RV10.98

ऋषिः  – देवापिः आर्ष्टिषॆणः । देवता – देवः । छन्दः – त्रिष्टुप् ।

१०.८.८ – ’बृहस्पते प्रति’ इति द्वादशर्चमष्टमं सूक्तं त्रैष्टुभं बृहस्पतिमित्रादिसर्वदेवताकम् । ॠष्टिषेणपुत्रो देवापिर्नामर्षिः । तथा चानुक्रान्तम् – ’बृहस्पते द्वादशार्ष्टिषेणो देवापिर्वृष्टिकामो देवांस्तुष्टाव’ । गतः सूक्तविनियोगः । अस्य सूक्तस्याखानं निरुक्तकारः प्रदर्शयति – ’देवापिश्चार्ष्टिषेणः शंतनुश्च कौरव्यौ भ्रातरौ बभुवतुः । स शन्तनुः कनीयानभिषेचयाञ्चक्रे देवापिस्तपः प्रतिपेदे । ततः शंतनौ राज्ये द्वादश वर्षानि देवो न ववर्ष । तमूचुर्ब्राह्मणा अधर्मस्त्वया चरितो ज्येष्ठं भ्रातरमन्तरित्याभिषेचितं तस्मात्ते देवो न वर्षतीति । स शन्तनुर्देवापिं शिशिक्ष राज्येन । तमुवाच देवापिः पुरोहितस्तेऽसानि याजयानि च त्वेति । तस्यैतद्वर्षकामसूक्तम् ’ (निरु० २.१०) इति ॥

In his introduction to this sūkta, Sāyaṇa quotes the following anecdote from the Nirukta: Devāpi the son of Ṛṣṭiṣeṇa and Śantanu were brothers in the Kuru clan. Śantanu the younger brother caused himself to be coronated and Devāpi repaired to do tapas. Then there was no rain in Śantanu‘s kingdom for twelve years. The brāhmaṇas said to him, “You have performed an unjust act by anointing yourself as king ignoring your elder brother, which is why there is no rain”. Śantanu then decided to make Devāpi the king. Then Devāpi said to him, “Let me become your priest and have you perform a sacrifice.” This sūkta composed by him expresses desire for rain.

A more elaborate version of this story appears in the Bṛhaddevatā:

आर्ष्टिषॆणस्तु देवापिः कौरव्यश्चैव शंतनुः । भ्रातरौ कुरुषु त्वेतौ राजपुत्रौ बभूवतुः ॥ ७.१५५ ॥
ज्येष्ठस्तयोस्तु देवापिः कनीयांश्चैव शंतनुः । त्वग्दोषी राजपुत्रस्तु ऋष्टिषेणसुतोऽभवत् ॥ ७.१५६ ॥
राज्येन छन्दयामासुः प्रजाः स्वर्गं गते गुरौ । स मुहूर्त्तमिव ध्यात्वा प्रास्ताः प्रत्यभाषत ॥ ७.१५७ ॥
न राज्यमहमर्हामि नृपतिर्वोऽस्तु शंतनुः । तथेत्युक्त्वाभ्यसिञ्चंस्ताः प्रजा राज्याय शंतनुम् ॥ ८.१ ॥
ततोऽभिषिक्ते कौरव्ये वनं देवापिराविशत् । न ववर्षाथ पर्जन्यो राज्ये द्वादश वै समाः ॥ ८. २ ॥
ततोऽभ्यगच्छद्देवापिं प्रजाभिः सह शंतनुः । प्रसादयामास चैनं तस्मिन्धर्मव्यतिक्रमे ॥ ८.३ ॥
शिशिक्ष चैनं राज्येन प्रजाभिः सहितस्तदा । तमुवाचाथ देवापिः प्रह्वं तु प्राञ्जलिस्थितम् ॥ ८.४ ॥
न राज्यमर्हामि त्वग्दोषोपहतेन्द्रियः । याजयिष्यामि ते राजन् वृष्टिकामेज्यया स्वयम् ॥ ८.५ ॥
ततस्तं तु पुरोऽधत्त आर्त्विज्याय स शंतनुः । स चास्य चक्रे कर्माणि वार्षिकाणि यथाविधि ॥ ८. ६ ॥
बृहस्पते प्रतीत्यृग्भिरीजे चैव बृहस्पतिम् । द्वितीययास्य बोधिते जातवेदसा ॥ ८.७ ॥

The additional information here is that the reason Devāpi was not coronated is that he had a skin disease (verse 7.156 above), and tells Śantanu that he does not deserve to be the king because of that (verse 8.5 above).

