wrath of) Varuṇa (अथो वरुण्यात्), from the noose of death (उत अथो यमस्य पड्बीशात्), and from all transgressions againts the gods (सर्वस्मात् देवकिल्बिषात्)!

अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ १७ ॥

अ॒व॒ऽपत॑न्तीः । अ॒व॒द॒न् । दि॒वः । ओष॑धयः । परि॑ । यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पुरु॑षः ॥

Falling from the sky (दिवः अवपतन्तीः) (as nourishment) the herbs said (ओषधयः अवदन्), “The living being we pervade (यं जीवं परि अश्नवामहै) – that person (सः पुरुषः) is never afflicted (न रिष्यति)!”

या ओष॑धी॒: सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥ १८

याः । ओष॑धीः । सोम॑ऽराज्ञीः । ब॒ह्वीः । श॒तऽवि॑चक्षणाः । तासा॑म् । त्वम् । अ॒सि॒ । उ॒त्ऽत॒मा । अर॑म् । कामा॑य । शम् । हृ॒दे ॥

Those innumerable herbs (याः बह्वीः ओषधीः) with unlimited powers (शतविचक्षणाः), ruled by the moon (सोमराज्ञीः) – you are the best among them (तासाम् त्वम् उत्तमा असि), fulfilling desires (अरं कामाय) and soothing to the heart (शं हृदे).

Note: सोमराज्ञीः – सोमो राजा स्वामी यासाम् ।

या ओष॑धी॒: सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्य॑म् ॥ १९ ॥

याः । ओष॑धीः । सोम॑ऽराज्ञीः । विऽस्थि॑ताः । पृ॒थि॒वीम् । अनु॑ । बृ॒ह॒स्पति॑ऽप्रसूताः । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥

Those herbs (याः ओषधीः) ruled by the moon (सोमराज्ञीः) , spread over the earth (पृथिवीं अनु विष्ठिताः), and impelled by Bṛhaspati (बृहस्पतिप्रसूताः) (i.e. by the physician), give strength (वीर्यं सं दत्त) to this (afflicted) person (अस्यै)!

मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ॥ २० ॥

मा । वः॒ । रि॒ष॒त् । ख॒नि॒ता । यस्मै॑ । च॒ । अ॒हम् । खना॑मि । वः॒ । द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒स्माक॑म् । सर्व॑म् । अ॒स्तु॒ । अ॒ना॒तु॒रम् ॥

May the one who digs you up (वः खनिता) be unharmed (मा रिषत्), as well as the one (च यस्मै) for whom I dig you (अहं वः खनामि), may all the two-footed (सर्वं द्विपत्) and our four-footed creatures (अस्माकं चतुष्पत्) be free of disease (अनातुरम् अस्तु)!

याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः । सर्वा॑: सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य॑म् ॥ २१ ॥

याः । च॒ । इ॒दम् । उ॒प॒ऽशृ॒ण्वन्ति॑ । याः । च॒ । दू॒रम् । परा॑ऽगताः । सर्वाः॑ । स॒म्ऽगत्य॑ । वी॒रु॒धः॒ । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥

And those herbs (याः च) who hear this (इदं उपशृण्वन्ति) (plea of mine) and those who are stationed far away (याः च दूरं परागताः), may all those herbs (सर्वाः) working together (संगत्य) give strength to this afflicted person (अस्यै वीर्यं सं दत्त)!

ओष॑धय॒: सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥ २२ ॥

ओष॑धयः । सम् । व॒द॒न्ते॒ । सोमे॑न । स॒ह । राज्ञा॑ । यस्मै॑ । कृ॒णोति॑ । ब्रा॒ह्म॒णः । तम् । रा॒ज॒न् । पा॒र॒या॒म॒सि॒ ॥

The herbs (ओषधयः) converse (संवदन्ते) with King Soma (राज्ञा सोमेन सह), (and say to him), “O king (राजन्)! To whomever (यस्मै) a brāhmaṇa (ब्राह्मणः) (i.e. qualified physician) administers us (कृणोति) , we carry that person over (तं पारयामसि) (to health)!

त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सो॒३ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥ २३ ॥

त्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव॑ । वृ॒क्षाः । उप॑स्तयः । उप॑स्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥

O herb (ओषधे)! You the the most excellent (त्वम् उत्तमा असि), the trees are subservient to you (वृक्षाः तव उपस्तयः) (i.e. they provide you with noursishment, support, etc.), may the one who seeks to injure us (यः अस्मान् अभिदासति) be subservient to us (सः अस्माकम् उपस्तिः अस्तु)!


RV10.96     RV10.98    RV Mandala 10      RigVeda
Advertisements