U560

हृ-पिषि-रुहि-वृति-विदि-छिदि-कीर्तिभ्यश्च ॥ ५६० (३.११८) ॥

अनुवृत्तिः – इन् (५५९)

हरत्यादिसप्तभ्यैन् स्यात् ॥ हरिर्विष्णावहाविंद्रे भेके सिंहे हये रवौ । चंद्रे कीले प्लवंगे च यमे वाते हरिः स्मृतः । हरिहयो हर्यश्वः । हरिपोतो हरितः । संज्ञायां कन् । हरीतकी । गौरादित्वात् ङीष् ॥ पेषिर्वज्रम् ॥ रोहिर्व्रती ॥ वर्तिर्दोषोपकरणां ॥ विद्यते पुण्यमस्यामिति वेदिः परिष्कृता भूमिः ॥ छेदिर्वर्धकिश्छेत्ता च ॥ कॄत संशब्दने । इरादिकार्यः । कीर्तिः स्यात्पुण्ययशसोः  ॥


Unadi Index     U559     U561

 

Advertisements