U261

अर्ति-सृ-धृ-धम्यश्यवि-तॄभ्योऽनिः ॥ २६१ (२.१०३) ॥

ऋ सृ गतौ । धृञ् धारणे । धमिः सौत्रः । अम गतौ । अश भोजने । अव रक्षणे । तॄ प्लवनतरणयोः । एभ्योऽष्टभ्योऽनिः स्यात् । अरणिः स्यात् द्वयोर्मध्यदारुण्यग्निसमिंधन इत्यमरः ॥ सरणिः पंथाः । शरणिः पथि चामर इत्यजयः । तालव्यदंत्यभेदेन द्विविधः । एवं च शॄ हिंसायामिनि केचित्पठन्ति ॥ सर्तेर्न्यतादपि बहुलवचनादनिः । कृदिकारादिति ङीष् । सारणीषु परमंबु शोभत इति चंद्रः ॥ धरणिः क्षितिः ॥ धमनिः सिरा ॥ अमनिर्गतिः ॥ अश्यते भुज्यते राज्यमिंद्रेणन्येत्यशनिर्वज्रम् ॥ अवनिर्मही । हिनु मीना (पा. ८।४।२०) । इत्यत्रास्यापि ग्रहणात् णत्वं भवति । प्रावणिरिति ॥ तरणिः सूर्यनौकयोः । तरणिस्तारणे भानौ कुमार्योषधिभेदयोः । णांत इति विश्वः । स्त्रियां नौस्तरणिस्तरिरित्यमरः । वैपूर्वाद्वैतरणिः प्रेतनदी ॥ बाहुलकात् रंज रागे । अतोऽप्यनिः । रजनिर्यामिनी । आवर्तमाना ददृशे देवापि रजनाविवेत्यभिनंदः । कृदिकारादिति ङीष् । रजनी नीलिकाद्राक्षाहरिद्रायामिनीषु च । नांत इति विश्वः ॥ तथा दृणातेरप्यनिः । दरणिर्द्वयोरिति शब्दार्णवः ॥


Unadi Index     U260     U262

 

 

Advertisements