RV8.91

ऋषिः  – आत्रेयी अपाला । देवता – इन्द्रः । छन्दः – अनुष्टुप्, पङ्क्तिः (1,2) ।

८.९.११ – ’कन्या वाः’ इति सप्तर्चमेकादशं सूक्तम् । अत्रेः पुत्र्यपाला त्वग्दोषपरिहारायानेन सूक्तेनेन्द्रं स्तुतवती । अतः सैवर्षिः । प्रथमाद्वितीये पङ्क्ती शिष्टाः पञ्चानुष्टुभः । इन्द्रो देवता । तथा चानुक्रान्तं – ’कन्या वाः सप्तात्रेय्यपालेतिहास ऐन्द्र आनुष्टुभं द्विपङ्क्त्यादि’ इति । विनियोगो लैङ्गिकः । अत्रेतिहासमाचक्षते ।

In his introduction to this sūkta, Sāyaṇa quotes an anecdote from the Śāṭyāyana Brāhmaṇa, translated below:

पुरा किलात्रिसुतापाला ब्रह्मवादिनी केनेचित्कारणेन त्वग्दोषदुष्टा सत्यत एव दुर्भगेति भर्त्रा परित्यक्ता पितुराश्रमे त्वग्दोषपरिहाराय चिरकालमिन्द्रमधिकृत्य तपस्तेपे ।

In ancient times, Apālā the daughter of Atri and a teacher of the Veda was afflicted by a skin disease for some reason. Having been abandoned by her husband for this reason she dwelt in her father’s āśrama for a long time, meditating on Indra.

सा कदाचिदिन्द्रस्य सोमः प्रियकरो भवति तमिन्द्राय दास्यामीति बुद्ध्या निदीतीरं प्रत्यागमत् । सा तत्र स्नात्वा पथि सोममप्यलभत । तमादाय गृहं प्रयागच्छन्ती मार्गं एव तं चखाद ।

Once, knowing that Indra loves soma, she went to the bank of the river with the intention of offering it to him. Having bathed there, she found a soma creeper on the way back. Taking that soma while returning home, she started chewing on it while still on the way.

तद्भक्षणकाले दन्तघर्षणजातं शब्दं ग्राव्णां सोमाभिषध्वनिमिति मत्वा तदानीमेवेन्द्रः समागमत् । आगत्य तामुवाच । किमत्र ग्रावाणोऽभिषुण्वन्तीति । सा प्रत्यूचे । अत्र कन्या स्नानार्थमागत्य सोमं दृष्ट्वा तं भक्षयति तद्भक्षणजो ध्वनिरेव न तु ग्राव्णां सोमाभिषवध्वनिरिति ।

When she was chewing the soma, Indra, thinking that the sound made by her grinding jaws was the sound of the soma pressing stones, approached her. Having come to her, he said “Are the stones pressing out soma here?”. She replied, “Here a maiden, having come to take her bath and having found soma, chews on it, and this sound is from the noise made by her chewing, not from the soma pressing stones.”

तथा प्रत्युक्त इन्द्रः पराङावर्तत । गच्छन्तमिन्द्रं सा पुनरब्रवीत् । किमर्थं निवर्तसे त्वं तु सोमपानाय गृहं गृहं प्रति गच्छसि । इदानीमत्रापि मम दंष्ट्राभ्यामभिषुतं सोमं पिब धानादींश्च भक्षयेति । सैवेन्द्रमनाद्रियमाणा सती पुनरप्याह । अत्रागतं त्वामिन्द्र इति न जानामि त्वयि गृहमागते बहुमानं करिष्यामीतीन्द्रमुक्त्वात्र समागत इन्द्र एव नान्य इति निश्चित्य स्वास्ये निहितं सोममाह ।

Being thus replied to, Indra started to return. She spoke again to Indra who was going away, “Why do you return? You go to every home for drinking soma. You can just as well do that now by drinking the soma pressed out by my jaws and eating fried barley etc.” She, not giving him respect, said again, “I do not know whether you who have come here are Indra, but if you come to my house, I will honor you”. Having thus spoken to Indra, she, feeling certain that it was indeed Indra and no one else, addressed the soma that was in her mouth:

