SB11.5.1

उर्वशी हाप्सराः पुरूरवसमैडं चकमे तं ह विन्दमानोवाच त्रिः स्म माह्नो वैतसेन दण्डेन हतादकामां स्म मा निपद्यासै मो स्म त्वा नग्नं दर्शमेष वै न स्त्रीणामुपचार इति ॥ १ ॥

The apsarā Urvaśī (उर्वशी अप्सराः ह) desired Purūravas (पुरूरवसम् चकमे), the son of Iḍā (ऐडम्). Wedding him (विन्दमाना) she said to him (तम् उवाच इति ह), “Three times during a day (अह्नः त्रिः स्म), you will have intercourse with me (वैतसेन दण्डेन हत) (see below), do not approach me (मां मा निपद्यासै स्म) if I am not willing (अकामाम्), let me not see (मो स्म दर्शम्) you naked (त्वा नग्नम्) – this is (एषः वै) not the way to conduct yourself with women (न स्त्रीणाम् उपचारः)”

Notes

  • चकमे = कमु कान्तौ + लिट्
  • वैतसेन दण्डेन हत – strike me (हत) with your erect (दण्डेन) penis (वैतसेन) – शेपो वैतस इति पुंस्प्रजननस्य (निरुक्तम् ३.२१)

सा हास्मिन्ज्योगुवास अपि हास्माद्गर्भिण्यास तावज्ज्योग्घास्मिन्नुवास ततो ह गन्धर्वाः समूदिरे ज्योग्वा इयमुर्वशी मनुष्येष्ववात्सीदुपजानीत यथेयम् पुनरागच्छेदिति तस्यै हाविर्द्व्युरणा शयन उपबद्धास ततो ह गन्धर्वा अन्यतरमुरणं प्रमेथुः ॥ २ ॥

She (सा) dwelt with him (अस्मिन्) for a long time (ज्योक् उवास ह) and also (अपि ह) became pregnant through him (अस्मात् गर्भिणी आस), so long (तावत् ज्योक्) did she dwell with him (अस्मिन् उवास ह) . Then the gandharvas spoke thus to one another (ततः गन्धर्वाः इति समूदिरे ह), “This Urvaśī (इयम् उर्वशी) has indeed dwelt for long (ज्योक् वै अवात्सीत्) among mortals (मनुष्येषु). Devise some means (उपजानीत) so that she (यथा इयम्) returns to us (पुनरागच्छेत्)”. She had (तस्यै ह) a sheep (अविः) and two lambs (द्‍व्युरणा) tied to her cot (शयने उपबद्धा आस). Then the gandharvas (ततः ह गन्धर्वाः) took away (प्रमेथुः) one of the lambs (अन्यतमम् उरणम्).

Note: उवास = वस निवासे + लिट् । ऊदिरे = वद व्यक्तायां वाचि + लिट् । अवात्सीत् = वस निवासे + लुङ् ।

सा होवाच अवीर इव बत मेऽजन इव पुत्रं हरन्तीति द्वितीयं प्रमेथुः सा ह तथैवोवाच ॥ ३ ॥

She said (सा उवाच इति ह), “Alas (बत)! They are taking away my son (मे पुत्रं हरन्ति) (i.e. my lamb) as if I am without warriors (अवीरः इव) and without people (अजनः इव) (to protect me)!” Then they took away (प्रमेथुः) the second one (द्वितीयम्). She spoke in the same manner (सा तथा एव उवाच).

अथ हायमीक्षांचक्रे कथं नु तदवीरं कथमजनं स्याद्यत्राहं स्यामिति । स नग्न एवानूत्पपात चिरं तन्मेने यद्वासः पर्यधास्यत । ततो ह गन्धर्वा विद्युतं जनयाञ्चक्रुस्तं यथा दिवैवं नग्नं ददर्श । ततो हैवेयं तिरोबभूव पुनरैमीत्येत्तिरोभूतां स आध्या जल्पन्कुरुक्षेत्रं समया चचारान्यातःप्लक्षेति बिसवती तस्यै हाध्यन्तेन वव्राज । तद्ध ता अप्सरस आतयो भूत्वा परिपुप्लुविरे ॥ ४ ॥

He then (अथ ह अयम्) considered thus (इति ईक्षांचक्रे), “How can (कथम् नु) the place (तद्) where I am (यत्र अहं स्याम्) be without a hero (अवीरम् स्यात्), how can it be (कथम्) without a protector (अजनम्) ?” Even as he was naked (नग्नः एव) he sprang up after them (सः अनु उत्पपात), he thought (मेने) it would be too late (तत् चिरम्) if he were to put on his garment (वासः यद् पर्यधास्यत). Then the gandharvas (ततः गन्धर्वाः ह) produced a flash of lightning (विद्युतं जनयाञ्चक्रुः), and she saw him naked (तं नग्नं ददर्श) as it it were by day (दिवा एवम्). Then she vanished (ततः अयं तिरो बभूव) saying (इति) “I will return (पुनः ऐमि)”. On her having vanished (एतत् तिरोभूताम्) he, rambling with sorrow (आध्या जल्पन्) wandered (चचार) in the vicinity of Kurukṣetra (कुरुक्षेत्रं समया). There was a lotus-lake called Anyātaḥplakṣā (अन्यातःप्लक्षा इति बिसवती) – he walked along its banks (तस्यै ह अधि अन्तेन वव्राज). There were apsarases (तत् ह ताः अप्सरसः) who swam around (परिपुप्लुविरे) in the form of swans (आतयः भूत्वा).

