RV10.187

ऋषिः  – वत्सः आग्नेयः । देवता – अग्निः । छन्दः – गायत्री ।

’प्राग्नये’ इति पञ्चर्चं षट्त्रिंशं सूक्तमग्नेः पुत्रस्यार्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तं – ’प्राग्नये पञ्चाग्नेयो वत्स आग्नेयं तु’ इति । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदमादिके द्वे सूक्ते । सूत्र्यते हि – ’प्राग्नये वाचमिति सूक्त इमं मे अग्ने समिधम्’ (आश्व. श्रौ. ४.१३) इति । दशरात्रस्य नवमेऽहन्याग्निमारुत इदं जातवेदसं निविद्धानम् । सूत्रितं च – ’मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम्’ (आश्व. श्रौ. ८.११) इति ॥

प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम् । स न॑: पर्ष॒दति॒ द्विष॑: ॥ १ ॥

प्र । अ॒ग्नये॑ । वाच॑म् । ई॒र॒य॒ । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते । स न॑: पर्ष॒दति॒ द्विष॑: ॥ २ ॥

यः । पर॑स्याः । प॒रा॒ऽवतः॑ । ति॒रः । धन्व॑ । अ॒ति॒ऽरोच॑ते । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ । स न॑: पर्ष॒दति॒ द्विष॑: ॥ ३ ॥

यः । रक्षां॑सि । नि॒ऽजूर्व॑ति । वृषा॑ । शु॒क्रेण॑ । शो॒चिषा॑ । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स न॑: पर्ष॒दति॒ द्विष॑: ॥ ४ ॥

यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत । स न॑: पर्ष॒दति॒ द्विष॑: ॥ ५ ॥

यः । अ॒स्य । पा॒रे । रज॑सः । शु॒क्रः । अ॒ग्निः । अजा॑यत । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥


RV10.186     RV10.188    RV Mandala 10      RigVeda