हे सोम त्वमागतायेन्द्राय पूर्वं शनैस्ततः शनकैः क्षिप्रं परिस्रवेति । तत इन्द्रस्तां काम्यित्वा तस्या आस्य एव दंष्ट्राभिषुतं सोममपात् । तत इन्द्रेण सोमे पीते सति त्वग्दोषादहं भर्त्रा परित्यक्ता सतीदानीमिन्द्रेण संगतेत्यपालायामुक्तायामिन्द्रस्तां व्याजहार।

O Soma! Flow slowly and then rapidly for Indra who has come! Then Indra, having desired her, drank, in her mouth itself, the soma expressed by her jaws. Then when Indra had drunk the soma, and having been told by her that she was abandoned by her husband for having a skin disease and so had approached Indra, he said to her:

किं कामयसे तदहं करिष्यामीत्युक्ते सा वरमचीकमत । मम पितुः शिरो रोमवर्जितं तस्योषरं क्षेत्रं फलादिरहितं मम गुह्यस्थानमप्यरोमशमेतानि रोमफलादियुक्तं कुर्वित्युक्तायाम् तत्पितृशिरःस्थितं खलतिमपहाय क्षेत्रं च फलादियुक्तं कृत्वैतस्यास्त्वग्दोषपरिहाराय स्वकीयरथच्छिद्रे शकटस्य युगस्य च छिद्र एतां त्रिवारं निष्चकर्ष । तस्याः पूर्वापहता या त्वक् शल्यको द्वितीया गोधा तृतीया कृकलासोऽभूत् । तत इन्द्रस्तामप्यपालां सूर्यसदृशत्वचमकरोदित्यैतिहासिकी कथा । एतच्च शाट्यायनब्राह्मणे स्पष्टमुक्तम् ।

What do you desire? I will do it for you. She asked for a boon – My father’s head is without hair, his field is barren, my private parts are also without hair – make them all fertile. Having been implored thus, he made her father’s head grow hair, made his field fertile, and having removed her skin disease, pulled her thee times – through the (axle) hole of his own chariot, the (axle) hole of a cart and the hole of a yoke. The first skin of hers that was removed became a porcupine, the second a crocodile and the third a chameleon. Then Indra transformed Apālā to one with skin shining like the sun. This is a historical anecdote, clearly narrated in the Śāṭyāyana Brāhmaṇa.

Note: The text of the Śāṭyāyana Brāhmaṇa, having been lost, is not available now, but must have been available during Sāyaṇa’s time.

क॒न्या॒३ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् । अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥ १ ॥

क॒न्या॑ । वाः । अ॒व॒ऽय॒ती । सोम॑म् । अपि॑ । स्रु॒ता । अ॒वि॒द॒त् । अस्त॑म् । भर॑न्ती । अ॒ब्र॒वी॒त् । इन्द्रा॑य । सु॒न॒वै॒ । त्वा॒ । श॒क्राय॑ । सु॒न॒वै॒ । त्वा॒ ॥

The maiden (कन्या) while going (आवयती) to the river (वाः) found a soma creeper (सोमम् अपि अविदत्) on the way (स्रुता). Taking it home (अस्तम् भरन्ती) she said to it (अब्रवीत्), “I will press you for Indra (त्वा इन्द्राय सुनवै), I will press you for Śakra (शक्राय सुनवै त्वा)”.

अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् । इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥ २ ॥

अ॒सौ । यः । एषि॑ । वी॒र॒कः । गृ॒हम्ऽगृ॑हम् । वि॒ऽचाक॑शत् । इ॒मम् । जम्भ॑ऽसुतम् । पि॒ब॒ । धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ॥

O warrior (वीरकः)! You, being lustrous (विचाकशत्), go (यः असौ एषि) from house to house (गृहम् गृहम्) . Drink this soma pressed out by my jaws (इमं जम्भसुतं पिब) with fried barley (धानावन्तम्), flour (करम्भिणम्), and cakes (अपूपवन्तम्), accompanied by praises (उक्थिनम्).