For more on Devāpi, see here.

बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा । आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥ १ ॥

बृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । अ॒सि॒ । पू॒षा । आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥

O Bṛhaspati (बृहस्पते)! Approach the gods (देवताम् प्रति इहि) for my sake (मे) (i.e. for rain), whether you are Mitra (यत् मित्रः असि) or Varūṇa (वरुणः वा) or Pūṣan (पूषा वा), whether with the Adityas (यत् आदित्यैः), Vasus (वसुभिः वा) or the Maruts (मरुत्वान्). Being such (सः), make the clouds rain (पर्जन्यं वृषय) for Śantanu (शंतनवे)!

आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्त्वद्दे॑वापे अ॒भि माम॑गच्छत् । प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥ २ ॥

आ । दे॒वः । दू॒तः । अ॒जि॒रः । चि॒कि॒त्वान् । त्वत् । दे॒व॒ऽआ॒पे॒ । अ॒भि । माम् । अ॒ग॒च्छ॒त् । प्र॒ती॒ची॒नः । प्रति॑ । माम् । आ । व॒वृ॒त्स्व॒ । दधा॑मि । ते॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् ॥

O Devāpi (देवापे)! May a divine messenger (देवः दूतः) from you (त्वत्), brisk (अजिरः) and intelligent (चिकित्वान्), come towards me (माम् अभि आ अगच्छत्)! O Bṛhaspati (बृहस्पते)! Turn around and come (आ ववृत्स्व) towards me (प्रतीचीनः माम् प्रति)! I have a brilliant praise (द्युमतीं वाचं दधामि) in my mouth (आसन्) (i.e. ready to be recited) for you (ते)!

अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒राम् । यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ॥ ३ ॥

अ॒स्मे इति॑ । धे॒हि॒ । द्‍यु॒ऽमती॑म् । वाच॑म् । आ॒सन् । बृह॑स्पते । अ॒न॒मी॒वाम् । इ॒षि॒राम् । यया॑ । वृ॒ष्टिम् । शम्ऽत॑नवे । वना॑व । दि॒वः । द्र॒प्सः । मधु॑ऽमान् । आ । वि॒वे॒श॒ ॥

O Bṛhaspati (बृहस्पते)! Place in our mouth (अस्मे आसन् धेहि) a praise (वाचम्) that is brilliant (द्‍युऽमतीम्), free of defects (अनमीवाम्), and which reaches (इषिराम्) (its intent) by which (यया) we may obtain (वनाव) from heaven (दिवः) for Śantanu (शंतनवे), rain (वृष्टिम्) in which the sweet drop (मधुमान् द्रप्सः) has entered (आ विवेश)!

आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् । नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ॥ ४ ॥

आ । नः॒ । द्र॒प्साः । मधु॑ऽमन्तः । वि॒श॒न्तु॒ । इन्द्र॑ । दे॒हि । अधि॑ऽरथम् । स॒हस्र॑म् । नि । सी॒द॒ । हो॒त्रम् । ऋ॒तु॒ऽथा । य॒ज॒स्व॒ । दे॒वान् । दे॒व॒ऽआ॒पे॒ । ह॒विषा॑ । स॒प॒र्य॒ ॥

May the sweet drops (मधुमन्तः द्रप्सः) enter (i.e fall on) us (नः विशन्तु)! O Indra (इन्द्र)! Give us unlimited wealth (सहस्रम्) loaded on a chariot (अधिरथम्)! O Devāpi (देवापे)! Sit down (नि सीद) as a priest in the sacrifice (होत्राम्), worship the gods (देवान् यजस्व) according to the seasons (ऋतुथा), and serve them with oblations (हविषा सपर्य)!

आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीद॑न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् । स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥ ५ ॥

आ॒र्ष्टि॒षे॒णः । हो॒त्रम् । ऋषिः॑ । नि॒ऽसीद॑न् । दे॒वऽआ॑पिः । दे॒व॒ऽसु॒म॒तिम् । चि॒कि॒त्वान् । सः । उत्ऽत॑रस्मात् । अध॑रम् । स॒मु॒द्रम् । अ॒पः । दि॒व्याः । अ॒सृ॒ज॒त् । व॒र्ष्याः॑ । अ॒भि ॥

The ṛṣi Devāpi (देवापिः ऋषिः) , son of Ṛṣṭiṣeṇa (आर्ष्टिषेणः), knower of the goodwill of the gods (देवसुमतिं चिकित्वान्), sits down to perform the duties of the Hotṛ (होत्रं निषीदन्). He (सः) brought down (असृजत्) the divine rain waters (दिव्याः वर्ष्याः अपः) from the lofty skies (उत्तरस्मात्) towards the the ocean down below (अधरं समुद्रम् अभि).

अ॒स्मिन्त्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् । ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ॥ ६ ॥

अ॒स्मिन् । स॒मु॒द्रे । अधि॑ । उत्ऽत॑रस्मिन् । आपः॑ । दे॒वेभिः॑ । निऽवृ॑ताः । अ॒ति॒ष्ठ॒न् । ताः । अ॒द्र॒व॒न् । आ॒ऋष्टि॒षे॒णेन॑ । सृ॒ष्टाः । दे॒वऽआ॑पिना । प्रऽइ॑षिताः । मृ॒क्षिणी॑षु ॥

In this upper ocean (i.e. clouds) (अस्मिन् उत्तरस्मिन् समुद्रे अधि) the waters (आपः) stood dammed up by the gods (देवेभिः निवृताः अतिष्ठन्). Those waters (ताः), released and sent down (सृष्टाः प्रेषिताः) by Devāpi the son of Ṛṣṭiṣeṇa (देवापिना आर्ष्टिषेणेन) flowed into the plains (मृक्षिणीषु अद्रवन्).

यद्दे॒वापि॒: शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् । दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥ ७ ॥

यत् । दे॒वऽआ॑पिः । शम्ऽत॑नवे । पु॒रःऽहि॑तः । हो॒त्राय॑ । वृ॒तः । कृ॒पय॑न् । अदी॑धेत् । दे॒व॒ऽश्रुत॑म् । वृ॒ष्टि॒ऽवनि॑म् । ररा॑णः । बृह॒स्पतिः॑ । वाच॑म् । अ॒स्मै॒ । अ॒य॒च्छ॒त् ॥

When the priest Devāpi (यत् देवापिः पुरोहितः) was chosen by Śantanu to be the Hotṛ (शंतनवे होत्राय वृतः), he, out of compassion (कृपयन्) solicited the seeker of rain (वृष्टिवनिम् अदीधेत्) (Bṛhaspati), whom the gods listen to (देवश्रुतम्). Then Bṛhaspati (बृहस्पतिः), being pleased (रराणः) bestowed on him (Devāpi) the power of speech (अस्मै वाचम् अयच्छत्).

Notes

  • वृष्टिवनिम् – from वृष्टिः (rain) and वनु याचने (to ask for), referring to Bṛhaspati (see verse 1)
  • अस्मै वाचम् अयच्छत् probably means “gave him knowledge (of the Veda)”

यं त्वा॑ दे॒वापि॑: शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्य॑: समी॒धे । विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑न॒: प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त॑म् ॥ ८ ॥

यम् । त्वा॒ । दे॒वऽआ॑पिः । शु॒शु॒चा॒नः । अ॒ग्ने॒ । आ॒र्ष्टि॒षे॒णः । म॒नु॒ष्यः॑ । स॒म्ऽई॒धे । विश्वे॑भिः । दे॒वैः । अ॒नु॒ऽम॒द्यमा॑नः । प्र । प॒र्जन्य॑म् । ई॒र॒य॒ । वृ॒ष्टि॒ऽमन्त॑म् ॥

O Agni (अग्ने)! You whom (यं त्वा) the brilliant mortal Devāpi (शुशुचानः मनुष्यः देवापिः), son of Ṛṣṭiṣeṇa (आर्ष्टिषेणः) kindled (समीधे), being honored by all the gods (विश्वेभिः देवैः अनुमाद्यमानः) impel (प्र ईरय) the rain-laden cloud (वृष्टिमन्तं पर्जन्यम्)!

