RV10.29

ऋषिः  – वसुक्रः ऐन्द्रः। देवता – इन्द्रः । छन्दः – त्रिष्टुप् ।

’वनो न वा’ इत्यष्टर्चं त्रयोदशं सूक्तं वसुक्रस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च – ’वने नाष्टौ’ इति । चतुर्थेऽहनि स्तोमवृद्धौ ब्राह्मणच्छंसिन एतत्सूक्तमावापार्थम् । सूत्रितं च – ’स्तोमे वर्धमाने को अद्य नर्यो वने न वा यः’ (आश्व. श्रौ. 7.12) इति । महाव्रते चिष्केवल्य एतत्सूक्तम् । सूत्रितं च – ’प्र वो महे मन्दमानायान्धस इति निविद्धानं वने न वा यो न्यधायि चाकन्’ (ऐ. आ. 5.3.1) इति ॥


RV10.29-Text-Audio     RV10.28     RV10.30    RV Mandala 10      RigVeda
Advertisements