Note

  • यः असौ एषि – difficult to translate; in Hindi it would be जो तुम जाते हो
  • करम्भिणम् = सक्तुमन्तम् , अपूपवन्तम् = पुरोडाशादिसहितम् (सायणः)

आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि । शनै॑रिव शन॒कैरि॒वेन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ३ ॥

आ । च॒न । त्वा॒ । चि॒कि॒त्सा॒मः॒ । अधि॑ । च॒न । त्वा॒ । न । इ॒म॒सि॒ । शनैः॑ऽइव । श॒न॒कैःऽइ॑व । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

(O Indra) We indeed (चन) wish to know you (त्वा आ चिकित्सामः) but (चन) we do not know you (त्वा न इमसि) . O Soma (इन्दो)! Flow for Indra (इन्द्राय परि स्रव), first slowly (शनैः इव) and then rapidly (शनकैः).

कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् । कु॒वित्प॑ति॒द्विषो॑ य॒तीरिन्द्रे॑ण सं॒गमा॑महै ॥ ४ ॥

कु॒वित् । शक॑त् । कु॒वित् । कर॑त् । कु॒वित् । नः॒ । वस्य॑सः । कर॑त् । कु॒वित् । प॒ति॒ऽद्विषः॑ । य॒तीः । इन्द्रे॑ण । स॒म्ऽगमा॑महै ॥

May (Indra) often (कुवित्) make us capable (शकत्) (to perform works), may he often perform works for us (कुवित् करत्), and may he often make us prosperous (नः वस्यसः करत्)! Extremely reviled by our husbands (कुवित् पतिद्विष:) and leaving them (यतीः) may we approach Indra (इन्द्रेण संगमामहै)!

इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी॑न्द्र॒ वि रो॑हय । शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥ ५ ॥

इ॒मानि॑ । त्रीणि॑ । वि॒ष्टपा॑ । तानि॑ । इ॒न्द्र॒ । वि । रो॒ह॒य॒ । शिरः॑ । त॒तस्य॑ । उ॒र्वरा॑म् । आत् । इ॒दम् । मे॒ । उप॑ । उ॒दरे॑ ॥

O Indra (इन्द्र)! There are three regions (इमानि त्रीणि विष्टपा) – make them fertile (तानि वि रोहय) – my father’s (bald) head (ततस्य शिरः), his barren field (उर्वराम्), and then (आत्) this pubic region of mine (इदम् मे उप उदरे).

Note: उपोदरे = उदरस्य समीपे गुह्यं स्थानम् – apparently she did not have any pubic hair

अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१ मम॑ । अथो॑ त॒तस्य॒ यच्छिर॒: सर्वा॒ ता रो॑म॒शा कृ॑धि ॥ ६ ॥

अ॒सौ । च॒ । या । नः॒ । उ॒र्वरा॑ । आत् । इ॒माम् । त॒न्व॑म् । मम॑ । अथो॒ इति॑ । त॒तस्य॑ । यत् । शिरः॑ । सर्वा॑ । ता । रो॒म॒शा । कृ॒धि॒ ॥

That (असौ) field of ours (नः) that is barren (या च उर्वरा) and this body of mime (आत् इमाम् मम तन्वम्) and furthermore (अथो) the head of my father (यत् ततस्य शिरः) – make them all (सर्वा ता कृधि) with hair (रोमशा) (i.e. growth)!

खे रथ॑स्य॒ खेऽन॑स॒: खे यु॒गस्य॑ शतक्रतो । अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णो॒: सूर्य॑त्वचम् ॥ ७ ॥

खे । रथ॑स्य । खे । अन॑सः । खे । यु॒गस्य॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒पा॒लाम् । इ॒न्द्र॒ । त्रिः । पू॒त्वी । अकृ॑णोः । सूर्य॑ऽत्वचम् ॥

O Śatakratu Indra (शतक्रतो इन्द्र)! Having purified (पूत्वी) Apālā (अपालाम्) three times (त्रिः) – in the hole of the chariot (रथस्य खे), in the hole of the cart (खे रथस्य) and in the hole of the yoke (खे युगस्य), you made her (अकृणॊः) have a skin bright as the sun (सूर्यत्वचम्)!

Note: The three holes are progressively smaller in size. Some scholars consider this to be an astronomical allegory denoting lunar eclipses of three different sizes occurring in cycles of 1,000 days. Apālā is the malevolent spirit of the eclipse – she is repudiated by her husband, the moon. This does not seem very convincing.  Also the anecdote from the Śāṭyāyana Brāhmaṇa mentions three skins, which could be a reference to some type of skin treatment.


RV8.90     RV8.92    RV Mandala 8      RigVeda

 

Advertisements