त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ । स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥ ९ ॥

त्वाम् । पूर्वे॑ । ऋष॑यः । गीः॒ऽभिः । आ॒य॒न् । त्वाम् । अ॒ध्व॒रेषु॑ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ । स॒हस्रा॑णि । अधि॑ऽरथानि । अ॒स्मे इति॑ । आ । नः॒ । य॒ज्ञम् । रि॒हि॒त्ऽअ॒श्वा । उप॑ । या॒हि॒ ॥

(O Agni) The ancient sages (पूर्वे ऋषयः) approached you (त्वाम् आयन्) with adorations (गीर्भिः). O widely-invoked one (पुरुहूत)! All (the contemporary patrons) (विश्वे) approached you (त्वाम्) in sacrifices (अध्वरेषु). Give us (अस्मे) (wealth) laden on thousands of chariots (सहस्राणि अधिरथानि). O Rohidaśva (रोहिदश्व)! Come to our sacrifice (नः यज्ञं उप याहि)!

Note: रोहिदश्वः – one with red horses, generally used an an epithet for Agni

ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ । तेभि॑र्वर्धस्व त॒न्व॑: शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥ १० ॥

ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिः । नव॑ । त्वे इति॑ । आऽहु॑तानि । अधि॑ऽरथा । स॒हस्रा॑ । तेभिः॑ । व॒र्ध॒स्व॒ । त॒न्वः॑ । शू॒र॒ । पू॒र्वीः । दि॒वः । नः॒ । वृ॒ष्टिम् । इ॒षि॒तः । रि॒री॒हि॒ ॥

O Agni (अग्ने)! These ninety-nine thousand (एतानि नवतिः नव सहस्रा) chariot-loads (अधिरथा) have been offered to you (त्वे आहुतानि). By them (तेभिः) nourish your many bodies (तन्वः वर्धस्व) (in all sacrifices). O valiant one (शूर)! Being solicited for rain by us (नः वृष्टिम् इषितः) from the heavens (दिवः), fulfill our desire (रिरीहि) !

ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् । वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥ ११ ॥

एतानि॑ । अ॒ग्ने॒ । न॒व॒तिम् । स॒हस्रा॑ । सम् । प्र । य॒च्छ॒ । वृष्णे॑ । इन्द्रा॑य । भा॒गम् । वि॒द्वान् । प॒थः । ऋ॒तु॒ऽशः । दे॒व॒ऽयाना॑न् । अपि॑ । औ॒ला॒नम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ ॥

O Agni (अग्ने)! Offer (सं प्र यच्छ) these ninety thousand (एतानि नवतिं सहस्रा) to the wish-fulfiller Indra (इन्द्राय वृष्णे) as his share (भागम्)! Knower of (विद्वान्) the seasonal (ऋतुशः) paths of the gods (देवयानान् पथः), install also Aulāna (अपि औलानम् धेहि) in the midst of the gods in heaven (दिवि देवेषु)!

Note: औलानम् – कुरुकुलजातमपि शान्तनवम् (सायणः) (a son of Śantanu)

अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध । अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥ १२ ॥

अग्ने॑ । बाध॑स्व । वि । मृधः॑ । वि । दुः॒ऽगहा॑ । अप॑ । अमी॑वाम् । अप॑ । रक्षां॑सि । से॒ध॒ । अ॒स्मात् । स॒मु॒द्रात् । बृ॒ह॒तः । दि॒वः । नः॒ । अ॒पाम् । भू॒मान॑म् । उप॑ । नः॒ । सृ॒ज॒ । इ॒ह ॥

O Agni (अग्ने)! Destroy (वि बाधस्व) the enemy strongholds (मृधः दुर्गहा)! Drive away (अप सेध) disease (अमीवाम्) and the evil ones (रक्षांसि), and bring down (उप सृज) copious waters (अपाम् भूमनाम्) from the vast heavenly ocean (of clouds) (अस्मात् बृहतः दिवः समुद्रात्) for us (नः) here (इह)!


RV10.97     RV10.99    RV Mandala 10      RigVeda

 

Advertisements