Notes

  • पर्यधास्यत = परि + धा + लृङ् (आ०) = परि + अधास्यत
  • जनयाञ्चक्रुः = जनि प्रादुर्भावे + णिच् + आम् + कृ + लिट्
  • आतिः = अत सातत्यगमने + इण् [by इणजादिभ्यः, वा० ६ on (३।३।१०८)] – constantly moving (aquatic bird)

तं हेयं ज्ञात्वोवाच अयं वै स मनुष्यो यस्मिन्नहमवात्समिति ता होचुस्तस्मै वा आविरसामेति तथेति तस्मै हाविरासुः ॥ ५ ॥

Recognizing him (तं ज्ञात्वा) she said (इयम् इति उवाच ह) (to her companions), “This indeed is the man (अयं वै सः मनुष्यः) with home I have dwelt (यस्मिन् अहम् अवात्सम्)”. They spoke to her thus (ताः तस्मै ह इति ऊचुः), “Shall we reveal ourselves (आविः असाम वा) ?” “Yes (तथा)!”, she said (इति). Then they appeared in front of him (तस्मै आविः ह् आसुः).

तां हायं ज्ञात्वाभिपरोवाद ’हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन्’ इत्युप नु रम सं नु वदावहा इति हैवैनां तदुवाच ॥ ६ ॥

Recognizing her (तां ज्ञात्वा) he implored her saying (अभिपरोवाद इति), ’हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन् ॥ (ऋ० १०.९५.१). ” Wait (उपरम नु)! Let us talk to each other (संवदावहै नु)!” is what he meant to say to her (इति ह एव एनां तद् उवाच).

तं हेतरा प्रत्युवाच किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मीति न वै त्वं तदकरोर्यदहमब्रवं दुरापा वा अहं त्वयैतर्ह्यस्मि पुनर्गृहानिहीति हैवैनं तदुवाच ॥ ७ ॥

अथ हायं परिद्यून उवाच सुदेवो अद्य प्रपतेदनावृत्परावतं परमाम् गन्तवाउ अधा शयीत निर्ऋतेरुपस्थेऽधैनं वृका रभसासो अद्युरिति सुदेवोऽद्योद्वा बध्नीत प्र वा पतेत्तदेनं वृका वा श्वानो वाद्युरिति हैव तदुवाच ॥ ८ ॥

तं हेतरा प्रत्युवाच पुरूरवो मा मृथा मा प्रपप्तो मा त्वा वृकासो अशिवास उ क्षन् न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येतेति मैतदादृथा न वै स्त्रैणं सख्यमस्ति पुनर्गृहानिहीति हैवैनं तदुवाच ॥ ९ ॥

यद्विरूपाचरम् मर्त्येष्ववसं रात्रीः शरदश्चतस्रः घृतस्य स्तोकं सकृदह्नु आश्नां तादेवेदं तातृपाणा चरामीति तदेतदुक्तप्रत्युक्तं पञ्चदशर्चं बह्वृचाः प्राहुस्तस्यै ह हृदयमाव्ययां चकार ॥ १० ॥

सा होवाच संवत्सरतमीं रात्रिमागच्छतात्तन्म एकां रात्रिमन्ते शयितासे जात उ तेऽयं तर्हि पुत्रो भवितेति स ह संवत्सरतमीं रात्रिमाजगामेद्धिरण्यविमितानि ततो हैनमेकमूचुरेतत्प्रपद्यस्वेति तद्धास्मै तामुपप्रजिध्युः ॥ ११ ॥

सा होवाच गन्धर्वा वै ते प्रातर्वरं दातारस्तं वृणासा इति तं वै मे त्वमेव वृणीष्वेति युष्माकमेवैकोऽसानीति ब्रूतादिति तस्मै ह प्रातर्गन्धर्वा वरं ददुः स होवाच युष्माकमेवैकोऽसानीति ॥ १२ ॥

ते होचुः न वै सा मनुष्येष्वग्नेर्यज्ञिया तनूरस्ति ययेष्ट्वास्माकमेकः स्यादिति तस्मै ह स्थाल्यामोप्याग्निं प्रददुरनेनेष्ट्वास्माकमेको भविष्यसीति तं च ह कुमारं चादायावव्राज सोऽरण्य एवाग्निं निधाय कुमारेणैव ग्राममेयाय पुनरैमीत्येत्तिरोभूतं योऽग्निरश्वत्थं तं या स्थाली शमीं तां स ह पुनर्गन्धर्वानेयाय ॥ १३ ॥

ते होचुः संवत्सरं चातुष्प्राश्यमोदनं पच स एतस्यैवाश्वत्थस्य तिस्रस्तिस्रः समिधो घृतेनान्वज्य समिद्वतीभिर्घृतवतीभिर्ऋग्भिरभ्याधत्तात्स यस्ततोऽग्निर्जनिता स एव स भवितेति ॥ १४ ॥

ते होचुः परोऽक्षमिव वा एतदाश्वत्थीमेवोत्तरारणिं कुरुष्व शमीमयीमधरारणिं स यस्ततोऽग्निर्जनिता स एव स भवितेति ॥ १५ ॥

ते होचुः परोऽक्षमिव वा एतदाश्वत्थीमेवोत्तरारणिं कुरुष्वाश्वत्थीमधरारणिं स यस्ततोऽग्निर्जनिता स एव स भवितेति ॥ १६ ॥

स आश्वत्थीमेवोत्तरारणिं चक्रे आश्वत्थीमधरारणिं स यस्ततोऽग्निर्जज्ञे स एव स
आस तेनेष्ट्वा गन्धर्वाणामेक आस तस्मादाश्वत्थीमेवोत्तरारणिं कुर्वीताश्वत्थीमधरारणिं स यस्ततोऽग्निर्जायते स एव स भवति तेनेष्ट्वा गन्धर्वाणामेको भवति ॥ १७ ॥


 

Advertisements